अथ प्रायश्चित्तविधिपटलः
अथातः संप्रवक्ष्यामि प्रायश्चित्तविधिक्रमम् ।
ज्ञातीनाञ्च सगोत्राणां प्रायश्चित्तन्तु नोच्यते ॥ १२-१ ॥
तथा प्रबद्धलोकस्य लोकाचारं नलंघयेत् ।
अदत्वा प्रातिबुद्धस्य प्रायश्चित्तं विधीयते ॥ १२-२ ॥
स्वजाति दीक्षितं स्पृष्ट्वा भस्म स्मानं विशेषतः ।
शूद्रस्य स्पर्शने तस्य सचेल स्नानमाचरेत् ॥ १२-३ ॥
अन्तरालानि सर्वाणि स्पर्शने स्नानकद्वयम् ।
प्रमादात् स्पर्शने विद्वान् जलस्नानं विधीयते ॥ १२-४ ॥
भस्मस्नानं ततः कृत्वा शिवमन्त्रशतञ्जपेत् ।
बुध्यासं स्पर्शनञ्चेति पूर्ववत् स्नानकर्मकम् ॥ १२-५ ॥
तद्दृष्टे भोजनेकाले तच्छेषान्नन्त्यजेत् बुधः ।
स्नानद्वयं ततः कृत्वा जप्त्वा मूलं शताष्टकम् ॥ १२-६ ॥ प्. २८७)
दुर्गन्धं वायुनागच्छेन्नासाग्रे भिनिवर्तके ।
गोमयन्तु तथा जिघ्रन् सद्यः पञ्चाक्षरञ्जपेत् ॥ १२-७ ॥
स्वजातिदीक्षितानाञ्च भुक्त्वाकामेन वै बुधः ।
व्योमव्यापिञ्जपेदेवं यदिकामाच्छतं जपेत् ॥ १२-८ ॥
नृपान्नभोजने वैद्योघोरमन्त्रं शतञ्जपेत् ।
भुक्ते वैश्यान्नमेवन्तु सहस्रान्तञ्जपेत् क्रमात् ॥ १२-९ ॥
भुक्ते त्वकामाद्रुद्रान्नं कृच्छ्रञ्चांद्रायणञ्चरेत् ।
चान्द्रायणञ्च कामाद्वै कृच्छ्रञ्चैव तु कूष्मकम् ॥ १२-१० ॥
भूक्ते चैकाहमूर्ध्वे तु कृच्छ्रञ्चान्द्रायणञ्चरेत् ।
मासे निरन्तरे भुंक्ते शुद्रत्वमुपजायते ॥ १२-११ ॥
शूद्रेणैव तु संयुक्तो नित्यं शूद्रवदाचरेत् ।
शूद्रस्त्री सङ्गमं कृत्वा सप्तकृच्छ्रन्ततश्चरेत् ॥ १२-१२ ॥
सप्तकृच्छ्रादिकृच्छ्रञ्च मासंमासार्धगामिनः ।
षाण्मासंवत्सरं वापि कृच्छ्रञ्चान्द्रायणञ्चरेत् ॥ १२-१३ ॥
अब्दादुपरिसंयोगे प्रायश्चित्तं न विद्यते ।
तस्याचारञ्च तद्वच्चमरणान्ते विशेषतः ॥ १२-१४ ॥
रजस्वलाङ्गना स्पर्शे भुक्ते स्नात्वा शिवञ्जपेत् ।
हेरण्ड कवटाश्वत्थ पत्रेषु यदिभोजनम् ॥ १२-१५ ॥
कामादकामतो वापि शिवमन्त्रं शतञ्जपेत् ।
उच्छिष्टे घृतसंयुक्ते क्षीरेलवणसंयुते ॥ १२-१६ ॥
जपित्वा हृदयं तत्र सर्वदोषनिक्रन्तनम् ।
भुक्त्वान्नदर्शने केशे त्यक्त्वा संशोध्यभस्मना ॥ १२-१७ ॥
संस्मरेद् देवदेवेशं जलं प्राप्यविशुद्ध्यति ।
लशुनं मत्स्यमांसञ्च निर्माल्यञ्च विसर्जयेत् ॥ १२-१८ ॥
प्रमादात् भक्षयित्वा तु शिवमन्त्रं जपेच्छुचिः ।
कामेन यदि भुंजितं शिवमन्त्रशतं जपेत् ॥ १२-१९ ॥ प्. २८८)
