Sunday, January 6, 2019

शौचाचमन पटलः

       अथ शौचाचमन पटलः
अथातः संप्रवक्ष्यामि सौचाचमनलक्षणम् ।  
साधकानां हितार्थन्तु चतुराश्रमधर्मिणाम् ॥   ४-१ ॥
ब्राह्मे मुहूर्ते विद्वान् वै मनसाचिन्तयेच्छिवम् ।  
त्रिपादो न त्रिघटिका राजन्ते तु दिने दिने ॥   ४-२ ॥
ब्राह्म्यं मुहूर्त्तमाख्यातं मम संख्यासु कथ्यते ।  
उत्थाय च बहिर्ग्रामात् गत्वाशौचं समाचरेत् ॥   ४-३ ॥
रविं दक्षिणतः कृत्वा विण्मूत्रन्तु विसर्जयेत् ।  
दक्षिणाभिमुखोरात्रौ तृणमाधायभूतले ॥   ४-४ ॥
करे वा कर्णमूले वा उपवीतं न्यसेत् बुधः ।  
वेष्टयित्वा शिरस्तत्र ऋजुका यो न पाचयन् ॥   ४-५ ॥
प्रत्यादित्य जलाग्निनां चन्द्रगोब्राह्मणान् प्रति ।  
देवालयसमीपे तु कूपे गोष्ठेन भस्मनि ॥   ४-६ ॥
क्षेत्रे च वृक्षच्छायायां नद्यामन्तस्सरस्वपि ।  
चैत्य वृक्षसमीपे तु वेलायां वाम होदधेः ॥   ४-७ ॥
चत्वरे ग्रहमध्ये च न कुर्यादुभयं नरः ।  
वामेन शिश्नं संग्राह्य मृत्पिण्डं दक्षिणे करे ॥   ४-८ ॥
जलेशुद्धे समागम्य पश्चात् छौचं समाचरेत् ।  
सकृन्मृत्तिकया शिश्नमक्षमात्रप्रमाणतः ॥   ४-९ ॥
तथा सर्वत्र संयोज्य पश्चात् पादे तु मृत्तिकाम् ।  
दश कृत्वा करं वामं सप्तकुर्यात् करद्वयम् ॥   ४-१० ॥
शोधयेदंभसा नित्यं ग्रहस्थानां विधीयते ।  
एतद् उक्तं ग्रहस्थानां द्विगुणंब्रह्मचारिणाम् ॥   ४-११ ॥
त्रिगुणं वानप्रस्थानां यतीनान्तु चतुर्गुणम् ।  
यावन्मात्रामनः शुद्धिस्तावत् शौचं समाचरेत् ॥   ४-१२ ॥
उत्थायतीरोत् तस्माद् वै अन्यत्राचमनञ्चरेत् ।  
प्रक्षाल्य पाणिपादौ च दक्षिणादि क्रमेण तु ॥   ४-१३ ॥
स पवित्रकरेणैव सर्वकर्मसमाचरेत् ।  
स्थले तु दक्षिणं पादं वामपादं जलेस्थितम् ॥   ४-१४ ॥ प्. २४)
नाभो न दिक्षुसंवीक्ष्य हस्ते गोकर्णवत् कृते ।  
माषमग्नन्तु यद्वारि निःशब्दन्तत्र पीयते ॥   ४-१५ ॥
यथा वै त्रितयं पीत्वा आस्येंगुष्ठेन निस्पृशेत् ।  
मुखं हस्तेन संस्पृश्य पद्भ्यामभ्युक्षणं भवेत् ॥   ४-१६ ॥
अङ्गुष्ठानामिकाभ्यान्तु चक्षुषी संस्पृशेत् बुधः ।  
अङ्गुष्ठ तर्जनीभ्यान्तु नासिकां संस्पृशेत् पुनः ॥   ४-१७ ॥
अङ्गुष्ठ कनिष्ठाभ्यां तु श्रोत्रे चैव तु संस्पृशेत् ।  
यदा तत् त्रितयं पीत मृग्यजुः सामतृप्तये ॥   ४-१८ ॥
अथर्वस्येति हासार्थं तन्मुखन्तु द्विधा स्पृशेत् ।  
पादावुभौ तदाभ्युक्ष्य ऋषीणां सप्ततृप्तये ॥   ४-१९ ॥
मूर्द्धास्ये चक्षुषी श्रोत्रे सर्वाधिक्येन्दु चक्षुषा ।  
भुजौ तु नाभि हृदयमिन्द्रमिष्ण्वनलांस्तथा ॥   ४-२० ॥
क्षुधेकफेत्वधासन्ने सद्य आचमनं कुरु ।  
अङ्गुष्ठे नास्य संस्पृश्य पश्चादाचमनं बुधः ॥   ४-२१ ॥
एवमाचनं प्रोक्तं तत स्नानविधिं श्रुणु ॥  

