Sunday, January 6, 2019

प्रश्नविधिपटलः ,सुप्रभेदागमः

सुप्रभेदागमः
                       अथ क्रियापादे प्रश्नविधिपटलः ।

वृतम् ।  
देवैर्यक्षैस्सगन्धर्वै स्सिद्धविद्याधरैरपि ॥   १-१ ॥
ब्रह्मामृगाङ्कसूर्यैश्च लोकेशैरिहसंवृतम् ।  
दृष्ट्वा प्रणम्य देवेशं विघ्नेशोवाक्यमब्रवित् ॥   १-२ ॥
भगवन् देवदेवेश लोकनाथजगत्पते ।  
अनन्यमानसो भूत्वा शिवज्ञानं परं वद ॥   १-३ ॥
यदवाप्यनरास्सर्वे मुक्तिमायान्ति केवलाम् ।  
ज्ञानयोगक्रियाचर्याः पुराप्रोक्तास्सविस्तराः ॥   १-४ ॥
पुंसामनुग्रहार्थाय संक्षेपाद् वक्तुमर्हसि ।  
तन्त्राणामुद्भवं किञ्चित् मन्त्राणामुद्भवं कथम् ॥   १-५ ॥
किं शौचा चमनं देव स्नानं भस्मविधिः कथम् ।  
अर्चनाङ्गञ्च पूजा च मुद्राणां लक्षणं कथम् ॥   १-६ ॥
नैवेद्यं चाग्निकार्यश्च अग्निकुण्डबलिः कथम् ।  
उत्सवस्यविधिः कोवा स्नपनस्य विधिः कथम् ॥   १-७ ॥
शीतकुम्भं कथं देव नवनैवेद्य लक्षणम् ।  
कार्तिक्याङ्कृत्तिकादीपमाषाढे पूरकर्मकम् ॥   १-८ ॥
फलपाक विधानञ्च आचार्यस्य च लक्षणम् ।  
लक्षणं करणानाञ्च ग्रामादीनां कथं प्रभो ॥   १-९ ॥
विभव निश्चयं किं वा कर्षणस्य विधिः कथम् ।  
बालालयविधिः कोवा धामवास्तु विधि कथम् ॥   १-१० ॥
आद्येष्टकाविधानं किं गर्भन्यासविधिः कथम् ।  
अङ्गुलीनां विधानं किं कथं प्रासादलक्षणम् ॥   १-११ ॥
मूर्ध्नेऽष्टकाविधानं किं कथं वा लिङ्गलक्षणम् ।  
प्रतिमालक्षणं किं वा अङ्कुरार्पणलक्षणम् ॥   १-१२ ॥
लिङ्गसंस्थापनं किञ्च सकलस्थापनं कथम् ।  
शक्तिनां स्थापनं किं वा परिवारस्य लक्षणम् ॥   १-१३ ॥ प्. २)
अथाष्ट परिवाराणां स्थापनञ्च पृथक् पृथक् ।  
इन्द्रादीनां प्रतिष्ठा च आदित्यस्थापनं कथम् ॥   १-१४ ॥
क्षेत्रपालप्रतिष्ठा च शूलस्य स्थापनं कथम् ।  
अस्त्रराजप्रतिष्ठा च शास्तुश्च स्थापनं कथम् ॥   १-१५ ॥
जीर्णोद्धारविधिः किं वा प्रायश्चित्तविधिः कथम् ।  
तन्त्राणां सङ्करोपेतं क्रियापादे कथं प्रभो ॥   १-१६ ॥
चर्या पादे च शैवानामुद्भवञ्च कथं प्रभो ।  
जातिभेदविधानं किं मण्डलस्य कथं प्रभो ॥   १-१७ ॥
दीक्षामार्गं कथन्तेषां चर्यापादे व्यवस्थितम् ।  
आदिशैवानुशैवानां कथं वा शोडश क्रियाः ॥   १-१८ ॥
व्रताचाराः कथन्तेषां पवित्रारोहणं कथम् ।  
दीक्षितानां नृपाणाञ्च स्वर्णगर्भ तुलाकथम् ॥   १-१९ ॥
हिरण्यगर्भ तुलाभारं दहनस्य विधिः कथम् ।  
पितृयज्ञविधानं किं स पिण्डीकरणञ्च किम् ॥   १-२० ॥
अष्टकायाविधानञ्च प्रायश्चित्तविधिः कथम् ।  
नाडीचक्रं कथं योगे कालचक्रं तु कीदृशम् ॥   १-२१ ॥
आधाराधेयकं सर्वं योगपादे तु कीर्तितम् ।  
ज्ञानपादे महादेव शिवसृष्टिक्रमं कथम् ॥   १-२२ ॥
पशुसृष्टिश्चका देव षडध्वालक्षणं कथम् ।  
मया तु तानिप्रश्नानि प्रश्नान्यन्यान्यशेषतः ॥   १-२३ ॥
वक्तुमर्हसि मे देव अनुग्रह्योह्यहं प्रभो ।  
                                    श्रीभगवानुवाच
साधु साधु महाप्राज्ञ यत् त्वयापरिचोदितम् ॥   १-२४ ॥
शुद्धशैवमिदं तन्त्रं न देयं न प्रकाशितम् ।  
दीक्षितस्य सुधीरस्य शिवभक्तिपरस्य च ॥   १-२५ ॥
श्रवणीयं न चान्यत्र कथनं हि प्रशस्यते ।  
चतुष्पादयुतं तन्त्रं भुक्तिमुक्त्यर्थकारणम् ॥   १-२६ ॥
सारात् सारमिदं तन्त्रं सुप्रभेदं विनायक ।  
तवस्ते हादहं वक्ष्ये तत्सर्वं श्रूयतां क्रमात् ॥   १-२७ ॥ प्. ३)
शैवं पाशुपतं सोमं लाकुलञ्च चतुर्विधम् ।  
तेषु शैवं परं सौम्यं रौद्रं पाशुपतादिकम् ॥   १-२८ ॥
शैवं पुनश्चतुर्भेदं वामदक्षिणमेव च ।  
मिश्रञ्चैव तु सिद्धान्तं तेषु सिद्धान्तमुत्तमम् ॥   १-२९ ॥
अष्टाविंशति भेदेन सिद्धान्तं श्रुणु तत्वतम् ।  

इति प्रश्नविधिपटलः प्रथमः ॥   १ ॥

तन्त्रावतारविधिपटलः


अथ तन्त्रावतारविधिपटलः
अथातः संप्रवक्ष्यामि तन्त्राणामुद्भवं परम् ।  
तनोति विपुलाननर्थान् तन्त्रमन्त्रसमाश्रितान् ॥   २-१ ॥
त्राणञ्च कुरुते पुंसां तेन तन्त्रमिति स्मृतम् ।  
कामिकं योगजं चिन्त्यं कारणमजितं तथा ॥   २-२ ॥
दीप्तं सूक्ष्मं सहस्रञ्च अंशुमान् सुप्रभेदकम् ।  
विजयञ्चैव निश्वासं स्वयम्भुवमथानलम् ॥   २-३ ॥
वीरं च रौरवञ्चैव मकुटं विमलं तथा ।  
चन्द्रज्ञानञ्च बिंबञ्च प्रोत्गीतं ललितं तथा ॥   २-४ ॥
सिद्धं सन्तान सर्वोक्तं पारमेश्वरमेव च ।  
किरणं वातुलञ्चैव अष्टाविंशति संहिताम् ॥   २-५ ॥
वक्ष्यामि सर्वतन्त्राणां वक्तारं प्रतिवाचकः ।  
ज्ञानमेकं विभज्याशु दशाष्टादशसंहिताः ॥   २-६ ॥
सृष्टेरनन्तरं विघ्न मयाप्रोक्ताभिमुक्तये ।  
कामिकं प्रणवाख्यस्य परार्थ ग्रन्धसङ्ख्यया ॥   २-७ ॥
