Showing posts with label ज्येष्ठास्थापनविधि पटलः. Show all posts
Showing posts with label ज्येष्ठास्थापनविधि पटलः. Show all posts

Sunday, January 6, 2019

ज्येष्ठास्थापनविधि पटलः,सुप्रभेदागमः


अथ ज्येष्ठास्थापनविधि पटलः
अथातः संप्रवक्ष्यामि ज्येष्ठायाः स्थापनं परम् ।  
आदिशक्तेस्समुत्पन्ना पश्चादुदधिसंभवा ॥   ४५-१ ॥
उदधौमत्थ्यमाने तु चोत्थिता सा गजानन ।  
कालाञ्जननिभा देवी सर्वाभरणभूषिता ॥   ४५-२ ॥
कररूढा कलेपत्नी सुखघ्नादुहितातनुः ।  
जानुपार्श्वौ मणिर्वाथा वृषास्यं वृषभं तथा ॥   ४५-३ ॥
वृषभोरक्तवर्णन्तु मणिकाञ्चन स प्रभा ।  
रूपाण्येतानि कृत्वा तु प्रतिष्ठां सम्यगाचरेत् ॥   ४५-४ ॥
रत्नन्यासं ततः कृत्वा तोयमध्ये निवासनम् ।  
ततो क्षिमोचनं कृत्वा शयने चाधिवासनम् ॥   ४५-५ ॥
कुंभान्यत्रैव विन्यस्य पश्चाद्धोमन्तु पूर्ववत् ।  
शिवाग्निं तत्र कृत्वा तु ज्येष्ठां वह्नौसमावहेत् ॥   ४५-६ ॥ प्. २११)
ज्येष्ठाया मूलमन्त्रेण सर्वद्रव्याणि होमयेत् ।  
संस्थाप्यसुमुहूर्ते तु हविष्यं दापयेत् ततः ॥   ४५-७ ॥
ज्येष्ठायाः स्थापनं प्रोक्तं दुर्गाया स्थापनं श्रुणु ॥  
इति ज्येष्ठा स्थापनविधिपटलः पञ्चचत्वारिंशत्तमः