इति शौचाचमनश्चतुर्थ पटलः ॥   ४ ॥

स्नान पटलः

 अथ स्नान पटलः
अथातः संप्रवक्ष्यामि स्नानं पापहरं परम् ।  
पञ्च स्नानानि विप्राणां हीनानां शुद्धये ततः ॥   ५-१ ॥
स्नानं वारुणमाग्नेयं दिव्यं वायव्यमानसौ ।  
वरुणं वारिणा स्नानं आग्नें भस्मनाभवेत् ॥   ५-२ ॥
दृष्ट्वा सातपयादिव्यं वायव्यं रजसागवाम् ।  
मन्त्रैर्मान समित्युक्तं पञ्चस्नानाः प्रकीर्तिताः ॥   ५-३ ॥
वक्ष्ये वारुणमाग्नेयं श्रुणु तत्वं गजानन ।  
नद्यां वाप्यान्तटाके वा कूपे वापि चतुर्विधम् ॥   ५-४ ॥ प्. २५)
कूपस्नानं न कर्तव्यं वाप्यादिषु च संभवे ।  
तटाकेष्वपिन स्नानं सरित्सत्यां गजानन ॥   ५-५ ॥
कूपाद् दशगुणं वाप्यां वाप्यादशगुणं सरित् ।  
तस्माद् दशगुणं नद्यस्समुद्रगामिकाः पराः ॥   ५-६ ॥
प्राङ्मुखोदङ्मुखो वापि स्नानार्थं संव्रजेत् गुरुः ।  
ततः शतगुणं पुण्यं स्नानं प्राङ्मुखमुच्यते ॥   ५-७ ॥
तत्रापि दक्षिणन्तीरमनन्तं फलमावहेत् ।  
तोयंशुद्धमशुद्धं वा शिवालयसमीपतः ॥   ५-८ ॥
शिवगङ्गेति तां विद्याच्छिवधामांबु सेवनात् ।  
तेषान्तीर्थं समागम्य स्नानं कुर्याद् विशेषतः ॥   ५-९ ॥
शुचौ देशेसुखासीनः प्राङ्मुखोवाप्युदङ्मुखः ।  
प्लक्षोदुंबरनिम्बैश्च कुर्याद्वैदन्तधावनम् ॥   ५-१० ॥
मलस्नानं पुराकृत्वा विधिस्नानं ततः परम् ।  
रजनीकरणविष्ठैस्तु अङ्गप्रत्यंगघर्षणम् ॥   ५-११ ॥
मलस्नानमिदं प्रोक्तं मन्त्रस्नानमतः श्रुणु ।  
मत्स्यमण्डूकसर्पाद्यैरन्यैश्च जलजादिभिः ॥   ५-१२ ॥
सेवितन्तु जलं नित्यं तस्माद्दुष्टं विशेषतः ।  
तद्दोषशमनार्थन्तु शिवतीर्थं प्रकल्पयेत् ॥   ५-१३ ॥
हस्तमात्रप्रमाणेन परितश्चतुरश्रकम् ।  
हुंफट्कारेणे शुद्धाञ्च मृदं गृह्णीतसाधकः ॥   ५-१४ ॥
सद्येन स्थापयेन्मन्त्री वामदेवेन सेचयेत् ।  
अघोरेण तु संप्पृश्य पुरुषेण त्रिभागिकम् ॥   ५-१५ ॥
पूर्वेण दक्षिणे नैव तथा चैवोत्तरेण तु ।  
ईशानेन तु मन्त्रेण एकैकमभिमन्त्रयेत् ॥   ५-१६ ॥
अस्त्रंब्रह्मशिवं जप्त्वा पूर्वादिक्रमशो न्यसेत् ।  
अस्त्रजप्तन्तु यद्भागं दशदिक्षुविनिक्षिपेत् ॥   ५-१७ ॥
शिवजप्तन्तु यद्भागं तीर्थमद्ध्ये विनिक्षिपेत् ।  
फट्कारेणाभिमन्त्रेण नाराचास्त्रप्रयोगतः ॥   ५-१८ ॥ प्. २६)
जले सूक्ष्माश्च ये दोषास्तेषामुच्चाटनं भवेत् ।  
ब्रह्मजप्तस्य चार्द्धेन आत्मनोङ्गानि कर्षयेत् ॥   ५-१९ ॥
शिरोवक्त्रञ्च हृदयं पादौगुह्यञ्च भागशः ।  
शेषार्द्धेनोप संस्पृश्य स्नात्वा भित्वा पुनः पुनः ॥   ५-२० ॥
उपस्पृश्य ततस्नायाच्छिव तीर्थस्यमध्यतः ।  
तीर्थानिपञ्च वै सन्ति द्विजानामुभयेकरे ॥   ५-२१ ॥
ब्रह्माग्नि पित्रदेवाश्च ऋषितीर्थानि पञ्चधा (-था) ।  
अङ्गुष्ठमूलके ब्राह्मं अग्निमङ्गुलमध्यमे ॥   ५-२२ ॥
तर्जन्यङ्गुष्ठयोर्मध्ये पैत्रकं तीर्थमुच्यते ।  
अङ्गुलीनान्तु मूलेतु दैविकं तीर्थमुच्यते ॥   ५-२३ ॥
अङ्गुल्यग्रे ऋषीतीर्थं पञ्चदेवांश्च विन्यसेत् ।  
अग्निर्वायुः प्रजाद्ध्यक्षः तीक्ष्णरश्मिः पुरन्दरः ॥   ५-२४ ॥
अङ्गुष्ठादौ न्यसेद् विद्वान् क्रमेणैव व्यवस्थितान् ।  
पिबेद् वै ब्रह्मतीर्थेन चाग्नितीर्थेन प्रोक्षणम् ॥   ५-२५ ॥
चक्रवत्युपचारेण सुगन्धामलकादिभिः ।  
जलक्रीडावसाने तु वक्त्रमुद्राभिषेचयेत् ॥   ५-२६ ॥
शिवब्रह्माङ्ग विद्याङ्गै स्नानं कृत्वा विचक्षणः ।  
पञ्चब्रह्मशिवाङ्गैश्च त्रिपदैरघमर्षणम् ॥   ५-२७ ॥
अन्तर्जले पिधायाक्षं सर्वाङ्गं नैव दर्शयेत् ।  
दर्शयेच्च ततः तीर्थं मुखमग्नोध वा पुनः ॥   ५-२८ ॥
मुखमग्नन्तु यत् प्रोक्तं शताद्ध्यर्धं भवेत् क्रमात् ।  
अर्धाङ्गेध्यर्ध साहस्रं निम्नगेकोटिरुच्यते ॥   ५-२९ ॥
ध्यानयुक्तो विनिक्रम्य क्रमेणाचम्य तत्वतः ।  
ततः सूर्य इति प्रातर्मध्याह्नेत्वाप उच्चरेत् ॥   ५-३० ॥
सायेऽग्निश्चेति जप्त्वा तु क्रमेणाचमनञ्चरेत् ।  
आपोहिष्ठेति संप्रोक्ष्य सावित्र्या चोदकंक्षिपेत् ॥   ५-३१ ॥
स्थित्वा सन्ध्यामुपासीत प्रातः शुद्धकृताञ्जलिः ।  
स्थितो वासीनमध्याह्ने उपासीनस्तुरात्रिके ॥   ५-३२ ॥ प्. २७)
एकवारं यथा शक्यं प्राणायामन्ततो जपेत् ।  
अष्टवारन्तु सावित्रीं सन्ध्याकालेषु नित्यशः ॥   ५-३३ ॥
मित्रा सत्येनेमम्मेति सततं स ममंत्रितः ।  
एभिर्मन्त्रैस्त्रिभिर्विद्वान् प्रातरादावुपासयेत् ॥   ५-३४ ॥
देवां नृषीन् पितॄंश्चैव वामाघोरेण सद्यकैः ।  
तर्पयेत् तु यथा विद्वान् पूर्वे चोत्तरदक्षिणे ॥   ५-३५ ॥
अप्रशस्तं निशि स्नानं रवेरन्यत्रदर्शनात् ।  
वृत्त्रस्य रुधिरं नित्यं स्रवन्तिनिशिनिम्नगाम् ॥   ५-३६ ॥
तस्मात् स्नानञ्च पानञ्च न कुर्वीत कदाचन ।  
रात्रौ वा परिगृह्णीयाद् देवार्थञ्चात्मनश्च वै ॥   ५-३७ ॥
सुवर्णानि समक्षं वा प्राणायामेन वा जलम् ।  
प्राणायामत्रयं वापि कारयेद् देशिकोत्तमः ॥   ५-३८ ॥
जलशुद्धिर्भवे देवं निशि स्नानायगम्यते ।  
तस्माद् दीपन्तु गृह्णीयाद् देवार्थञ्चात्मनश्च वै ॥   ५-३९ ॥
एवं समाचरेन्नित्यं शिवमन्त्रं ततो जपेत् ।  
ऋग्भिर्जप्तैर्जलं स्पृष्ट्वा मूर्ध्निपादान्तकं क्रमात् ॥   ५-४० ॥
शिवमन्त्रं यथा शक्ति जपेत् ब्रह्माङ्गकैर्बुधः ।  
फट्कारेण तु मन्त्रेण शिवतीर्थन्तु संहरेत् ॥   ५-४१ ॥
धौतवस्त्रन्तु संग्राह्य चार्द्रवस्त्रं विसर्जयेत् ।  
शिवधामन येत् पश्चात् प्रदक्षिणमथाचरेत् ॥   ५-४२ ॥
प्रणम्यदण्डवत् भूमौ शिवं परमकारणम् ।  
यत्र यत्र मुखद्वारे कवाटद्वयमिष्यते ॥   ५-४३ ॥
तत्र तत्र कवाटे तु नवदेवान् समर्चयेत् ।  
भूजङ्गञ्च पतङ्गञ्च ऊर्ध्वाधः कल्पयेत् क्रमात् ॥   ५-४४ ॥
तत् स्कन्दपट्टिका मध्ये त्वा संस्थाप्य विशेषतः ।  
स्वनामाद्येन चार्णेन गन्धपुष्पादिनार्चयेत् ॥   ५-४५ ॥ प्. २८)
अस्त्रमन्त्रेणमतिमान्तं मुद्रान्तु प्रदर्शयेत् ।  
कवाटोद्घाटनं कृत्वा प्रविशेन्मण्डपं प्रति ॥   ५-४६ ॥
ततस्तु शोधनीं बद्ध्वा हुंकारेणविशोधयेत् ।  
जलस्नानमिदं प्रोक्तं भस्मस्नानमथो श्रुणु ॥   ५-४७ ॥

इति स्नान पटलः पञ्चमः ॥   ५ ॥

भस्मस्नान पटलः

अथ भस्मस्नान पटलः
अथातः संप्रवक्ष्यामि भस्मस्नानविधिं परम् ।  
श्रीकरञ्च पवित्रञ्च हारमाभरणं तथा ॥   ६-१ ॥
लोकवश्यकरं पुण्यं पापनाशं दिने दिने ।  
गावच्छिवपुरात् पञ्चक्षितिं प्राप्ताः शिवेच्छया ॥   ६-२ ॥
सुरासुरैर्मध्यमानात् क्षीरोदात् सागरोत्तमात् ।  
पञ्चगावस्समुत्पन्नास्सर्वलोकस्यमातरः ॥   ६-३ ॥
नन्दासुभद्रासुरभिः सुशीलाः सुमनास्तथा ।  
कपिलाकृष्णश्वेता च धूम्रारक्ता तथैव च ॥   ६-४ ॥
नन्दादि सुमनान्तानां वर्णमेतत् प्रकीर्तितम् ।  
सर्वलोकोपकारार्थं देवानां तर्पणाय च ॥   ६-५ ॥