प्रणवार्ति कलः प्रोक्त स्त्रिकलाच्च ततो हरः ।  
त्रयश्चैवोप भेदाः स्युर्वक्तारं भैरवोत्तरम् ॥   २-८ ॥
नारसिम्हञ्च वैवत्स उच्यते कामिकत्रयम् ।  
योगजं तु सुधाख्यस्य प्रोक्तं तल्लक्षसङ्ख्यया ॥   २-९ ॥
सुधाख्याद्भस्म संप्राप्तस्ततः प्राप्तो विभुः क्रमात् ।  
वीणाशिखोत्तरन्तारं सुधासन्तन्तिमेव च ॥   २-१० ॥ प्. ४)
आत्मयोगञ्च पञ्चैते योगतन्त्रस्य भेदकाः ।  
चिन्त्यं सूदीप्त संज्ञस्य प्रोक्तं शतसहस्रकैः ॥   २-११ ॥
दीप्ताच्चगोपति प्राप्तस्ततः प्राप्ता तु चालिका ।  
सुचिन्त्यं सुभगं वामं पापनाशं सुरोद्भवम् ॥   २-१२ ॥
अमृत्यविद्रतन्त्रञ्च षड्विधं तत् प्रकीर्तितम् ।  
कारणं कारणाख्यस्य कोटिग्रन्धेन चोदितम् ॥   २-१३ ॥
कारणाच्छर्वरुद्रस्तु शर्वान् प्राप्तः प्रजापतिः ।  
कारणं पावनं दौर्गं माहेन्द्रं भिमसंहिता ॥   २-१४ ॥
ततस्तु मारणत्वेषां सप्तधाकारणं तथा ।  
अजितं तु शिवाख्यस्य नियुतग्रन्धसङ्ख्यया ॥   २-१५ ॥
सुशिवाख्याच्छिव प्राप्तः तच्छिवादच्युतः ततः ।  
प्रभूतञ्च परोद्भूतं पार्वती पद्मसंहिता ॥   २-१६ ॥
चतुर्भेदमिदं तन्त्रे चास्मिन्तन्त्रे प्रकीर्तितम् ।  
दीप्तमीशस्य विख्यातं नियुतग्रन्धसङ्ख्यया ॥   २-१७ ॥
ईशात् त्रिमूर्तिः संप्राप्ताः ततः प्राप्तो हुताशनः ।  
अमेयमब्दमच्छाद्यमसङ्ख्यममितौजसम् ॥   २-१८ ॥
आनन्दं माधवोद्भूतं अत्भुतञ्चमृतं तथा ।  
दीप्तन्तु नवधा प्रोक्तं सूक्ष्म तन्त्रनिबोधनात् ॥   २-१९ ॥
सूक्ष्मं सूक्ष्मस्य संप्रोक्तं तत् ग्रन्धं पद्मसङ्ख्यया ।  
कालभीमस्तत प्राप्तो भीमाधर्मो यथा तथा ॥   २-२० ॥
अतीतममलं शुद्धमप्रमेयं तु जातुभाक् ।  
वुबुधं विबुधं हस्तमलङ्कारं सुबोधकम् ॥   २-२१ ॥
एते सहस्र तन्त्रस्य दशसङ्ख्या प्रकीर्तिताः ।  
अम्शुमानम्बु संज्ञस्य पञ्चलक्षेण कीर्तितम् ॥   २-२२ ॥
अग्रश्चैवांबुसंज्ञाच्च अग्रान् प्राप्तस्ततो रविः ।  
विद्यापुराणं तन्त्रञ्च वासवं निललोहितम् ॥   २-२३ ॥
प्रकरणं भूततन्त्रमात्मालङ्कारमेव च ।  
काश्यपङ्तौ तमञ्चैन्द्रं ब्राह्मं वासिष्ठमेव च ॥   २-२४ ॥ प्. ५)
ईशानोत्तरतन्त्रञ्च अंशुमान्वादश स्मृतम् ।  
सुप्रभेदमिदं तन्त्रं दशेशस्य प्रकीर्तितम् ॥   २-२५ ॥
विघ्नेश्वरोदशेशाच्च दशप्राप्तो बृहोदरात् ।  
त्रिकोटिसङ्ख्यया प्रोक्तं भेदमत्र न विद्यते ॥   २-२६ ॥
क्रियादि ज्ञानपर्यन्तमत्रैवेह प्रदृश्यते ।  
इदं शास्त्रमनेनैव सुप्रभेदमिति स्मृतम् ॥   २-२७ ॥
शिवभेदमिति प्रोक्तं रुद्रभेदमथोच्यते ।  
रुद्रस्यानादिसंज्ञस्य विजयं तन्त्रमुत्तमम् ॥   २-२८ ॥
परमेशस्ततः प्राप्त त्रिकोटिग्रन्थसङ्ख्यया ।  
विजयं चोद्भवं सौम्यं अघोरं मृत्युनाशनम् ॥   २-२९ ॥
कुबेरेशं महाघोरं विमलं विजयाष्टकम् ।  
निश्वासं यद्दशार्णस्य प्रोक्तं तत् कोटिसङ्ख्यया ॥   २-३० ॥
दशार्णाच्छैलजा वाप्ता अष्टभेदेन चोदिताः ।  
निश्वासोत्तर निश्वासौ निश्वासस्यमुखोदयम् ॥   २-३१ ॥
निश्वासनयनञ्चैव तथा निश्वासकारिका ।  
घोरसंज्ञा समाख्याता गुह्यञ्चाप्येवमष्टधा ॥   २-३२ ॥
निधनस्य स्वयंभूतं त्रिकोट्यर्द्धेन कीर्तितम् ।  
निधने शात् स्वयंभुतं श्रुतवान्नपि चोद्भवः ॥   २-३३ ॥
प्रजापतिमतं पद्मं स्वायंभुवमिति त्रिधा ।  
आग्नेयञ्च ततो मेनाग्रन्धसङ्ख्या युतत्रयम् ॥   २-३४ ॥
आग्नेयं तन्त्रमेवन्तु ततः प्राप्तो हुताशनः ।  
आग्नेयमेकमेवन्तु आग्नेयां नादमेव च ॥   २-३५ ॥
तेजसो वीरसंप्रोक्तं नियुतग्रन्धसङ्ख्यया ।  
प्रजापतिस्ततः प्रोप्त त्रयोदशविभेदतः ॥   २-३६ ॥
प्रस्तरं फुल्लममलं प्रबोधं बोधबोधकम् ।  
अमोहं मोहसमयं शकटंशाकटायिकम् ॥   २-३७ ॥
हलं विलोखरं भद्रं वीरं वीरे त्रयोदश ।  
रौरवं ब्रह्मणेशस्य अंबुजाष्टकसङ्ख्यया ॥   २-३८ ॥ प्. ६)
नन्दिकेशस्ततः प्राप्तो भेदाः षट्प्रविधीयते ।  
कालदाहं कलातीतं रौरवं रौरवोत्तरम् ॥   २-३९ ॥
महाकालमतञ्चैन्द्रं रौरवं षट्प्रकीर्तितम् ।  
मकुटन्तु शिवाख्यस्य शतसाहस्रसङ्ख्यया ॥   २-४० ॥
महादेवःस्ततः प्राप्ता भेदञ्च द्विविधं भवेत् ।  
मकुटोत्तरन्तु मकुटं द्विविधञ्च विधीयते ॥   २-४१ ॥
सर्वात्मकस्य विमलं त्रिलक्षग्रन्धसङ्ख्यया ।  
वीरभद्रः स्ततः प्राप्तो भेदाः षोडश एव च ॥   २-४२ ॥
अनन्तं भोगमाक्रान्तं वृषंलिङ्गं प्रषोदरम् ।  
प्रषोद्भूतौ सुदन्तञ्च रौद्रं भद्रविधिं तथा ॥   २-४३ ॥
आरेवतमतिक्रान्तमट्टहासमलङ्कृतम् ।  
अजितं मारणं तन्त्रं विमलं षोडशैव तु ॥   २-४४ ॥
चन्द्रज्ञानमनन्तस्य त्रिकोटिग्रन्धसङ्ख्यया ।  
बृहस्पतिस्ततः प्राप्तो भेदाश्चापि चतुर्दश ॥   २-४५ ॥