पातकानाञ्च सर्वेषां समसाच्छृणु सुवृत् ।
ब्रह्महत्या सुरापानं सुवर्णस्तेयमेव च ॥ १२-२० ॥
गुर्वङ्गनागमञ्चैव तद्योगं पञ्चमं स्मृतम् ।
गुरुतल्पसुरापानं ब्रह्महत्या च ते त्रयः ॥ १२-२१ ॥
मरणाभिमुखे प्रोक्तन्तेषाञ्च मरणं श्रुणु ।
बीजं कोशसमायुक्तं मूले संच्छिद्यसाहसात् ॥ १२-२२ ॥
तालपत्रस्य नालेन गुरुतल्पीमृतस्तथा ।
हस्ते संग्राह्य तप्तानां सुरापी मरणं भवेत् ॥ १२-२३ ॥
वचनाच्छृणु ताच्छ्रिद्रं प्रमादादग्निसंभ्वे ।
विप्रचिह्नं परित्यज्य संप्राप्य स्वहतं पदम् ॥ १२-२४ ॥
ब्रह्महाचेति वा गच्छेनहा प्रस्थानमाचरेत् ।
सकृत् प्रवेशीतद्ग्रामं द्वितीयं न प्रवेशयेत् ॥ १२-२५ ॥
भर्त्रानारी समागच्छन् ग्रामान्ते नयतान्निशि ।
एवञ्चाकामतोज्ञेयः कामत श्रुणु सुवृत ॥ १२-२६ ॥
कृत्वा पूर्ववदाचर्य द्वादशाब्दान्तकं यथा ।
तदूर्ध्वगमने काले जलेवह्नौरणेपतन् ॥ १२-२७ ॥
संप्रविश्यापि मरणं नयेच्छुद्धो भविष्यति ।
स्वर्णस्तोधि च तद्योगात् समासाः श्रुणु सुवृत ॥ १२-२८ ॥
दानं कृत्वा तु सर्वत्र तीर्थे स्नात्वा तु वत्सरम् ।
शिवमन्त्रं जपेद् देही पश्चादुद्दालकञ्चरेत् ॥ १२-२९ ॥
इदं सुवर्णसेयस्य प्रायश्चित्तं विधीयते ।
चतुर्भिरथसंयुक्तं कामतो कामतोपि वा ॥ १२-३० ॥
न गाग्रे पञ्चब्रह्माणि जपित्वा वत्सरत्रयम् ।
मन्दिरे शिवहर्म्ये वा वने वापि विचक्षणः ॥ १२-३१ ॥
जले लक्षन्तथा कामि स्नात्वा तु दिवसं प्रति ।
विशेषपातकञ्चोक्तं सामान्यं श्रुणु सुवृत ॥ १२-३२ ॥
मृगजाति कृते हिंसां सद्यमन्त्रं शतं जपेत् ।
पशुजातेश्च हिंसायां प्रागुक्त वृतमाचरेत् ॥ १२-३३ ॥ प्. २८९)
पक्षिजातौ वेद्धिं सा घोरमन्त्रं शतं जपेत् ।
सरीस्रपादि हिंसाचेत् पुरुषन्तु शतञ्जपेत् ॥ १२-३४ ॥
स्थावराणि च हिंसायामीशमन्त्रं शतं जपेत् ।
गुरोस्तु वेतनार्थञ्च हिंसायान्तु न दोषभाक् ॥ १२-३५ ॥
सामान्य पातकं प्रोक्तं सामान्यसेयकं श्रुणु ।
मृद्दारुशैललोहाञ्च कामतोकामतो भवेत् ॥ १२-३६ ॥
ईशमन्त्रं शतं जप्त्वा लक्षं कामेन वै बुधः ।
स्तेयं समासतः प्रोक्तं सूतकञ्च ततः श्रुणु ॥ १२-३७ ॥
ग्रहस्थोग्रहिणी योगात् सूतकं प्रेतकं द्विधा ।
दशाहाच्छुद्धिविप्रस्य द्वादशाहात् नृपस्य तु ॥ १२-३८ ॥
वैश्यस्य पक्षतः शुद्धिर्मासं शूद्रस्य चोच्यते ।
सम्यक् ज्ञानी स्वधर्मस्थो न त्यजेत् ज्ञातिनं ततः ॥ १२-३९ ॥