गोमातर स्थिता भुमौ स्नानार्थं हि शिवस्य तु ।  
गोमयं रोचनामूत्रं क्षीरं दधि घृतङ्गवाम् ॥   ६-६ ॥
षडङ्गानि पवित्राणि सर्वसिद्धिकराणि हि ।  
गोभिर्यज्ञा प्रवर्तन्ते गोषुदेवां प्रतिष्ठिताः ॥   ६-७ ॥ ***
गोभिर्वेदास्समुद्गीर्णास्सषडङ्गपदक्रमाः ।  
श्रुङ्गमूले गवां नित्यं ब्रह्माविष्णुश्च संस्थितौ ॥   ६-८ ॥ ***
श्रुङ्गाग्रे सर्वतीर्थानि स्थावराणि चराणि च ।  
शिरोमध्ये त्वहं तत्सभूतैः परिवृतस्सह ॥   ६-९ ॥ ***प्. २९)
ललाटे संस्थितोवत्स तत्त्वं भ्राता विशेषतः ।  
कम्बलाश्वतरौ नागौ नासापुटसमाश्रितौ ॥   ६-१० ॥ ***
कर्णयोरश्विनीदेवौ चक्षुषीशशिभास्करौ ।  
दन्तेषु मरुतो देवा जिह्वायां वरुणो स्थितः ॥   ६-११ ॥ ***
सरस्वती तु हुङ्कारे यमयक्षौ च गण्डयोः ।  
सन्ध्याद्वयं ततोष्ठाभ्यां ग्रीवे चन्द्रे समाश्रितः ॥   ६-१२ ***॥
पुरमध्येषु गन्धर्वा पुराग्रेषु च पञ्चगाः ।  
पुराणां पश्चिमाग्रेषु गणाह्यस्सरस्तथा ॥   ६-१३ ॥ ***
रुद्राश्चैव तु नाडिस्था वायवस्सर्वसन्धिषु ।  
श्रोणीतटस्थाः पीतरो ह्युरसिस्थ उमारमे ॥   ६-१४ ॥ ***
श्रीरपाने गवान्नित्यं धर्मोलांगूलमाश्रितः ।  
आदित्यरश्मयो वालागोमूत्रे जान्हवीस्वयम् ॥   ६-१५ ॥ ***
ऋषयश्च तथा सर्वे रोमाग्रेषु च संस्थिताः ।  
उदरे पृथिवी जाताजन्तवश्च गजानन ॥   ६-१६ ॥ ***
चत्वारः सागराः पुर्णागवां ये च पयोधराः ।  
आसितं विश्वविघ्नेश यथा गोषु प्रतिष्ठितम् ॥   ६-१७ ॥ ***
दत्तश्चैव हुतं भुक्तं गोषु सर्वञ्चराचरम् ।  
कपिलायान्तु गोमूत्रं कृष्णायां ग्राह्य गोमयम् ॥   ६-१८ ॥ ***
क्षीरं श्वेत निभायान्तु धूम्रायाश्च दधिस्मृतम् ।  ***
सर्पिः संग्राह्य रक्तायां सर्ववर्णेषु रोचना ॥   ६-१९ ॥
गोमूत्राद् गुल्गुलुं जातः सुगन्धिः प्रियदर्शनः ।  
आहारस्सर्वदेवानां शिवस्य च विशेषतः ॥   ६-२० ॥
गोमयादुत्थित श्रीमान् बिल्ववृक्षः शिवप्रियः ।  
तत्रास्ते पद्महस्ता श्रीःश्रीवृक्षस्तेन चोच्यते ॥   ६-२१ ॥
बीजान्युत्पल पद्मानां पुनर्जातानि गोमयात् ।  
यत् बीजञ्जगतः किञ्चित् ज्ञेयं तत् क्षीरसंभवम् ॥   ६-२२ ॥
दध्नस्सर्वाणि जातानि माङ्गल्यान्वर्थ सिद्धये ।  
घृताद् अमृतमुद्भूतममराणामति प्रियम् ॥   ६-२३ ॥
तस्मात् तासां षडङ्गैश्च स्नापयेच्छिवमादरात् ।  
गोरोचना च माङ्गल्या पवित्रा सर्वकामदा ॥   ६-२४ ॥ प्. ३०)
इत्थं गावस्समालोच्य भस्मापिगोमयं गृहेत् ।  
भूमा वा प्ततितं ग्रह्यं सद्यमन्त्रेणगोमयम् ॥   ६-२५ ॥
पिण्डानि वाममन्त्रेण ह्यघोरेण तु शोषयेत् ।  
पुरुषेण तु तद्दग्ध्वा ईशानेनाभिमन्त्रयेत् ॥   ६-२६ ॥
केतकी पुष्पसंयुक्तं नवभाण्डेषु निक्षीपेत् ।  
अथवा चाग्निहोत्रेषु भस्मग्राह्यं विचक्षणैः ॥   ६-२७ ॥
जलस्नानं पुराकृत्वा भस्मस्नानमतः परम् ।  
जलस्नानं विनाचोर्द्ध्वे भस्मस्नानं विधीयते ॥   ६-२८ ॥
शिवब्रह्माङ्गजप्तेन भस्मस्नानं समाचरेत् ।  
ईशानेन कमुद्धूल्य वक्त्रं तत् पुरुषेण तु ॥   ६-२९ ॥
बहुरूपेण हृदयं नाभिं वामेन कीर्तितम् ।  
सर्वाङ्गं सद्यमन्त्रेण समुद्धूल्य विचक्षणः ॥   ६-३० ॥
उषितं वा ससन्त्यद्य शुद्धवस्त्रं परिग्रहेत् ।  
पादौ पाणी च संशोद्ध्य पश्चादाचमनं कुरु ॥   ६-३१ ॥
भस्मनोद्धूलनाभावे त्रिपुण्ड्रन्तु विधीयते ।  
आध्वरं कर्म तत् सर्वं न त्रिपुण्ड्रं न चाचरेत् ॥   ६-३२ ॥
तर्जन्य नामिका मध्यै स्त्रिपुण्ड्रन्तु समाचरेत् ।  
ब्रह्माविष्णुश्च रुद्रश्च त्रिपुण्ड्रस्याधि दैवतम् ॥   ६-३३ ॥
शिरस्थाने स्वयं ब्रह्म ललाटे स्कन्ध (-न्थ) एव च ।  
कण्ठे विनायकश्चैव बाहौ च केशवस्तथा ॥   ६-३४ ॥
हृदयेत् वीश्वरः प्रोक्तो नाभौ चैव प्रजापतिः ।  
जान्वोस्तु चाश्विनी चैव पादयोः पञ्चगास्तथा ॥   ६-३५ ॥
सर्वतीर्थेषु यत् स्नानं सर्वयज्ञेषु यत् फलम् ।  
तत्फलं कोटिगुणितं भस्मस्नानेन सिद्ध्यति ॥   ६-३६ ॥ ***
भस्मस्नानमिदं प्रोक्तं अर्चनाङ्गमतः श्रुणु ।  