स्थिरं स्थाणमहान्तञ्च नन्दीशं नन्दिकेश्वरम् ।  
एकपादपुराणञ्च शङ्करन्तूलरुद्रकम् ॥   २-४६ ॥
श्रीभद्रं कल्पभेदञ्च श्रीमुखं शिवशासनम् ।  
शिवशेखरमाख्यातं देव्यामतन्तथैव च ॥   २-४७ ॥
चन्द्रज्ञानस्य तन्त्रस्य चतुर्दशविधं भवेत् ।  
मुखबिंबं प्रशान्तस्य शतसाहस्र सङ्ख्यया ॥   २-४८ ॥
दधीचिर्मुनि संप्राप्तो भेदः पञ्चदशैव तु ।  
चतुर्मुखमहायोगं संस्तोभं प्रतिबिंबकम् ॥   २-४९ ॥
अर्थालङ्कारवायव्यं तोटकन्तुटिनिकरम् ।  
प्रत्ययं चतुलायोगं कुट्टिमं पट्टिशेखरम् ॥   २-५० ॥
महाविद्या महासौरं बिंबं पञ्चदशैव तु ।  
प्रोत्गीतं शूलिनः प्रोक्तं लक्षत्रितयसङ्ख्यया ॥   २-५१ ॥
कवचाख्यस्ततः प्राप्ता भेदाः षोडश एव हि ।  
कवचञ्चैव वाराहं पिङ्गलामतमेव च ॥   २-५२ ॥ प्. ७)
पाशबन्धं दण्डधरं कुशञ्च धनुधारिणम् ।  
शिवज्ञानञ्च विज्ञानं श्रीकालं ज्ञानमेव च ॥   २-५३ ॥
आयुर्वेदं धनुर्वेदं सर्वदंष्ट्रविभेदनम् ।  
गीतं भरतमातोद्यं प्रोत्गीतं षोडशेन वै ॥   २-५४ ॥
ललितञ्चलयस्यैव प्रोक्तमष्टसहस्रकम् ।  
आलयाल्ललितं प्राप्तो ललितं ललितोदरम् ॥   २-५५ ॥
कौमारञ्चैव विघ्नेशं त्रिविधं परिकीर्तितम् ।  
बिन्दोः सिद्धमिदं तन्त्रं कोटिकोट्यर्द्धसङ्ख्यया ॥   २-५६ ॥
बिन्दुसंज्ञाच्च संबन्धः प्राप्तश्चण्डेश्वरोपरः ।  
सारोत्तरमथाद्यस्तु ऐशानोत्तरमेव च ॥   २-५७ ॥
शालाभेदं शशीमण्डं सिद्धतन्त्रं चतुर्विधम् ।  
सन्तानं शिवनिष्ठस्य षट्सहस्रन्तु संङ्ख्यया ॥   २-५८ ॥
शैवे वायुस्ततः प्राप्तो भेदं सप्तविधं भवेत् ।  
लिङ्गाद्ध्यक्षं सुराद्ध्यक्षं शङ्करं त्वमलेश्वरम् ॥   २-५९ ॥
असङ्ख्यमनिलं द्वंद्वं सन्तानं सप्तधोदितम् ।  
सोमदेवस्य सर्वोक्तं द्विलक्षेणैव सङ्ख्यया ॥   २-६० ॥
नृसिम्हः प्राप्तवान् सोमात् भेदं पञ्चविधं भवेत् ।  
शिवधर्मन्तु धर्मोन्तं वायुप्रोतं तथैव च ॥   २-६१ ॥
दिव्यप्रोतमथैशानं शर्वोत्गीतं विधीयते ।  
श्रीदेव्यास्तु समाख्यातं पारमेश्वरमुत्तमम् ॥   २-६२ ॥
ग्रन्धद्वादशलक्षन्तु सप्तधा प्रसृतन्तु तत् ।  
उशनामुनि संप्राप्त श्रीदेव्याश्च यथा क्रमम् ॥   २-६३ ॥
मातङ्गं यक्षिणी पद्मं पारमेश्वरमेव च ।  
पुष्कलं सुप्रयोगञ्च हंसं सामान्यमेव हि ॥   २-६४ ॥
किरणङ्गरुडस्योक्तं कोटिपञ्चकसङ्ख्यया ।  
संवर्तकस्तत प्रप्ताः भेदन्तन्नव एव तु ॥   २-६५ ॥
गारुडन्नै-ऋतन्निलं रुत्विंभानुक धेनुकम् ।  
प्रबुद्धं बुद्धकालाख्यं नवमङ्किरणं तथा ॥   २-६६ ॥ प्. ८)
शिवस्य वातुलं प्रोक्तं ग्रन्धं शतसहस्रकम् ।  
महाकालः स्ततः प्राप्तो भेदं वै द्वादशोदितम् ॥   २-६७ ॥
वातुलञ्चोत्तरञ्चैव कालज्ञानं प्ररोहितम् ।  
सर्वं सर्वात्मकं श्रेष्ठं नित्यंशुद्धं महाननम् ॥   २-६८ ॥
विश्वं विश्वाकरञ्चैवं वातुलीद्वादशं स्मृतम् ।  
अष्टाविंशति तन्त्राणां तन्त्रसङ्ख्या प्रकीर्तिताः ॥   २-६९ ॥
कामिकं पादयुग्मं स्याद् योगजङ्गुल्भमेव च ।  
चिन्त्य पादाङ्गुलिः प्रोक्तं कारणं जङ्घमेव च ॥   २-७० ॥
अजितं जानुदेशञ्च दीप्तं मूलप्रदेशकम् ।  
सूक्ष्मन्तु गुह्यबीजं स्यात् सहस्रन्तु कटीतटम् ॥   २-७१ ॥
अंशुमान् प्रष्ठभागञ्च सुप्रभेदन्तु नाभिकम् ।  
विजयङ्कुक्षिदेशं स्यान्निश्वासं हृदयं भवेत् ॥   २-७२ ॥
स्वायंभुवं स्तनौ द्वौ तु अनलं नेत्रमेव च ।  
वीरं कण्ठप्रदेशन्तु रौरवं श्रोत्रमेव च ॥   २-७३ ॥
मकुटे मकुटं तन्त्रमङ्गप्रत्यङ्गमेव च ।  
बाहू तु विमलं प्रोक्तं चन्द्रज्ञानमुरस्थलम् ॥   २-७४ ॥
बिंब तन्त्रं सुवदनं प्रोत्गीतं जिह्वसंज्ञितम् ।  
ललितं कपोलतलं सिद्धञ्चैव ललाटकम् ॥   २-७५ ॥
सन्तानं कुण्डल ज्योतिः शर्वोक्तमुपवीतकम् ।  
पारमेश्वरहारञ्च किरणं रत्नभूषितम् ॥   २-७६ ॥
वातुलं परमेशस्य वायुस्तद्विशङ्केन तु ।  
कल्पञ्च सूत्रसंयोगं शिवधर्मेनुलेपनम् ॥   २-७७ ॥
ललितः पुष्पमाल्यञ्च सिद्धान्तञ्च निवेदनम् ।  
तन्त्रकायशरीरेण मन्त्रप्राणमयं तथा ॥   २-७८ ॥
एभिर्भेदोपभेदैश्च सादाख्ये मूर्तिमा स्थिताः ।  
शैवभेदमिदं तन्त्रं दशाष्टादशसंहिताः ॥   २-७९ ॥
चिन्तामणिरिवाभाति एक या बहुधादिशेत् ।  
यट्र्यव्येकोभवेद्वक्ता श्रोतारोबहवो यथा ॥   २-८० ॥ प्. ९)
येन तन्त्रेण चारब्धं कर्षणाद्यर्चनान्तकम् ।  
तस्मिन् तन्त्रे प्रकर्तव्यं अन्य तन्त्रं न कारयेत् ॥   २-८१ ॥
कारयेदन्य तन्त्रेण नोक्तन्तस्मिन् विशेषतः ।  
तन्त्रावतारणं प्रोक्तमन्त्रोद्धारमथ श्रुणु ॥   २-८२ ॥

तन्त्रावतार द्वितीय पटलः ॥   २ ॥

मन्त्रोद्धार पटलः


                                 मन्त्रोद्धार पटलः
अथातः संप्रवक्ष्यामि मन्त्रोद्धारविधिं परम् ।  
