Showing posts with label शास्ता स्थापनविधिपटलः. Show all posts
Showing posts with label शास्ता स्थापनविधिपटलः. Show all posts

Sunday, January 6, 2019

शास्ता स्थापनविधिपटलः,सुप्रभेदागमः


अथ शास्ता स्थापनविधिपटलः
अथातः संप्रवक्ष्यामि शास्ता स्थापनमुत्तमम् ।  
शास्ता सर्वस्य लोकस्य तस्माच्छास्तेति चोच्यते ॥   ५३-१ ॥
तस्योक्तञ्च स्वरूपञ्च स्थापनञ्च श्रुणुष्व हि ।  
समुद्रमथने काले परिग्रह्यामृतं तथा ॥   ५३-२ ॥
हरिर्बभूवस्त्रीरूपा मोहीनीनामनामतः ।  
तन्मोहिनीमहंदृष्ट्वा सङ्गतोस्मि कदाचन ॥   ५३-३ ॥
जातस्तदा महाशास्ता मेद्ध्याहाम्रवतीश्वराः ।  
द्विनेत्रं द्विभुजं कृत्वा सर्वाभरणभूषितम् ॥   ५३-४ ॥
श्यामवर्णयुतं तेषां शुक्लयज्ञोपवीतिनम् ।  
श्वानकुक्कुटमेषाद्यैः क्रिडन्तं सर्वसिद्धिदम् ॥   ५३-५ ॥
मदनावर्णनी देवौ पीतौरससमन्वितौ ।  
सर्वाभरणसंयुक्तौ पार्श्वयोर्विन्यसेत् ततः ॥   ५३-६ ॥
वामे दमनकं न्यस्त्वा ते द्वेषं विकृतं स्मृतम् ।  
द्विभूजं दक्षिणेहस्ते चक्रदण्डमथेश्वरम् ॥   ५३-७ ॥
फलपल्लवहस्तञ्च कुञ्चितां घ्रिकरं द्वयम् ।  
भूताकारं बृहत्कुक्षिं निलालकविभूषितम् ॥   ५३-८ ॥
शास्तुश्च लक्षणं प्रोक्तं स्थापनं श्रुणु तत्वतः ।  
प्रासादे नै-ऋते भागे ग्रामादीनाञ्च नै-ऋते ॥   ५३-९ ॥
अष्टदिक्षु च पूर्वादि तत्ग्रामस्य पराङ्मुखम् ।  
प्रासादं कारयेद्धिमान् गजपृष्ठं विशेषतः ॥   ५३-१० ॥
अथवामण्डलं वापि कर्तव्यं प्रतिमां ततः ।  
भद्रासने त्वधासीनं तथा वीरासनं तु वा ॥   ५३-११ ॥
मृद्दारुशैललोहैश्च कारयेच्छास्त्रवित्तमः ।  
शैलस्थापनवच्छेषं मन्त्रध्यानमथोक्तवत् ॥   ५३-१२ ॥
तस्मादाद्याक्षरेणैव मूलमन्त्रप्रयोगवत् ।  
अग्निमध्ये तु तद्रूपं ध्यात्वा होमन्तु मन्त्रवित् ॥   ५३-१३ ॥ प्. २२२)
तद्रूपभावनाविष्टा स्थापनादिसमाचरेत् ।  
तद्रूपं कौतुकं स्थाप्यमूलबेरस्य चाग्रतः ॥   ५३-१४ ॥
लोहादीनि तथा कार्यं मृच्छिलादीनि कारयेत् ।  
अर्चयित्वाथ विधिना हविष्यन्तु निवेदयेत् ॥   ५३-१५ ॥
शास्तुः संस्थापनं ह्येवं जीर्णोद्धारविधिं श्रुणु ।  
इति शास्तास्थापनविधिपटलस्त्रिपञ्चाशत्तमः