इति भस्मस्नान पटलः षष्ठः ॥   ६ ॥

अर्चनाङ्ग पटलः


अथ अर्चनाङ्ग पटलः
अथातः संप्रवक्ष्यामि अर्चनाङ्गसमुच्चयम् ।  
पाद्यमाचमनञ्चार्घ्यं गन्धपुष्पञ्चधूपकम् ॥   ७-१ ॥
दीपञ्चैव निवेद्यञ्च लिङ्गनृत्तं दशैव तु ।  
दशाङ्गैस्तु समायुक्ता पूजाश्रेष्ठा शिवस्य तु ॥   ७-२ ॥
दीपान्तमर्चनं प्रोक्तं नैवेद्यान्तन्तु पूजनम् ।  
शान्तिकं बलिनृत्तान्तं पूजात्रिविधमुच्यते ॥   ७-३ ॥ ***
उशिरञ्चन्दनं दूर्वा सिद्धार्थकसमन्वितम् ।  
चतुरङ्गसमायुक्तं पाद्य द्रव्यमुदाहृदम् ॥   ७-४ ॥
एलालवङ्गकर्पूरत्र पूजाति फलैर्युतम् ।  
आचमनन्तु पञ्चाङ्गं द्रव्यैरेतैः प्रसिद्ध्यति ॥   ७-५ ॥
आपः क्षीरकुशाग्राणि यवसिद्धार्थतण्डुलैः ।  
तिलैर्वीही समायुक्तमर्घ्यमष्टाङ्गमुच्यते ॥   ७-६ ॥
यवतण्डुलसिद्धार्थर्व्रीहिभिश्चाक्षतं विदुः ।  
व्रीहितण्डुलसंयुक्तमक्षतन्तु प्रकीर्तितम् ॥   ७-७ ॥
अगरुञ्चन्दनञ्चैव कोष्ठं कुंकुममेव च ।  
सममर्धं पादमेवा कर्पूरेणसमायुतम् ॥   ७-८ ॥
गन्धद्रव्यमिदं प्रोक्तं पुष्पान् सम्यगतः श्रुणु ।  
श्वेत कृष्णं तथा रक्तं सात्विकादिगुणत्रयम् ॥   ७-९ ॥ ***
पुष्पाणि पीतवर्णानि सत्वराजसमिश्रितान् ।  
कृष्णां निलोत्पलादन्यान्तामसान् परिवर्जयेत् ॥   ७-१० ॥ ***
नन्द्यावर्तन्तु पूर्वाह्णे मधाह्णे करवीरकम् ।  
साये तु मल्लिका प्रोक्ता ह्यर्धरात्रौ द्विकर्णिका ॥   ७-११ ॥
द्रोणञ्च श्वेतपद्मञ्च जाती च बहुकर्णिका ।  
नन्द्यावर्तं श्रियावर्तं मन्दारं शतपत्रिकम् ॥   ७-१२ ॥
श्वेतार्कमालती चैव पुन्नागं कुरवन्तथा ।  
एवमादीनि पुष्पाणि सात्विकानि समादिशेत् ॥   ७-१३ ॥
रक्तोत्पलं तथा पद्मं ब्रहतीधुर्धूरकं तथा ।  
पाटलीरक्तपुष्पाणि राजसानि विनिर्दिशेत् ॥   ७-१४ ॥ प्. ३२)
कर्णिकारञ्च धुर्तूरसरलारग्वधौ तथा ।  
एवमादीनि पीतानिमिश्रकाणि विनिर्देशेत् ॥   ७-१५ ॥
करञ्जवकुलञ्चैव शिरीषं केतकी तथा ।  
लाङ्गली च विहीतञ्च बन्धूकञ्चैव डाडिमी ॥   ७-१६ ॥
किंशुकञ्च मदन्ती च कुमुदानि च वर्जयेत् ।  
अतिपक्वमपक्वञ्च मुकुलैर्नार्चयेद् धरम् ॥   ७-१७ ॥
केशकीटापविद्धानि लूतसूत्राव्रतानि च ।  
स्वयं पतितपुष्पाणि पर्युषितानि वर्जयेत् ॥   ७-१८ ॥
शमिबिल्वमपामार्गं कुशदूर्वा सहा तथा ।  
नागनन्दी रुद्रपर्णीधातकी पत्रमेव च ॥   ७-१९ ॥
भद्री चैव महाभद्री द्रोणपत्रं तथैव च ।  
उग्रगन्धैस्तु निर्गन्धैन्नार्चयेत् तु विशेषतः ॥   ७-२० ॥
पत्र जातिषु सर्वेषु बिल्वपत्रं प्रशस्यते ।  
तथैव पुष्पजातीनां पद्मपुष्पमुदाहृतम् ॥   ७-२१ ॥
उत्सवादिषु यात्रायां परिवेष क्रियासु च ।  
सकलानामलङ्कारे वर्ज्या ग्राह्याप्रकीर्तिताः ॥   ७-२२ ॥
एवं पुष्पाणि चोक्तानि धूपन्तु संप्रवक्ष्यते ।  
कृष्णागरुर्भवेदेव कार्यस्सद्विगुणं भवेत् ॥   ७-२३ ॥
त्रिगुणञ्चन्दनं प्रोक्तमीषत् कर्पूरमिश्रितम् ।  
शीतारिनामधूपोयं मधुनां पावितं भवेत् ॥   ७-२४ ॥
एवं धूपं परं श्रेष्ठं उत्तमन्तद्विशिष्यते ।  
गुल्गुलुं वा घृतं वापि गुलं वा बिल्वधूपकम् ॥   ७-२५ ॥
कुष्ठं वा चन्दनं वापि घृतमश्रं सुधूपयेत् ।  
गोघृतं वाथतैलं वा कर्पूरं वर्तिसंयुतम् ॥   ७-२६ ॥
चतुस्त्रयंगुलायाम दीपज्वालाविशिष्यते ।  
दीप प्रियो हि भगवान् देवदेवस्सदाशिवः ॥   ७-२७ ॥
अर्चनाङ्गविधि प्रोक्ता त्वर्चनायाविधिं श्रुणु ।  