सर्वसिद्धिकरं श्रेष्ठं सर्वकामप्रदायिकम् ॥   ३-१ ॥
मननं सर्ववेदित्वं त्राणं संसारसागरात् ।  
मननत्राणधर्मित्वां मन्त्र इत्यभिधीयते ॥   ३-२ ॥
शिवं ब्रह्माङ्गविद्येशान् गणेशान् लोकपालकान् ।  
अस्त्रान्विद्याङ्गमेवन्तु बीजार्णक्षुरिकां तथा ॥   ३-३ ॥
पृथिव्यादीनि बीजानि बीजब्रह्मं पुरोक्तकम् ।  
पिण्डमन्त्रं कलामन्त्रं पञ्चब्रह्मञ्च रुद्रकम् ॥   ३-४ ॥
वक्ष्यते सविशेषेण तच्छृणुष्व गजानन ।  
योसौ परापरो देवस्सर्वज्ञः सर्वदाविभुः ॥   ३-५ ॥
निष्कलन्तु परब्रह्मं तस्माच्छक्ति द्वयं भवेत् ।  
तद्द्वयं निष्कलं प्रोक्तं तस्मान् नादसमुद्भवः ॥   ३-६ ॥
तस्मात् बिन्दु समुत्पन्नं तस्माद् योनिसबीजकम् ।  
अकारादिविसर्गान्तं बीजं तत् षोडशाक्षरम् ॥   ३-७ ॥
त्रयस्त्रिंशाक्षराः शेषा योनयश्चाव्ययात्मिकाः ।  
तेषु तन्त्रास्समुत्पन्नास्तेषु मन्त्रास्समुद्भवाः ॥   ३-८ ॥
तस्य वाचकमन्त्राणांस्तैरेवाभि न विद्यते ।  
दशबीजमिदं मन्त्रं सर्वमन्त्रेषु कथ्यते ॥   ३-९ ॥
ओंकारं प्रथमंबीजमाकारन्तु द्वितीयकम् ।  
त्रितीयं बीजमीकारं सर्वकारक कारणम् ॥   ३-१० ॥ प्. १०)
चतुर्थं बीजमूकारं व्योकारं पञ्चमं भवेत् ।  
मकारं षष्ठमेवं स्याद् व्याकारं सप्तमं तथा ॥   ३-११ ॥
पिकारमष्टमं बीजन्नेकारं नवमं स्मृतम् ।  
ओंकारं दशमं बीजं सर्वात्मा चैव विश्रुतम् ॥   ३-१२ ॥
एत देव प्रबोद्धव्यं शिवेन परिभाषितम् ।  
शिवमन्त्रमिदं प्रोक्तं तस्य लक्षणमुच्यते ॥   ३-१३ ॥
सदाशिवं तत्व संस्थं प्रत्यक्षं सर्वतोमुखम् ।  
इच्छाशक्त्युद्भवं पद्मं सहस्रदलभूषितम् ॥   ३-१४ ॥
कर्णिका केसरैर्युक्तं तत्रस्थन्तु सदाशिवम् ।  
पञ्चमूर्द्धं चतुर्वक्त्रं नेत्रैर्द्वादशभिर्युतम् ॥   ३-१५ ॥
चतुरास्यञ्चतुर्नासं वसुश्रोत्रञ्चतुर्गलम् ।  
दशभुजन्तनूरेका द्विपादं पद्मसंस्थितम् ॥   ३-१६ ॥
शुद्धस्फटिकसङ्काशं सूर्यकोटिसमप्रभम् ।  
चन्द्रांशु हिमशीतञ्च सर्वाभरणभूषितम् ॥   ३-१७ ॥
शुक्लांबरधरन्देवं शुक्लयज्ञोपवीतिनम् ।  
अभयं शूलपरशुं वज्रखट्गञ्च दक्षिणे ॥   ३-१८ ॥
खेटकं चांकुशं पाशं घण्टावह्निञ्च वामके ।  
मनोन्मनीं तस्य वामे पञ्चावरणमध्यगाम् ॥   ३-१९ ॥
एवं सदाशिवं ध्यायेत् सर्वपाप निकृन्तनम् ।  
इदं रूपं सदाध्येयं सर्वकर्मफलप्रदम् ॥   ३-२० ॥
एतत् सदाशिवं रूपमुमेशस्य श्रुणुष्व हि ।  
मम रूपप्रभेदोस्ति चैक वक्त्रञ्चतुर्भुजम् ॥   ३-२१ ॥
शिवमन्त्रमितिख्यातं ब्रह्माङ्गञ्च ततः शुणु ।  
प्रथमात् पञ्चबीजादि ब्रह्माङ्गं प्रधितानि वै ॥   ३-२२ ॥
शुक्लं रक्तं तथाश्यामं कुङ्कुमं क्षीरसन्निभम् ।  
पञ्चानां पञ्चवर्णानि पञ्चब्रह्ममिहोच्यते ॥   ३-२३ ॥
रशामिषर्पपर्यन्तं शिवाङ्गञ्चेति कीर्तितम् ।  
इन्दु धूम्रौ तथा किञ्चिद् धूम्र कृष्णं रवेर्निभम् ॥   ३-२४ ॥ प्. ११)
तमोरूपं सुविज्ञेयं सूर्यकोटि शिवास्त्रकम् ।  
शिवाङ्गास्त्रस्य पर्यायमघोरास्त्रं प्रकीर्तितम् ॥   ३-२५ ॥
एकाक्षरसमायुक्तमोङ्कारादिनमोन्तकम् ।  
अस्त्रं विसर्गसंयुक्तमन्ये बिन्दुसमायुताः ॥   ३-२६ ॥
शेषा प्लुतसमायुक्ताः शिवाङ्गाश्च प्रकीर्तिताः ।  
ब्रह्माङ्गाश्च यथा प्रोक्तास्तेषां रूपमिहोच्यते ॥   ३-२७ ॥
त्रिणेत्रञ्चतुर्भुजं सौम्यं सर्वलक्षणसंयुतम् ।  
हारकेयूर संयुक्तं सर्वाभरणभूषितम् ॥   ३-२८ ॥
तेषां रूपं मयाप्रोक्तं विद्येशंलक्षणं श्रुणु ।  
द्वितीयादि नमोन्ताश्च विद्येशानां प्रकीर्तितम् ॥   ३-२९ ॥
जपा पुष्प प्रभोनन्तो नीलवर्णन्तु सूक्ष्मकम् ।  
शिवोत्तमोथकुन्दाभो बन्धूकं चैकनेत्रकः ॥   ३-३० ॥
पद्माभमेकरुद्रस्य रक्ताशोक स्त्रिमूर्तिभिः ।  
नीलोत्पलाभ श्रीकण्ठः शिखण्डी चाञ्जनः प्रभः ॥   ३-३१ ॥
अनन्तादिशिखण्ड्यान्ताश्चाष्ट विद्येश्वरा स्मृताः ।  
तेषां हृदोपचारन्तु ओंकारद्वयमेव हि ॥   ३-३२ ॥
पूर्वोक्तलक्षणोपेतं तेषां रूपं ततोमतः ।  
गणेशलक्षणं वक्ष्ये श्रुणु तत्वङ्गजानन ॥   ३-३३ ॥
एकारादि द्वितीयान्तं गणेशानान्तु बीजकम् ।  
जाम्बूनदमयिदेही चण्डो वै सूर्यसन्निभः ॥   ३-३४ ॥
नन्दीशः पद्मरागस्तु कालोमरतकप्रभः ।  
वृषभः शारदाभ्राभो गणेशः पद्मसन्निभः ॥   ३-३५ ॥
भृङ्गीश श्वेतवर्णस्तु रक्तवर्णस्तु षण्मुखः ।  
देव्यादि षण्मुखान्ताश्च विज्ञेयास्ते गणेश्वराः ॥   ३-३६ ॥
तेषां हृदुपचारन्तु ज्ञेयं विद्येशवत्पुरा ।  
इन्द्रादिलोकपालानां श्रुणुमन्त्रङ्गजानन ॥   ३-३७ ॥
दशबीजं ततः प्रोक्तं पूर्वादिक्रमयोगतः ।  
इन्द्रस्तु पीतवर्णः स्यात् पिङ्गवर्णस्तु पावकः ॥   ३-३८ ॥ प्. १२)
कृष्णवर्णोयमः प्रोक्तो नि-ऋतिर्धूम्रवर्णकः ।  