शुद्ध्यते तत्क्षणात् ज्ञानी अज्ञानी चोक्तभाक् भवेत् ।
अन्यथा कुलहानिः स्यात् प्रायश्चित्ते कृते सति ॥ १२-४० ॥
देवाग्नि गुरुपूजादि हीनेद्विगुणमाधिके ।
अघोरन्तु शतं जप्त्वा स्वधर्मपूरितस्तथा ॥ १२-४१ ॥
आशौचान्नन्ततो भुक्त्वा कृच्छ्रं तत्रैव कारयेत् ।
त्रिसन्धौ पायसादीनि भुक्तेतु प्रेतकेपि वा ॥ १२-४२ ॥
सूतके सूतके प्राप्ते प्राक्सुतांशेन शुद्ध्यति ।
सूतके सूतकं वापि प्रेतके प्रेतकं तु वा ॥ १२-४३ ॥
प्राप्ताशौचदिनं शुद्धं पूर्वाशौचाद्विनश्यति ।
निकृष्टजाति संयुकेमन्दिरे संस्थिते सदा ॥ १२-४४ ॥
सर्वान् भाण्डान् परित्यज्य कृच्छ्रशुद्धिर्विधीयते ।
कृच्छ्रञ्चैवाति कृच्छ्रञ्च तपकृच्छ्रन्तथैव च ॥ १२-४५ ॥
पराकञ्चान्द्रायणोद्दालन्तेषामाचरणं श्रुणु ।
दिवसत्रयमेकाशी अयाचितदिनत्रयम् ॥ १२-४६ ॥
दिनत्रयन्तु नक्ताशी निराहारदिनत्रयम् ।
एवं कृच्छ्रं समाख्यातमति कृच्छ्रं ततः श्रुणु ॥ १२-४७ ॥ प्. २९०)
पिबेत् क्षीरस्य कुडुपमेकविंशद्दिनान्तकम् ।
स्नानाद्ध्यायसमायुक्तमति कृच्छ्रमिति स्मृतम् ॥ १२-४८ ॥
त्र्यहमुष्णोदकं पीत्वा क्षीरञ्चैव त्र्यहं पिबेत् ।
त्र्यहमुष्णघृतं पीत्वा त्रयाहं वायुभक्षणम् ॥ १२-४९ ॥
तप्त कृच्छ्रं समाख्यातं पराकञ्च ततः श्रुणु ।
अनश्नन् द्वादशाहन्तु स्नानं कृत्वा त्रिसन्धिषु ॥ १२-५० ॥
पराकमिति विख्यातं सर्वद्रव्यस्य पूर्वकम् ।
मासार्धं ग्राहवृद्धिः स्यान्मासार्द्धं क्षयमेव च ॥ १२-५१ ॥
चांद्रायणमिति प्रोक्तमुद्दालकं ततः श्रुणु ।
आमीक्षकं पिबेत् पक्षमष्टरात्रं घृतं स्मृतम् ॥ १२-५२ ॥
अयाचितन्तु षड्रात्रं त्रिरात्रमुदकं बिबेत् ।
उपवासमहोरात्रमेवमुद्दालकं स्मृतम् ॥ १२-५३ ॥
*** कुसुमं प्रोक्तं अशनं ग्रासमात्रतः ।
एतेषु प्रायश्चित्तेषु स्नात्वा स्नात्वाशिवं जपेत् ॥ १२-५४ ॥
सहस्राष्टशतं वापि यथा शक्त्या जपेत् ततः ।
चतुर्विधा समाख्याता शिवश्वेता इमाः श्रुणु ॥ १२-५५ ॥
उदितोदितमुक्तश्च पादाधिक्यन्तमोदितः ।
अर्द्धाधिक्याधिकान्तञ्च द्विगुणास्तु समासतः ॥ १२-५६ ॥
अनुक्तमिहशास्त्रे तु शेषं सामान्यवच्चरेत् ।
प्रायश्चित्तमिदं प्रोक्तञ्चर्या पादे समासतः ॥ १२-५७ ॥
चर्यापादं समाप्तं स्याद्योगपादं ततः श्रुणु ।
इति प्रायश्चित्तविधिपटलोद्वादशः ॥ १२ ॥
इति सुप्रभेदे चर्यापादस्समाप्तः
No comments:
Post a Comment