इति अर्चनाङ्गस्सप्तमः पटलः ॥   ७ ॥

शिवार्चनविधि पटलः


अथ शिवार्चनविधि पटलः
अथातः संप्रवक्ष्यामि शिवार्चनविधिक्रमम् ।  
सर्वपापहरं दिव्यं सर्वलोकसुखावहम् ॥   ८-१ ॥
श्रीप्रदं सर्वविघ्नघ्नं राज्ञो राष्ट्रविवर्धनम् ।  
तदपि द्विविधं प्रोक्तमात्मार्थञ्च परार्थकम् ॥   ८-२ ॥
क्षणिके चललिङ्गे च स्थण्डिले मण्डलेऽपि च ।  
कौतुके भक्तिचित्रे वा आत्मार्थेऽर्चनमारभेत् ॥   ८-३ ॥
ग्रामे दृष्ट्वाधवान्येषु शिवधामनिनिर्मिते ।  
तेषु स्थावरलिङ्गेषु परार्थं यजनं स्मृतम् ॥   ८-४ ॥
सिकतं तण्डुलञ्चान्नं नदीमृद्गोमयं तथा ।  
नवनीतञ्च रुद्राक्षं पिष्टं चन्दनकूर्चकम् ॥   ८-५ ॥
पुष्पमालांगुलञ्चेष्टं क्षणिका द्वादश स्मृताः ।  
पूजान्ते क्षणिका त्याज्याः तत्त्वं हृदि समानयेत् ॥   ८-६ ॥
स्फटिकं रत्नजं शैलं बाणलिङ्गञ्च लोहजम् ।  
चललिङ्गं समाख्यातं स्थण्डिलं शालितण्डुलैः ॥   ८-७ ॥
सिकतैर्वा समाख्यातं मण्डलं करमानतः ।  
गोमयालेपिते तत्र संलिख्ख्याब्जदलाष्टयुक् ॥   ८-८ ॥
मण्डलं त्विति विख्यातं द्वादशप्रतिमार्चनम् ।  
कौतुकं त्विति ख्यातं भित्तिचित्रं तथैव च ॥   ८-९ ॥
आत्मार्थ यजनेख्याता यथा युक्त्यासमर्चयेत् ।  
दीपान्तं वाहविष्यन्तमात्मर्थे तु परार्थके ॥   ८-१० ॥
सामान्यमिदमाख्यातं परार्थस्तु विशेषतः ।  
नित्योत्सवन्तु नित्याग्नियजनं पादुकार्चनम् ॥   ८-११ ॥
नीराजनं रजन्याञ्च गीतं नृत्तञ्च वाद्यकम् ।  
तेषु कुर्याद् यथा शक्यं लिङ्गेस्थावर संज्ञके ॥   ८-१२ ॥
उक्तेषु तेषु सर्वेषु विना नित्योत्सवं ततः ।  
पादुकाभ्यर्चनं त्यक्त्वा शेषाण्यात्मार्थमाचरेत् ॥   ८-१३ ॥
दीक्षितानां द्विजातीनामात्मार्थमनुलोमिनाम् ।  
परार्थमादिशैवानामात्मार्थं वा समर्चयेत् ॥   ८-१४ ॥
(प्. ३४, ३५) मिस्सिङ् प्. ३६)
वह्निमण्डलमध्यस्थ ज्वालाभिर्वह्निबीजतः ।  
पादाङ्गुष्ठाच्छिखायावन् निर्दहेच्छुष्ककाष्ठवत् ॥   ८-१५ ॥
विचिन्त्य भस्मीभूतं तु पिण्डीकृत्वा निलेन तु ।  
तस्मिन् प्रागुक्तममृतं स्रवन्तं भस्मनि स्मरेत् ॥   ८-१६ ॥
आत्मानमानयेत् तत्र सर्वात्महृदयेन तु ।  
दिव्यदेहो भवे देवमङ्गन्यासं अथ श्रुणु ॥   ८-१७ ॥
मूर्धादिसृष्टिरेवं स्यात् पादादिः संहृतिर्भवेत् ।  
नासादि हृदयान्तन्तु स्थिति न्यासं प्रकीर्तितम् ॥   ८-१८ ॥
पञ्चमेन शिरः पञ्चपञ्चभिः कल्पयेत् ततः ।  
चत्वारिवदनां यत्र वक्त्रमन्त्रेण भावयेत् ॥   ८-१९ ॥
पञ्चमं वदनं तत्र सर्वात्म हृदयेन तु ।  अन्यथा (-धा)
कल्पयेत् घोरं हृत्ग्रीवांसेष्वधोरसि ॥   ८-२० ॥
तन्नाभ्युदरपृष्ठेषु न्यसेद् वा मन्त्रयेद् दश ।  
गुह्यं पायुस्तथा चोरु जानुनी जंघकाद्वयम् ॥   ८-२१ ॥
स्फिचौ द्वौ तु कटिः पार्श्वौ न्यसेत् सद्यं ततोऽष्टधा ।  
पाणिपादौ तथा नासाशिरोबाह्ये न्यसेत् बुधः ॥   ८-२२ ॥
दक्षिणे कटिपार्श्वे तु क्षुरिकास्त्रं प्रकल्पयेत् ।  
मूर्धानने च हृदये गुह्यो वै पादयोः क्रमात् ॥   ८-२३ ॥
ब्रह्माणि सृष्टिमार्गेण ईशानादीनि विन्यसेत् ।  
पादादारभ्य सद्यादि संहरं न्यासकर्मणि ॥   ८-२४ ॥
नाभ्यादि हृदयान्तन्तु स्थितिन्न्यासं प्रकीर्तितम् ।  
सर्वात्मानन्तु हृदये सशिवं शिरसि न्यसेत् ॥   ८-२५ ॥
शिखायां ज्वालिनीं न्यस्त्वा वर्मणादेहमध्यतः ।  
अस्त्रं हस्तप्रदेशेषु पञ्चाङ्गान्योमाचरेत् ॥   ८-२६ ॥
विद्याङ्गं पूर्ववन्न्यस्त्वा नेत्रं नेत्रेषु योजयेत् ।  
द्वात्रिंशत् सन्धिदेशेषु बीजमुख्यन्तु विन्न्यसेत् ॥   ८-२७ ॥
हृत्पद्मे तु न्यसे देवमष्ट त्रिंशत् कलान्वितम् ।  
अङ्गुष्ठमात्रमचलं ध्यायेत् प्रणवमीश्वरम् ॥   ८-२८ ॥
मानसैः कुसुमैर्गन्धैर्धूपदीपोपचारकैः (ऋगन्थैर्-)।  
पूजयेद् धृदये नैव आत्मशुद्धिस्तु कीर्तिताः ॥   ८-२९ ॥ प्. ३७)
द्वारदेवान् समभ्यर्च्य गन्धपुष्पादिभिः क्रमात् ।  
वाग्देवीं द्वारशाखोर्ध्वे सव्ये वामे श्रियं यजेत् ॥   ८-३० ॥
विघ्नेशं मध्यमे पूज्यनन्दिवर्गांश्च दक्षिणे ।  
यमुनाञ्च महाकालं वामे भ्यर्च्यस्वनामभिः ॥   ८-३१ ॥
स्थानं संमृज्यसंप्रोक्ष्य दिग्बन्धञ्चास्त्रमन्त्रतः ।  
भौमदिव्यन्तरिक्षस्थान् विघ्नान् प्रोत्सारयेद्धृदा ॥   ८-३२ ॥
भूमीष्ठान् प्राणदृष्ट्या तु तत्वदृष्ट्यान्तरिक्षगान् ।  
ज्ञानदृष्ट्या तु दिक् स्थांस्तां स्तन्नामाख्यायमुद्रया ॥   ८-३३ ॥
ब्रह्मस्थाने तु ब्रह्माणं पुष्पगन्धादिभिर्हृदा ।  
स्थानशुद्धिर्भवे देवं द्रव्यशुचिन्ततः श्रुणु ॥   ८-३४ ॥
गोमयेनोपलिप्याथ द्रव्यपात्राणि विन्यसेत् ।  
अर्घ्यपात्रं शरावञ्च पाद्याचमनपात्रकौ ॥   ८-३५ ॥
वर्धनीजलभाण्डञ्च अस्त्रमन्त्रेण क्षालयेत् ।  
हृदयेन निरीक्ष्याथ कवचेनावकुण्ठयेत् ॥   ८-३६ ॥
अर्घ्यपात्रं समादाय सन्दाह्यभ्यन्तरं हृदा ।  
संस्पृश्य तस्मिं श्वेताब्जं ध्यात्वा वै मण्डलत्रयम् ॥   ८-३७ ॥
तेषु तत्वत्रयं स्मृत्वा आत्मविद्या शिवात्मकम् ।  
शिवांबुना शिवे नैव अपूर्वब्रह्मपञ्चकैः ॥   ८-३८ ॥
कलावर्णात्मकैः पिण्डैरभिमन्त्र्य यथा क्रमम् ।  