वरुणः शुक्लवर्णस्तु वायुर्वै पीतवर्णकः ॥   ३-३९ ॥
सोमस्तु हिमसङ्काशस्त्वीश स्फटिकसन्निभः ।  
ज्वालाविद्युदनं तस्य ब्रह्मणश्चेन्द्रकोपकः ॥   ३-४० ॥
तेषां रूपं पृथक् प्रोक्तं मन्त्राणां लक्षण श्रुणु ।  
दशाभि प्रथमान्तञ्च मन्त्रमुच्चार्यते क्रमात् ॥   ३-४१ ॥
नानावर्णमयं वज्रं शक्तिर्विद्युत् प्रभासिकाः ।  
दण्डश्च नीलजिमूतः खड्गोनीलोत्पल प्रभः ॥   ३-४२ ॥
पाशः पावक सङ्काशश्चांकुशं पद्मरागभाक् ।  
गदा तु षारवर्णा तु इन्द्रनील स्त्रिशूलकः ॥   ३-४३ ॥
अतसी कुसुमश्चक्रः पद्मस्तत् भास्करप्रभः ।  
भूतानां शिरसश्चोर्द्ध्वे आयुधानि प्रकल्पयेत् ॥   ३-४४ ॥
शिवबीजमिदं मध्ये शिवब्रह्माङ्गमेव च ।  
विद्येशाश्च गणेशाश्च लोकपालास्त्रसंयुतम् ॥   ३-४५ ॥
मन्त्रं रूपं तथा वर्णं प्रोक्तादश विशेषतः ।  
दशबीजाच्च ये चान्ये क्रमान्नागानन श्रुणु ॥   ३-४६ ॥
विद्याङ्गलक्षणं ब्रूमो नेत्रेण तु समायुतम् ।  
सप्ताष्ट पञ्चमात्रन्तु गुणवर्णा यथा क्रमात् ॥   ३-४७ ॥
ओङ्कारादि प्रशान्ताय नमोहृद्युक्त वर्णकम् ।  
ॐ प्रणवात्मं नमोनमः शिरस्फटिकसन्निभम् ॥   ३-४८ ॥
शिखायहुं प्रणवादि शिखाचैवाञ्जन प्रभा ।  
हुङ्कारस्तु तथा वर्म पद्मपत्रेणसन्निभम् ॥   ३-४९ ॥
फट्कारमिहशस्त्रं स्यात् सूर्यकोटिसमप्रभम् ।  
एतत् पाशुपतास्त्रञ्च ईषट्करालदंष्ट्रकम् ॥   ३-५० ॥
ॐ जिह्वासं स्मृता नेत्रमरुणाभं ततो विदुः ।  
पूर्ववद् रूपमेतेषां शक्तिबीजं तत श्रुणु ॥   ३-५१ ॥
ॐ भॄं जॄं क्ष्मॄं शक्तिमन्त्रं स्यात् बीजमुख्यन्तु देवता ।  
तप्तकाञ्चन वर्णाभा रूपलक्षणमुच्यते ॥   ३-५२ ॥ प्. १३)
चतुर्भुजा त्रिणेत्रा च सर्वालङ्कारसंयुता ।  
नितम्बतटविस्तीर्णा मध्यक्षामा स्तनोन्नता ॥   ३-५३ ॥
एवं लक्षणसंयुक्ता आदिशक्तिर्मनोन्मनी ।  
शक्तेस्तु लक्षणं प्रोक्तं क्षुरिकास्त्रं ततः श्रुणु ॥   ३-५४ ॥
ओश्चिपिखीचिदक्षि उत्क्षुरिकामन्त्रमुत्तमम् ।  
विशुद्धस्फटिकाकारं क्षुरिकास्त्रञ्चतुर्भुजम् ॥   ३-५५ ॥
विद्याङ्गास्त्रं शिवाङ्गास्त्रं अघोरास्त्रं त्रितीयकम् ।  
शिवाङ्गास्त्र द्विधा चैव शिवशस्त्रं तथैव च ॥   ३-५६ ॥
सर्वात्मा ज्ञानहृदयं विद्याङ्गाद् योगजं स्मृतम् ।  
भूतजं हृदयं घोरं हृदयन्तु त्रिधा भवेत् ॥   ३-५७ ॥
सृजेत भूतजेनैव योगजेन तु सम्हरेत् ।  
ज्ञानेन मोक्षदं प्रोक्तमित्येवन्तु मनीषिणाम् ॥   ३-५८ ॥
पृथिव्यादीनि बीजानि लवरय्यहकारकाः ।  
ब्रह्माख्यां पूर्ववत् ब्रह्ममेवञ्चैव तत श्रुणु ॥   ३-५९ ॥
प्रथमं ब्रह्मबीजं सात् द्वितिय्यं पिण्डमन्त्रकम् ।  
कलामन्त्रं तृतीयन्तु ब्रह्ममेतत् त्रिधा मतम् ॥   ३-६० ॥
ब्रह्मबीजेष्वयत् ब्रह्म बीजब्रह्ममिहोच्यते ।  
सद्यादीशानपर्यन्तं वक्ष्यमाणं विधानतः ॥   ३-६१ ॥
पिण्डमन्त्रमिति ज्ञेयं कलामन्त्रं ततः श्रुणु ।  
सद्यः कलाभिरष्टाभिर्वामदेवस्त्रयोदश ॥   ३-६२ ॥
अघोराष्टकलाष्टाभिश्चतुर्भिश्चैव वक्त्रकम् ।  
ईशानं पञ्चधा भित्वा कल्पयेत् तु विचक्षणः ॥   ३-६३ ॥
अष्टत्रिंशत्कला ह्येवं कला ब्रह्मन्तु कथ्यते ।  
ब्रह्मरुद्रौ प्रवक्ष्यामि चक्रं न्यसाक्षरक्रमात् ॥   ३-६४ ॥
मण्डपं कारयेत् तत्र नवहस्तप्रमाणतः ।  
प्रपां वा कल्पयेद् विद्वान् द्वादशस्तम्भसंयुतम् ॥   ३-६५ ॥
वितानं ध्वजसंयुक्तं भूषितं धूपदीपकैः ।  
मण्डपस्य तु तन्मध्ये चक्रं कुर्याद् विशेषतः ॥   ३-६६ ॥ प्. १४)
पूर्वापरेण मार्गेण युग्मसूत्रं प्रपातयेत् ।  
दक्षिणोत्तरमार्गेण तद्वत् सूत्रं प्रपातयेत् ॥   ३-६७ ॥
सप्ताङ्गुलान्तरं ज्ञेयं मानाङ्गुलेन कारयेत् ।  
षोडशाङ्गुलमानेन मध्ये वृत्तं प्रकल्पयेत् ॥   ३-६८ ॥
तन्मद्ध्येऽष्टदलं पद्मं तत् बाह्ये षोडशं दलम् ।  
तत् बाह्ये भ्रामयेद् विद्वान् संवीक्ष्य वरणङ्क्रमात् ॥   ३-६९ ॥
पञ्चाङ्गुलान्तरं तेषां द्वाराग्रे शूलमुल्लिखेत् ।  
बाह्यविधौ न्यसेद् धीमान् त्रयस्त्रिंशच्च देवताः ॥   ३-७० ॥
बाह्यवास्तुपदे युक्ता देवान् सङ्कल्प्य तत्र वै ।  
खट्गखेटकसंयुक्तान् वास्तुदेवान् न्यसेत् क्रमात् ॥   ३-७१ ॥
रक्तवर्णनिभान् देवान् हृदयेऽञ्जलिसंयुतान् ।  
परितः कल्पयेत् तत्र एकैकान्तरितः क्रमात् ॥   ३-७२ ॥
ब्रह्माक्षरान् महाशासु रुद्रार्णानि दिशासु वै ।  
प्रागाद्युत्तरपर्यन्तं दिक्षु ब्रह्मं समुद्धरेत् ॥   ३-७३ ॥
आग्नेय्यां दिशिकोणान्तं रुद्रमन्त्रं समुद्धरेत् ।  
ब्रह्मरुद्रक्रमेणैवं विन्यासञ्च ततः श्रुणु ॥   ३-७४ ॥
ब्रह्मसूत्रं न्यसेत् तत्र सितेन रजसा पुनः ।  
नानावर्णविमिश्रेण भ्रामयेत् ब्रह्मसूत्रकात् ॥   ३-७५ ॥
रक्तेन धातुना वर्ग प्रस्तरेदक्षराणि वै ।  
यवर्गादष्टमं बीजं तेजोबीजसमायुतम् ॥   ३-७६ ॥
चतुर्दश स्वरोपेतं बिन्दुनादसमन्वितम् ।  
ब्रह्महत्यादिकं पापञ्जप्तमात्रेण नश्यति ॥   ३-७७ ॥
इदं प्राणदमुद्धृत्य कर्णिकायां विशेषतः ।  
प्राक् दले प्रणवं न्यस्त्वा द्याकारं तस्य दक्षिणे ॥   ३-७८ ॥
पप्रगच्छोश्च सद्योसौ न्यसेद् अष्टदलाब्जके ।  
सद्योजाश्च तथा तश्च पृच्छिपश्च ततः पुनः ॥   ३-७९ ॥
जाकाराश्च इमेसर्वे पूजाद्यब्ददले न्यसेत् ।  
मकारञ्च सकारञ्च गोकारञ्च तथा पुनः ॥   ३-८० ॥ प्. १५)
जातायश्च तथा वै नं स्थवसर्गोयमेव च ।  
भाश्च वे च तथा भश्च चेतना च तथातिभम् ॥   ३-८१ ॥
मिकारमिन्द्रदिक् पात्रे भतीनावे भवेगमः ।  
न वै वताजान्योसाश्च न्यासेत् षोडशदिक् दले ॥   ३-८२ ॥
प्रदक्षिणक्रमादेवमन्वेष्वा वरणेषु च ।  
जश्च भश्च तथा पेचमश्चप्यो च तमोक्षरः ॥   ३-८३ ॥
खकारश्च विकारश्च खकारोमा तथैव च ।  
काच पश्च तथा पोच ह्योचरे कारयेव च ॥   ३-८४ ॥
मुश्चयश्च तथा द्राच रुद्रः शन्नोत एव च ।  
पश्च धिश्च तथा गाश्च पूर्वादीनि प्रदक्षिणम् ॥   ३-८५ ॥
चतुर्विंशति मे प्रोक्ता प्रथमावरणे क्रमात् ।  
नश्च माश्च तथा स्वश्च व्यश्च दिश्च ततः पुनः ॥   ३-८६ ॥
ने च पश्च तथाव्या च पश्चना चर एव च ।  
बालबाधपराश्चैव रश्चघोचर एव च ॥   ३-८७ ॥
स्रश्च विश्चककारश्च षश्च पिश्च तथैव च ।  
चोश्च प्रश्च तथा द्रश्च मुश्च प्रश्च श एव च ॥   ३-८८ ॥
एत चश्च द्वितीये तु द्वात्रिंशद्वर्णमुच्यते ।  
स विसर्गोमकारस्तु रवतावाक्षरान्य हुः ॥   ३-८९ ॥
तत् बाह्ये षोडशदले भश्च मोचय एव च ।  
पाच रूच क्वकारश्च रिकारश्च च एव च ॥   ३-९० ॥
बश्च मोच तथा नश्च मश्च पामस्तथैव च ।  
मोकारश्च मलो चैव सविसर्गोह्य एव च ॥   ३-९१ ॥
रेतौ निश्च तथाद्याश्च निश्चयश्च त आयतः ।  
शिकारः प्रणवश्चैव याच्चदश्च तथैव च ॥   ३-९२ ॥
सविसर्गे ककारस्तु तेधमाश्च प्रपञ्च च ।  
षट्त्रिंशदक्षरा प्रोक्ता स्त्रितीया वरणे ततः ॥   ३-९३ ॥
नश्च वाच ततो दीप नाधा प्रश्च जनेऽपि वा ।  
व्याश्चर्वश्च समौ प्रश्च लकारोभुक्तिरेव च ॥   ३-९४ ॥
निश्चयश्च तथा द्राश्च ओष्ठ ज्येकार एव च ।  
सविसर्गन्त कोरस्तु मश्चसश्चम आयते ॥   ३-९५ ॥ प्. १६)
ण्यश्चरश्च तथा हिश्च मोचनश्चध एव च ।  
त्याकारश्च न कारश्च ईकारश्च त एव च ॥   ३-९६ ॥
तश्च भूश्च नवौभानौ वश्चभश्च तथैव च ।  
चतुर्था वरणेह्यत्र चतुश्चत्वारिंशदक्षरम् ॥   ३-९७ ॥
यश्च वा च तथा देश्च माद्योवाश्च तथैव च ।  
पादोहामाश्चयश्चैव वा कारश्च शि एव च ॥   ३-९८ ॥
स विसर्गोमकारश्च न कारः प्रणवस्ततः ।  
यधौ नाधाब्द शाश्चैव शब्दासास्स विसर्गमः ॥   ३-९९ ॥
तश्चणे च विरूकारौ हुकारो बश्चयः ततः ।  
ह्याकारौ सर्वकारौ च शश्चरश्च त आयतः ॥   ३-१०० ॥
तु हे सेच्च च कारश्च लकारश्च न एव च ।  
लकारश्च निकारश्च स्वराद्योह्हेविस्तथा ॥   ३-१०१ ॥
रेफ पूर्वोपकारस्तु सश्चद्यश्चपि एव च ।  
न्याकरोपित्तिशाश्चैव त्याच शश्च व एव च ॥   ३-१०२ ॥
वकारोव्यो च भव्यौ च भकारश्च ततोन्ततः ।  
अष्टषष्ट्य क्षराः प्रोक्ताः पञ्चमावरणे तथा ॥   ३-१०३ ॥
ज्येकारश्च तथा मोश्च नश्चदापदपास्तथा ।  
यच्च पाकृति पच्चैव कानेचाद्यस्वरस्तथा ॥   ३-१०४ ॥
यश्च आयसकारश्च हार्गसा स विसर्गमम् ।  
न च जोश्च तथा तेजसौ जाते कार एव च ॥   ३-१०५ ॥
ऐकारश्च विकारश्च ऊकारश्च तथा पुनः ।  
रेफ पूर्वशकारश्च सच्चयश्च ततः पुनः ॥   ३-१०६ ॥
रेफ पूर्वे तु दीर्घस्तु स्पश्चणे च विरू ततः ।  
न ह्योर्वे घोततीं ताशा ताश्चशा च ततः पुनः ॥   ३-१०७ ॥
दीर्घरेफौ पकारश्च रश्च पश्चतिथौ ततः ।  
णामिनाभ्याश्च श्लिंश्चैव शीं श्लीं कारस्तथैव च ॥   ३-१०८ ॥
प्रणवश्च शकारश्च देशादेत्ताश्च जा ततः ।  
अश्च षश्च रुकारश्च पूषौ रूप तथैव च ॥   ३-१०९ ॥
षट् च सप्ततयः प्रोक्ताः षष्ठमावरणे क्रमात् ।  
तधष्ठा षाश्च शेविश्च पाचयश्च ततः पुनः ॥   ३-११० ॥ प्. १७)
रूचद्रश्च तथा रौचयश्च नाशाविरेव च ।  
घ्नश्च विश्चर्वसौ चैव याकारश्च तरुश्च वै ॥   ३-१११ ॥
रेफपूर्वौ चकारश्च रुश्चण्डश्च गधौ तथा ।  
डा गणेपि चरूडाश्च रावसाश्चरणेऽपि च ॥   ३-११२ ॥
रूस्तुस्तैमाश्च प्रोवैव स्वराद्योमविसर्गयुक् ।  
तश्चवश्च शिमस्ता च वश्चशिश्च भ एव च ॥   ३-११३ ॥
तरघोमोगराश्चैव सश्चरश्चश्च एव च ।  
ह्री कारश्च त्रयं दीप ह्रिकारस्य तथा त्रयम् ॥   ३-११४ ॥
अक्षर त्रीणी हुंकाराः प्रणवं फट् तथास्त्रयः ।  
दीपकश्च तथांशाश्च अशीतिस्सप्तमावृतौ ॥   ३-११५ ॥
द्रौश्चरुश्च तथा मोचनश्चरश्चरुपी तथा ।  