सुगन्धिकुसुमान् गन्धान् प्रक्षिप्याबुनिमन्त्रवित् ॥   ८-३९ ॥
तत्तोयं सर्वपात्रेषु द्रव्यपात्रेषु सर्वतः ।  
विन्दौ बिन्दुं विनिक्षिप्य कुशेनैव हृदाणुना ॥   ८-४० ॥
द्रव्यशुद्धिर्भवेदेषां मन्त्रशुद्धिरतः परम् ।  
ओंकारादि युतामन्त्रा नमस्कारान्तयोजिताः ॥   ८-४१ ॥
पूर्वं शिवं समुच्चार्य ततो ब्रह्माङ्गकाद्युभौ ।  
विद्याङ्गं बीजमुख्यञ्च क्षुरिकाञ्च समुच्चरन् ॥   ८-४२ ॥
तत् तद्रूपान्वितान्ध्यात्वा पूर्ववन्मन्त्रशुद्धये ।  
क्रियाकाले प्रयोक्तव्या स्वाहान्तं हवने स्मृताः ॥   ८-४३ ॥
मालाद्यैश्वर्यजातानि मन्त्राणि ह्यानितानि च ।  
मन्त्रशुद्धिरियं प्रोक्ता लिङ्गशुद्धिरतः परम् ॥   ८-४४ ॥ प्. ३८)
हुंफट्कारेण मन्त्रेण महाघण्टां प्रदापयेत् ।  
प्रच्छादनपटन्त्यक्त्वा लिङ्गशुद्धिं समारभेत् ॥   ८-४५ ॥
निर्माल्योद्वासनारंभे स्नानारंभे तदन्तके ।  
धूपकाले हविष्यादौ हविष्यन्ते तथैव च ॥   ८-४६ ॥
नित्योत्सवान्ते नृत्तान्ते महाघण्टां प्रदापयेत् ।  
निर्माल्योद्वासने काले स्नानान्ते तु विशेषतः ॥   ८-४७ ॥
हविष्यादौ च नृत्तान्ते कुर्याद्यवनिवान्ततः ।  
स्नानारंभे तथा धूपे हविष्यान्ते तथैव च ॥   ८-४८ ॥
नित्योत्सवादिकाले च पटं प्रच्छादनन्त्यजेत् ।  
शिवे समर्चितं पूर्वं हृदयार्घ्यं विसर्जयेत् ॥   ८-४९ ॥
अङ्गुष्ठतर्जनीभ्यान्तु पुष्पं ग्राह्यविचक्षणः ।  
कनिष्ठानामिकामध्ये त्यजेत् पर्यूषितङ्गुरुः ॥   ८-५० ॥
विसर्जने च काले तु पुष्पं मूर्ध्निदापयेत् ।  
न पुष्परहितं तुर्याच्छिवमौलिं गुरूत्तम ॥   ८-५१ ॥
पिण्डिकेशस्थ निर्माल्यञ्चण्डेशाय निवेदयेत् ।  
लिङ्गशुद्धिः सपिण्डान्ता क्रमेणैव समापयेत् ॥   ८-५२ ॥
लिङ्गं प्रक्षाल्य चास्त्रेण पीठं पाशुपतेन तु ।  
त्यजेदुषितगन्धादि जलैर्दक्षिणहस्ततः ॥   ८-५३ ॥
सङ्ख्याय शुद्धयः पञ्च ततस्त्वासनकल्पनम् ।  
आसने मूर्तिमावाह्य त्वेतद्वितयमध्वनि ॥   ८-५४ ॥
व्याप्यव्यापकभावेन ज्ञात्वायजनमारभेत् ।  
इच्छाशक्त्युत्थितं पद्मं पृथिव्यादिशिवान्तकम् ॥   ८-५५ ॥
पार्थिवाण्डमयं स्कन्दमाप्यान्तं नालमेव च ।  
प्रधान तत्व पर्यन्तं तन्नालं कण्टकैर्युतम् ॥   ८-५६ ॥
अकारादिक्षकारान्तं शंबरं कण्टकं स्मृतम् ।  
श्यामाभन्नालमित्युक्तं नालसूत्रं त्विदं स्मृतम् ॥   ८-५७ ॥
पुंस्तत्वादि कलान्तञ्च पीठन्दलाष्टकान्वितम् ।  
धर्मं ज्ञानञ्च वैराग्यमैश्वर्यं पादमेव हि ॥   ८-५८ ॥ प्. ३९)
आग्नेयादिक्रमेणैव सिंहरूपोग्रदंष्ट्रकाः ।  
सितरक्तपीतकृष्णा स्त्रिणेत्रा वज्रपीठकाः ॥   ८-५९ ॥
अन्योन्याभिमुखाः सर्वे सिंहकोटिसमायुताः ।  
न्यस्तव्या भार्द्रमन्त्रेण भीमाभीम पराक्रमाः ॥   ८-६० ॥
अधर्मज्ञानवैराग्या नैश्वर्यान्वै क्रमेण तु ।  
प्रागाद्युत्तरपर्यन्तान्नियतांश्च सितप्रभान् ॥   ८-६१ ॥
न्यस्त्वागुणत्रये नैव ऊर्ध्वच्छदमथच्छदम् ।  
पीठस्योर्ध्वे महामाया ग्रन्थिस्तत्वङ्गजानन ॥   ८-६२ ॥
विद्यातत्वमयिन्तस्य कर्णिकां परिचिन्तयेत् ।  
इच्छाशक्त्यादिबीजानि विद्येशांश्च दलानि वै ॥   ८-६३ ॥
मन्त्रास्तत् केसरेप्रोक्तास्ते विद्यायां प्रतिष्ठिताः ।  
केसरे बीजमुख्येन शक्तिन्तत्र प्रकल्पयेत् ॥   ८-६४ ॥
सितरक्तासितांश्चैव मूलमध्याग्रकान् क्रमात् ।  
दलंश्वेतं विजानीयात् कर्णिकाकनकप्रभा ॥   ८-६५ ॥
पञ्चविंशतिकानीह बीजानिहरितानि वै ।  
तप्तचामीकरप्रख्यं शक्तिव्यूहं न्यसेत् ततः ॥   ८-६६ ॥
केसरेषु च मध्ये तु वामादीन् पूर्वतः क्रमात् ।  
वामाज्येष्ठा च रौद्री च कालीकलविकरणी तथा ॥   ८-६७ ॥
बलविकरणी बलप्रमधनी सर्वभूतदमनात्मिका ।  
मध्येमनोन्मनीं देवीं कर्णिकायां निवेशयेत् ॥   ८-६८ ॥
सूर्याख्यमण्डलं पात्रे केसरे सोममण्डलम् ।  
कर्णिकोपरिचाग्नेयं मण्डलस्थां मनोन्मनीम् ॥   ८-६९ ॥
इच्छाशक्त्यादिनालान्त (इश्चा-) मनन्तासनमीरितम् ।  
गुणान्तं धर्मज्ञानादि सिंहाख्यमासनं विदुः ॥   ८-७० ॥
योगासनन्तु तत् ख्यातं परमेशस्य सुव्रत ।  
पद्मग्रन्धिं समारभ्य केसरान्ताब्जमासनम् ॥   ८-७१ ॥
शक्त्यन्तं केसरादूर्ध्वं कर्णिका विमलासनम् ।  
एव मब्जासनं कल्प्यपूजयेत् स्वस्वनामभिः ॥   ८-७२ ॥
मुकुलीं प्रथमं बध्वा पद्ममुद्रामतः परम् ।  
शशकर्णिं शिवं विप्रः कर्णिकान्तं निदर्शयेत् ॥   ८-७३ ॥ प्. ४०)
आसनोपरिमूर्तिन्तु सदाशिवमनुत्तमम् ।  
पञ्चवक्त्रशिरोपेतं पञ्चाधिकदशेक्षणम् ॥   ८-७४ ॥
दशदोर्दण्डसंयुक्तं अष्टायुधसमज्वलम् ।  
अभयं शूलपरशुं वज्रं खट्गञ्च दक्षिणे ॥   ८-७५ ॥
वरदञ्चाङ्कुशं पाशं घण्टां वह्निञ्च वामतः ।  
अच्छ स्फटिकसंकाशमष्टत्रिंशत् कलात्मकः ॥   ८-७६ ॥
पञ्चब्रह्माङ्ग विद्याङ्ग दशबीजात्मकं परम् ।  
दिव्यांबरधरञ्चार्थ वज्राङ्कितजटाधरम् ॥   ८-७७ ॥
बद्धपद्मासनासीनं कंबुग्रीवं सुयौवनम् ।  
इच्छाज्ञानक्रियाचेति नेत्रत्रयसमन्वितम् ॥   ८-७८ ॥
शुक्लयज्ञोपवीतञ्च देवं ज्ञात्वा परापरम् ।  
सर्वाभरणसंयुक्तं ध्यात्वा ह्यावाहयेत् ततः ॥   ८-७९ ॥
लिङ्गंमूलपरीणाहे कल्पयेत् तु मनोन्मनीम् ।  
तदे?स्या परिस्थिते लिङ्गे चलेचैव सदाशिवम् ॥   ८-८० ॥
एवं सङ्कल्प्यमूर्तिन्तु ततोवाह्यमनुं स्मरन् ।  
पुष्पैरञ्जलिमापूर्य तदा वाहनमुद्रया ॥   ८-८१ ॥
प्रविष्टे हृदयाग्रे तु शिवरूपं विचिन्तयेत् ।  
प्रणवं मनसोच्चार्य सर्वज्ञादिर्गुणैर्युतम् ॥   ८-८२ ॥
सर्वोपाधिविनिर्मुक्तं कारणानान्तु कारणम् ।  
अतर्क्यमप्रमेयञ्च धृतमव्ययमीश्वरम् ॥   ८-८३ ॥
बिन्दावभ्युदितं ध्यायेत् स्थिरधीः पुरतः स्थिरे ।  
सदाशिवात्ममध्यस्थं विन्यसेद् देशिकोत्तमः ॥   ८-८४ ॥
आवाहनादिभिर्भक्त्या परमेशं सुपूजयेत् ।  
आवाह्य सद्यमन्त्रेण स्थापयेत् गुह्यमन्त्रतः ॥   ८-८५ ॥
बहुरूपेण सान्निध्यं पुरुषेणनिरोधनम् ।  
सर्वावयवसंपूर्णमिशानेन तु भावयेत् ॥   ८-८६ ॥
आवाहनाख्यया वाह्य स्थापयेच्छान्तमुद्रया ।  
ध्वजाख्यया तु सान्निध्यं रोधनं निष्ठुराख्यया ॥   ८-८७ ॥
पाद्यं हृदाणुनादत्वा वक्त्रेणाचमनं ततः ।  
अर्घ्यन्तु शिरसादत्वा पञ्चमूर्धसु बुद्धिमान् ॥   ८-८८ ॥ प्. ४१)
करन्यासं विना तत्र दहनप्लावनं विना ।  
सर्वमात्मविशुध्यर्थमाचरेत् तु गजानन ॥   ८-८९ ॥
आवाहने तु पूजान्ते विसर्जनविधौ तथा ।  
अर्घ्यं दद्यात् तु मन्त्रज्ञस्त्रिषु कालेषु बुद्धिमान् ॥   ८-९० ॥
अर्घ्ये विलेपने स्नानेत्रिषुगन्धं प्रेयोजयेत् ।  
आवाहनार्घ्य पाद्येषु स्नाने धूपे विलेपने ॥   ८-९१ ॥
नैवेद्ये च विसर्गे च पुष्पमष्टसुयोजयेत् ।  
आवाहनंविना सप्तकाले वारिसुयोजयेत् ॥   ८-९२ ॥
गन्धं पुष्पेण संयोज्य पुष्पं गन्धेनयोजयेत् ।  
धूपं दीपेनसंयोज्य दीपन्दीपेन योजयेत् ॥   ८-९३ ॥
तिलोद्भवेनतैलेन हस्तयन्त्रोद्भवेन वा ।  
गोघृते नैव वा लिङ्गमभ्यज्य हृदयाणुना ॥   ८-९४ ॥
मर्दयेच्छालिपिष्टेन हरिद्रा चूर्णकेन वा ।  
शिवेन पिण्डमन्त्रैश्च कलाभिर्मानमन्त्रकैः ॥   ८-९५ ॥
सहस्राक्षरमन्त्रेण व्योमव्यापिदशाक्षरैः ।  
पञ्चाङ्गैश्चैव विद्याङ्गैः क्षूरिकाबीजमुख्यकैः ॥   ८-९६ ॥
सुगन्धिकुसुमोपेतं जलौघैरभिषेचयेत् ।  
सद्योजातेन गोमूत्रं गोमयङ्गुह्यकेन तु ॥   ८-९७ ॥
क्षीरन्तु बहुरूपेण दधितत् पुरुषेण तु ।  
ईशानेन घृतं स्नाप्य पञ्चगव्यमथैकतः ॥   ८-९८ ॥
समादायोक्तसंख्याभिः स्नापयेत् तु दशाक्षरैः ।  
मधुने क्षुरसे नैव नालीकेरजलेन च ॥   ८-९९ ॥
अच्छगोरोचनामिश्र जलैः संस्नापयेद्धृदा ।  
द्रव्येषूक्तेष्वथा लाभे यथालाभं परिग्रहेत् ॥   ८-१०० ॥
घृष्ट्वा हरिद्राचूर्णैश्च स्नापयेद् गन्धवारिणा ।  
वस्त्रमाचमनीयञ्च अर्घ्यन्तु हृदयाणुना ॥   ८-१०१ ॥
दुकूलपट्टकार्पास वासोभिर्विविधैरपि ।  
इन्ध्याभिः पुष्पमालाभिः पत्रच्छेदैरथार्च्चयेत् ॥   ८-१०२ ॥
संपत्तौ हेमपट्टाद्यैर्विविधैरङ्गभूषणैः ।  
संभूष्य हेमपुष्पैस्तु कुसुमेश्च सितासितैः ॥   ८-१०३ ॥ प्. ४२)
विज्ञाप्यलयभोगाङ्गं देवदेवं क्षमापयेत् ।  
जपं स्तुत्यं नमस्कारं ध्यानं श्रद्धावदित्यपि ॥   ८-१०४ ॥
नृत्तं गीतञ्च वाद्यञ्च महाघण्डा स्वनादिकम् ।  
लयाङ्गमुक्तं पूजायां देवदेवस्य नित्यशः ॥   ८-१०५ ॥
भोगाङ्गानि च शेषाणि लयैर्भागैश्च पूजयेत् ।  
पञ्चवरणमार्गेण क्रमादावरणं न्यसेत् ॥   ८-१०६ ॥
सद्यं पश्चिमदिक्पात्रे वाम देवन्तथोत्तरे ।  
अघोरं दक्षिणे यष्ट्वा पुरुषं पूर्वपात्रतः ॥   ८-१०७ ॥
ईशानमीशदिक्भागे न्यस्त्वा सम्यक् समर्चयेत् ।  
स्नानदीपं पृथक् तेषामङ्गानामंगभावतः ॥   ८-१०८ ॥
कर्णिकायां ततो याम्ये संयजेदात्म तत्वकम् ।  
विद्या तत्वन्तत स्सौम्ये शिवतत्वन्तु मद्ध्यमे ॥   ८-१०९ ॥
आत्मानमन्तरात्मानं परमात्मानमेव च ।  
यजेत् तत्व त्रयं स्थाने हृदापुष्पैः सितासितैः ॥   ८-११० ॥
गर्भावरणमाख्यातं विद्येशावरणं ततः ।  
गर्भावरणबाह्येषु पद्मपत्रेषु संयजेत् ॥   ८-१११ ॥
अनन्तं पूर्वतः पूज्य त्रिमूर्तिं वह्निगोचरे ।  
सूक्ष्मन्तु दक्षिणेभागे श्रीकण्ठं नि-ऋतौ तथा ॥   ८-११२ ॥
शिवोत्तमन्तु वारुण्यां शिखण्डिं वायुगोचरे ।  
एक नेत्रं तथा सौम्ये ह्येकरुद्रं तथैशके ॥   ८-११३ ॥
द्वितियावरणं ह्येवं प्रणवेन स्वनामभिः ।  
उमा वै चोत्तरेयष्ट्वा पूर्वभागे वृषन्ततः ॥   ८-११४ ॥
दक्षिणे गजराजानं गुहं वै वारुणे तथा ।  
महाकालन्तु नि-ऋतौ भृंगीशं वायुदेशतः ॥   ८-११५ ॥
चण्डेशमीशदिक्भागे नन्दीशञ्चाग्निगोचरे ।  
उमादिक्षुमुखान्तानि तृतीयावरणेदले ॥   ८-११६ ॥
इन्द्रादिलोकपालांश्च ऐन्द्र्यादिषु प्रपूजयेत् ।  
ब्रह्माणं दक्षिणेभागे विष्णुमुत्तरतो यजेत् ॥   ८-११७ ॥
लोकेश गणयोर्मध्ये ब्रह्मविष्णूयमोत्तरे ।  
चतुर्थावरणं ह्येवमथास्त्रावरणं श्रुणु ॥   ८-११८ ॥ प्. ४३)
आशास्वष्ट सुवज्रादींश्चक्रं सौम्येब्जमन्त्रके ।  
लोकपालान् सहस्त्रांश्च स्वस्वमन्त्रेण पूजयेत् ॥   ८-११९ ॥
गर्भावरणमन्त्राणां बीजमुद्रान्तु दर्शयेत् ।  
विद्येशानाङ्गणेशानां कालकण्ठन्तु दर्शयेत् ॥   ८-१२० ॥
लोकेशानामथास्त्राणां शूलमुद्राः प्रकीर्तिताः ।  
देवतार्चनकाले तु यथा त्वाच्छादयेत् बुधः ॥   ८-१२१ ॥