यश्चष्टा च तथा दंश्च तूश्चवश्च लिपी तथा ॥   ३-११६ ॥
लिश्च किश्च लिपी चैव लिश्च हिश्चतन्ती पुनः ।  
नामादाश्च तथा द्वंश्चणेपि रूलाश्चद्रू तथा ॥   ३-११७ ॥
यश्चला च तथा मूचणेपि रूजाश्च एव च ।  
बीजायाश्चैव बीचैवणेपि बेरुद्र एव च ॥   ३-११८ ॥
अक्षरस्सविसर्गेण मकारो न यदा तथा ।  
नमो न देनाद्य स्वरास्सविसर्गौमतौ ततः ॥   ३-११९ ॥
वीह्य पोमोन ह्यताम्रर्वनाश्चन्ता चनस्ततः ।  
अफट्कारौ च हुंश्चैव प्रणवश्च तथा पुनः ॥   ३-१२० ॥
षट् च वौ चैव षट्चैव यथा स्वाचैव हा पुनः ।  
स्वाश्चस्तिश्च सकारश्च सविसर्गौ मनौस्तथा ॥   ३-१२१ ॥
अष्टमावरणे प्रोक्ता अष्टाशीत्यक्षराः पुनः ।  
सविसर्गोमकारश्च नकारश्च ययौ पुनः ॥   ३-१२२ ॥
यान्निर्वे च धमाः साश्च जुश्चग्यश्च ऋ एव च ।  
श्वश्च ह्वा च तथा जींश्च ग्रश्चनोच ह आयतः ॥   ३-१२३ ॥
लीपे पाश्च तथा पश्च लापा नानास्तथैव च ।  
मोनयाश्चैव पिश्चैव रुद्रपाश्चै य आयतः ॥   ३-१२४ ॥
द्रापणे पिततारू च लश्च नायौ चला ततः ।  
नाकारेणापि रूरांश्च रुद्राश्चैव य एव च ॥   ३-१२५ ॥ प्. १८)
राचरूश्च तथा तच्च प्रणवश्च ह्य एव च ।  
पश्चसिश्च तथाद्यश्च चापिश्चर्व स एव च ॥   ३-१२६ ॥
सविसर्गोमकारश्च तश्चभ्यश्चनुयो पुनः ।  
तव गोप्ते च गौयौ च ह्या च गुश्च तथा पुनः ॥   ३-१२७ ॥
मोनहु प्राश्च हश्चैव स्मश्च व्रंश्चैव नांस्ततः ।  
तश्च हा च तथा स्वा च यकारश्च र आयतः ॥   ३-१२८ ॥
यश्च भीश्च तथा भूश्च मश्च प्रेच ह आयतः ।  
सा च यश्च तथा रा च यश्च जश्च व एव च ॥   ३-१२९ ॥
हाच स्वाच तली चैव ज्वश्च सुश्च द एव च ।  
नवमावरणे प्रोक्ताः शताष्टाधिकमक्षरम् ॥   ३-१३० ॥
यश्च लाच तथा काच व्यालिकैलिश्च किंस्ततः ।  
यश्च ता च तथा श्वश्च शाश्चयश्च व आयतः ॥   ३-१३१ ॥
ध्राश्चयश्च तथा ता च ता श्रीश्चाना चयौ पुनः ।  
ता च ना चस्वराच्छाद्यो यश्चन्ताश्च न एव च ॥   ३-१३२ ॥
अकारश्च मकारश्च नोमणश्च पिता तथा ।  
लश्चपश्च यकारश्च लाचभश्च तथा पुनः ॥   ३-१३३ ॥
णेचपिश्च तथा रूच पञ्चपुश्च य एव च ।  
ष्वाच पुश्च तथा णश्च विश्वरूपर्भगौ तथा ॥   ३-१३४ ॥
यश्च भाच तथा गश्चणे च ष्वाश्चरु एव च ।  
पुश्च द्यो च तथात्मश्च व्योचनश्च त एव च ॥   ३-१३५ ॥
चेचना च तथा तश्च चेचेवाद्य स्वरास्तथा ।  
यश्चरा च तथा पश्च रश्चयश्च तथैव च ॥   ३-१३६ ॥
मेचरश्च पकारश्च यश्च पाच तथा परू ।  
निश्चद्यो च तथा ये च तश्च पश्चतिणाच्चिवाः ॥   ३-१३७ ॥
नकारश्च स्वरश्चोद्यो रश्चपश्चन्द्र एव च ।  
रुश्चष्णुश्च तथा पिश्च ह्याच पुश्चरकौ ततः ॥   ३-१३८ ॥
स्यश्च नैश्च तथा सा चर्वश्च सश्च द एव च ।  
प्रश्च खश्चसुतौ चैव हूकारश्चर्व एव च ॥   ३-१३९ ॥
दशमावरणे प्रोक्ताः शताश्च द्वादशाधिकाः ।  
कश्चमस्सविसर्गस्तु नयायेश्चरु आयतः ॥   ३-१४० ॥ प्. १९)
याकारश्च तथा कारयश्च राच ह आयतः ।  
नश्चद्ध्या च तथाने च गित्ययोत्यं नियास्तथा ॥   ३-१४१ ॥
ताच स्थिश्च तथा सश्च मश्च पीच ग एव च ।  
यो बलंश्च नयौ ना च णेच विश्च तथा पुनः ॥   ३-१४२ ॥
रुकारश्च तथा नो च मश्च सेचनमौ ततः ।  
णेकारश्च विरूतौ च रेकारश्च तथा पुनः ॥   ३-१४३ ॥
सेतरेणे विरुन्ताश्च नश्चयाश्च य एव च ।  
तश्च नश्च अकारश्चत्मश्च विश्च वधू पुनः ॥   ३-१४४ ॥
अग्निश्च स्वराश्चाद्योप श्वरूपश्च एव च ।  
नित्योजस्सविसर्गश्च ते मथाश्च तथा पुनः ॥   ३-१४५ ॥
प्रश्च विश्च तथा रूनौ विश्वरूच अपिंस्ततः ।  
व्या विश्चैव तथा व्योमिन् स्माच प्रश्चति एव च ॥   ३-१४६ ॥
शिक्ष क्ष्मा च तथा सूचब्दश्च शश्चन एव च ।  
ज्ञाश्च गश्च तथा पिंश्च गश्च तश्च परू तथा ॥   ३-१४७ ॥
तुश्च षिश्च तथा सा च तश्च स्थिश्चर्व एव च ।  
पूतौस्तुश्च अनौ चैव विन्यसेत् तु विशेषतः ॥   ३-१४८ ॥
दशैकावरणे प्रोक्ताः शतवर्णाश्च षोडश ।  
ककारश्च विलौ चैव अकारोयश्च वा शिराः ॥   ३-१४९ ॥
घोमानाश्च यकारश्च ज्ञाचवश्च ष एव च ।  
रुश्च पुश्च तयौ चैव वा शिये तत् पगास्तथा ॥   ३-१५० ॥
जकारोयश्च नाशाश्च ईकारश्चाद्यमक्षरम् ।  
प्रणवस्सविसर्गेण मकारप्रश्चयस्ततः ॥   ३-१५१ ॥
पारुतिश्च कृकारश्च प्रश्चणे च विरूरकाः ।  
हंसश्चाभ्य स्वरश्चैव यश्चरा च क आयतः ॥   ३-१५२ ॥
अं चैवाद्य स्वाराश्चैव णेचविश्च तथा पुनः ।  
रुर्थौ चाद्य स्वराश्चैव यर्थ चैवाद्यमक्षरम् ॥   ३-१५३ ॥
महामहे बहुश्चैव तथा प्रणव एव च ।  
सविसर्गेण रूकारः प्रणवश्च तथा पुनः ॥   ३-१५४ ॥
चत्वारश्चैव सूकारा नाकारश्च तथा चतु ।  
देनादेश्च तथा ना च अकारोन्तश्च नस्ततः ॥   ३-१५५ ॥ प्. २०)
अकारश्च स्मकारश्च अश्चन्तश्चर्भ एव च ।  