पापरोगनिमग्नानां मृष्टानाञ्च स्वकर्मभिः ।  
क्रूराणां कुब्जकादीनं कृशिकानां तथैव च ॥   ८-१२२ ॥
तथा कृत्रिमभक्तानां निन्दकानाञ्च पापिनाम् ।  
अन्यच्च दोषदृष्टानाम दृष्टानामिति स्मृतम् ॥   ८-१२३ ॥
महाघण्टानिनादेन राक्षसाश्चासुरास्तथा ।  
ब्रह्मराक्षसपैशा च भूतयक्षोरगेश्वराः ॥   ८-१२४ ॥
दूरं गच्छन्ति नादेन यान्ति देवाः सुसन्निधिम् ।  
धूपदीपौ प्रदातव्यौ घण्टारवसमन्वितम् ॥   ८-१२५ ॥
ज्वलदङ्गारसंपूर्णं धूपपात्रं नरेण तु ।  
सव्यहस्तेन सङ्ग्राह्य घण्टां वामेनपाणिना ॥   ८-१२६ ॥
सुरूपान्धीरनिर्घोषां वादयन् सर्वदा गुरुः ।  
ध्वनिनाधूपखण्डाया ग्रामशान्तिकरं भवेत् ॥   ८-१२७ ॥
दद्यादाचमनं तत्र दर्पणच्छक्रचामरान् ।  
मनसा वा स्वरूपेण दर्शयेत् तु विचक्षणः ॥   ८-१२८ ॥
बीजमुद्रां नमस्कारां मुकुलिं पद्ममुद्रिकाम् ।  
ध्वजाख्यां लिङ्गमुद्राञ्च देवदेवस्य दर्शयेत् ॥   ८-१२९ ॥
शिवेच्छा प्रतिमास्सर्वाः पूजयेत् तु यथोचितम् ।  
आसनावरणे कृत्वा द्वारपालार्चनं विना ॥   ८-१३० ॥
नित्यस्नानं विनालोभे स्नानं पर्वणि पर्वणि ।  
चण्डेशपरिवाराणि विना बिंबानिपूजयेत् ॥   ८-१३१ ॥
शिवस्य परिवाराणि समभ्यर्च्य यथा विधि ।  
मुद्रादर्शनवेलायां शिवं स्नाप्यनिवेदयेत् ॥   ८-१३२ ॥
समारभ्यशिरः पूर्वं दक्षिणोत्तर पश्चिमे ।  
ऊर्ध्वभागे तु मन्त्रज्ञः पञ्च स्वर्घ्यं निवेदयेत् ॥   ८-१३३ ॥ प्. ४४)
सद्योघोरेन रेवामेद त्वार्घ्यं पञ्चमान्तकम् ।  
अपसव्यार्घ्यमित्युक्तं पूजाकालेषु नित्यशः ॥   ८-१३४ ॥
सव्यापसव्यमार्गाभ्यां दत्वार्घ्यन्तु पुनः पुनः ।  
ऊर्ध्ववक्त्रे तु दातव्यं संमूखार्घ्यं पराङ्मुखम् ॥   ८-१३५ ॥
संमुखं संस्थि देहस्य विसर्गेर्घ्यं पराङ्मुखम् ।  
नैवेद्यं दापयेत् पश्चात् यथा विभवविस्तरैः ॥   ८-१३६ ॥
भक्ष्यभोज्यां न पानानि सत्फलाज्यगुलान्वितम् ।  
तेन दीपेन दत्वा तु नित्यां हि कमथो यजेत् ॥   ८-१३७ ॥
शिवाग्नौ रक्षिते तस्मिन् परितः शोध्य दीप्य च ।  
परिषिच्य हृदापूज्यलोकेशानां ततो मतम् ॥   ८-१३८ ॥
संपूज्य च ततः पद्मे शिवं ब्रह्माङ्गकैरधः ।  
घृतान्नेन घृतेनाथ जुहुयात् तण्डुलेन वा ॥   ८-१३९ ॥
प्रत्येकन्तु त्रिसंख्या वा ह्येक संख्यमथापि वा ।  
परिषेचनमन्त्रेण पुनः सिच्यविसर्जयेत् ॥   ८-१४० ॥
एवं नित्याग्निकार्यन्तु मध्यमे चाथमेपि च ।  
उत्तमे चाग्निकार्योक्तं सर्वं कुर्याद् विचक्षणः ॥   ८-१४१ ॥
परिवारबलिं दत्वा निर्माल्यान्नं विसर्जयेत् ।  
मुखवासञ्च तांबूलं दत्वा नित्यपवित्रकम् ॥   ८-१४२ ॥
सर्वच्छिद्रापनोदार्थं धूपितं प्रोक्षितं ततः ।  
दशबीजमनुस्मृत्य पवित्रमधिरोपयेत् ॥   ८-१४३ ॥
पूजाकाले तु संप्राप्ते लिङ्गमूर्ध्निपवित्रकम् ।  
अवतीर्यार्चिते लिङ्गे तं पवित्रं पुनर्नयेत् ॥   ८-१४४ ॥
नित्योत्सवन्तु कर्तव्यं विध्युक्तं त्रिषुसन्धिषु ।  
नीराजनन्तु कर्तव्यं रात्रौ रात्रौ विशेषतः ॥   ८-१४५ ॥
प्रक्षाल्यपादौ हस्तौ च प्रणम्याष्टाङ्गमादरात् ।  
प्रदक्षिणत्रयं कृत्वा मन्त्रञ्जप्त्वा क्षमापयेत् ॥   ८-१४६ ॥
कालत्रयङ्गुणातीतः कालात्मा शिवशाश्वतः? ।  
उदयस्थिति संहारकण्व पुण्यैककारणा ॥   ८-१४७ ॥
अनेकतप कृत्यानि नयसर्वाणि सर्वदा ।  
फलप्रदान्यमोघानि संपूर्णानि प्रसीदमे ॥   ८-१४८ ॥ प्. ४५)
एतन्मन्त्रं जपित्वेशं क्षमस्वेति वदेत् गुरुः ।  
स त्रिपाद त्रिघटिका रात्र्यन्ते तु दिने दिने ॥   ८-१४९ ॥
ब्राह्मं मुहूर्तमाख्यातं संघोष्यस्त्विति कथ्यते ।  
तथा पञ्च महाशब्दं कृत्वा शुभनिवृत्तये ॥   ८-१५० ॥
शौचं स्नानादिकं कृत्वा पूजान् कृत्वादिशैवकम् ।  
भास्करस्योदयात् पूर्वं दृष्ट्वारभ्य यथा क्रमम् ॥   ८-१५१ ॥
यामैका चोत्तमासन्धिर्मध्यमा पञ्चनाडिका ।  
मध्यमाया कनिष्ठा स्याद् यथा विभवमाचरेत् ॥   ८-१५२ ॥
सा चैकाघटिका स्नाने घटिकाद्वयमर्चने ।  
नैवेद्यं घटिकार्धञ्च घटिकार्धं बलिं ततः ॥   ८-१५३ ॥
घटिकार्धैकसंयुक्ता वेला तत्र विधीयते ।  
नित्योत्सवे तथा स्नाने शुद्धे वै सुद्धनृत्तके ॥   ८-१५४ ॥
सार्द्धत्रिघटिका प्रोक्ता द्रव्यसंपन्नपूजने ।  
असंपद्यजनं प्रोक्तं मध्यमाधमकालतः ॥   ८-१५५ ॥
एवं समर्चिते सर्वमर्चितञ्च चराचरम् ।  
तस्माल्लिङ्गार्चनं कार्यं प्राज्ञैश्च सुमहात्मभिः ॥   ८-१५६ ॥
ब्रह्मचर्येण वेदैश्च यज्ञैश्च विविधैः शुभैः ।  
अग्निहोत्रैश्च सन्यासैराश्रमैश्च सुपालितैः ॥   ८-१५७ ॥
त्रिदण्डैश्च व्रतैस्सर्वै घृतैः पाशुपतादिकैः ।  
एतैरन्यैश्च यतिभिः प्राप्यते यत्फलं शुभम् ॥   ८-१५८ ॥
तत्फलं लभते साधु लिङ्गस्यार्चन तत् परः ।  
एकोह्यभ्यर्च्यते लिङ्गन्तपस्तप्यति चा परः ॥   ८-१५९ ॥
तयोर्मध्ये तु स श्रेष्ठो यो लिङ्गं संप्रपूजयेत् ।  
अनेकजन्मसाहस्रे भ्रममाणस्तु योनिभिः ॥   ८-१६० ॥
कश्चिदाप्नोति वै मुक्तिं लिङ्गार्चनरतोनरः ।  
शिवार्चनविधिः प्रोक्तो मुद्रायालक्षण श्रुणु ॥   ८-१६१ ॥

इति शिवार्चनविधि पटलोष्टमः ॥   ८ ॥