आह्य स्वरोमकारश्च मेवोशिश्च च एव च ॥   ३-१५६ ॥
षांश्च शांश्च तथा वांश्च लांश्च यांश्चस्तथापि च ।  
ओकारेश्च तथा नेच विश्चव्याम च एव च ॥   ३-१५७ ॥
व्योकारश्च तथा ऊचं रच आकार एव च ।  
प्रणवश्च वयश्चैव मश्चनच्चम एव च ॥   ३-१५८ ॥
शिश्च दश्चर्वसौ चैवर्वश्च शश्चव एव च ।  
द्वादशावरणे प्रोक्तो विंशतिश्चशतं क्रमात् ॥   ३-१५९ ॥
यश्चणा च तथा रश्च वाचपाचप एव च ।  
यकारो ह्यागुवाश्चैव देवमायाश्च एव च ॥   ३-१६० ॥
नोश्च पश्चात् प्रयद्युश्च विधं द्राचैवकास्तथा ।  
वश्च सिश्च यथा दश्च भूयभ्यश्च च एव च ॥   ३-१६१ ॥
रेच घोणे विरुद्राश्च विश्चयद्यश्च आयतः ।  
विश्चणे च तथा पिश्च रूपद्धश्च शुयौ ततः ॥   ३-१६२ ॥
याश्च गुश्च तथा णेचरु माया च यथौ ततः ।  
माचणेऽपि तथा रूति ककारायश्च वा पुनः ॥   ३-१६३ ॥
देय व्याश्च स्वराश्चाद्यो वेचभश्च विमौ ततः ।  
वाचमावाकने चैव कानेचाद्य स्वरस्ततः ॥   ३-१६४ ॥
त्र्यंश्च सश्च ततो दीपस्सविसर्ग व एव च ।  
तकारः प्रणवश्चैवस्सविसर्गो न एव च ॥   ३-१६५ ॥
जकारादीपकश्चैवस्सविसर्गो ह कारकः ।  
मकारः प्रणवश्चैव सविसर्गस्प एव च ॥   ३-१६६ ॥
प्रणवश्च तथा दाच सश्चस्तुश्च तपो ततः ।  
तश्च भावै च स्वाकारस्सविसर्गो म एव च ॥   ३-१६७ ॥
नश्च पेच तथा भश्च प्रश्चगच्छ च एव च ।  
सविसर्गोमकारस्तु नये ताश्च प एव च ॥   ३-१६८ ॥
न कारश्चैव शाद्रौ च क्षंकारः क्षविसर्गयुक् ।  
त्वैंश्चक्षूंश्च तथा क्षंश्च त्वां क्षां हां हाश्च एव च ॥   ३-१६९ ॥
त्रयोदशावरणे प्रोक्ता विंशदष्टोत्तरं शतम् ।  
यश्चमोश्च तथा रुश्च वश्चकायौ च एव च ॥   ३-१७० ॥ प्. २१)
राचयाक्त्या च शश्चैव दिश्चमाकार एव च ।  
लयेक्ता च तथा मूच तश्च जाद्यो स एव च ॥   ३-१७१ ॥
चन्द्रश्च नश्चधारा च विश्चसुश्चाष्ठ एव च ।  
रिश्चवश्च तथाण्यश्च रेच वश्चरवौ तथा ॥   ३-१७२ ॥
यश्च घे च यकारश्च अकारश्च ततः पुनः ।  
रश्चश्चाग्नि तथा लाच काश्चमस्सविसर्गयुक् ॥   ३-१७३ ॥
नियवाशिश्च हौकारः प्रणवश्च तथा चणे ।  
पिश्च रूच तथा वीच शिदासाश्चैव यस्ततः ॥   ३-१७४ ॥
पाशिदा साश्चणेकारः पिश्चरुय न एव च ।  
यानाश्च महिमौ धीये वाश्च शिश्च तथैव च ॥   ३-१७५ ॥
दासस्सर्वश्च चौचैव शिश्चवंश्च ह एव च ।  
नोयनिश्च तथा नश्च धनिश्चाद्य स्वरस्तथा ॥   ३-१७६ ॥
मंपधा च तकारश्च तीरश्च स्वराभ्यतः ।  
नश्चमश्च सनौसश्च शान्तेशायाश्च दीपकः ॥   ३-१७७ ॥
स विसर्गोवकारस्तु शिकारं विन्यसेत् ततः ।  
स विसर्गोमकारस्तु नयेनांश्च पणांस्ततः ॥   ३-१७८ ॥
द्राचरुश्च विसर्गेण मकारोनश्चनेत्मकाः ।  
मृश्च अश्च विसर्गेण मकारोनश्चने तथा ॥   ३-१७९ ॥
मवौ चैव सकारश्च स विसर्गो म एव च ।  
नश्च नश्च तथा ने च तथात्मश्च तथा पुनः ॥   ३-१८० ॥
स विसर्गोमकारश्च नकारश्चैव ए ततः ।  
चतुर्दशावरणे प्रोक्तं षट्त्रिंशश्च शतक्षरम् ॥   ३-१८१ ॥
एवं अक्षरविन्यासं कृत्वोद्धरणमारभेत् ।  
सौधमूर्तिं प्रवक्ष्यामि पञ्चवक्त्रसमन्वितम् ॥   ३-१८२ ॥
पञ्चादशाक्षसंयुक्तं भूजैश्च दशशोभितम् ।  
वरदाभय हस्तं स्याद् अष्टायुधसमन्वितम् ॥   ३-१८३ ॥
दुकूलपट्टवसनं सर्वाभरणभूषितम् ।  
पद्मासनसमारूढं प्रासाअदमिति चोच्यते ॥   ३-१८४ ॥
एकवक्त्रं त्रिणेत्रं स्यात् चतुर्भुजं सुरूपकम् ।  
दिव्यांबरधरं देवं दिव्याभरणभूषितम् ॥   ३-१८५ ॥ प्. २२)
एवं ब्रह्मसमाख्यातं रुद्रलक्षणमुच्यते ।  
चतुर्वक्त्रं चतुर्बाहु द्वादशाक्षिसमन्वितम् ॥   ३-१८६ ॥
वरदाभयहस्तं स्यात् छुलश्चांकुशमेव च ।  
सर्वाभरणसंयुक्तं शुक्लयज्ञोपवीतकम् ॥   ३-१८७ ॥
क्षौमवस्त्रधरं रक्तं ध्यायेद् रूपं विशेषतः ।  
संक्रान्ते विषुवे चैव अयने जन्म-ऋक्षके ॥   ३-१८८ ॥
दीक्षायास्थापनान्ते च दुर्भिक्षे दुर्निमित्तके ।  
भूमिकं पेदिशां दाहे ज्वरमार्यादि पीडने ॥   ३-१८९ ॥
गोक्षीरं गन्धतोयं वा घृतं वा मधुवा पुनः ।  
नालिकेरजलं वापि रुद्रेण स्नापयेच्छिवम् ॥   ३-१९० ॥
सप्तजन्म कृतं पापं यजमानस्य नश्यति ।  
सर्वेषामेव देवानां मन्त्रमेवं द्विधामतम् ॥   ३-१९१ ॥
स्वनाम्नि चादिवर्णे तु ऋचामन्यत् स वह्निकम् ।  
बिन्दुनादसमायुक्तं सर्वेषां मूलमन्त्रकम् ॥   ३-१९२ ॥
दीर्घाणि ह्यंगमेवं स्यात् षडंगाश्चैव कीर्तिताः ।  
अस्त्रं विसर्गसंयुक्तं ह्रस्वा वै ब्रह्मपञ्चकम् ॥   ३-१९३ ॥
यथा वर्णस्तथा रूपं अस्मिन् मन्त्रे प्रचोदितम् ।  
तेषां मन्त्रं तु सर्वेषां शिवस्य परमात्मनः ॥   ३-१९४ ॥
सर्वकार्ये प्रयोक्तव्यं सर्वसिद्धिप्रदायकम् ।  
मन्त्रोद्धारमिदं प्रोक्तं शौचाचमनकं श्रुणु ॥   ३-१९५ ॥

इति मन्त्रोद्धारस्तृतीय पटलः ॥   ३ ॥