Sunday, January 6, 2019

योगपादे-नाडी चक्रविधिपटलः,सुप्रभेदागमः

शिवमयम्
सुप्रभेद:
अथ योगपादे-नाडी चक्रविधिपटलः
अथातः संप्रवक्ष्यामि योगपादं समासतः ।  
तस्यपादस्य पूर्वे तु नाडीचक्रक्रमं श्रुणु ॥   १-१ ॥
द्विसप्तति सहस्राणि नाडयस्तु प्रकीर्तिताः ।  
नाडीभिर्व्यावृते देहे जीर्णाश्वत्थस्य पत्रवत् ॥   १-२ ॥
अशीतिश्च चतुश्चैव शतसाहस्रभेदकैः ।  
शरीरे क्रीडते देवाः स्वेच्छया परमेश्वरम् ॥   १-३ ॥
भूतग्रामैश्चतुर्भिश्च सर्वयोनि समुद्भवम् ।  
अण्डजं स्वेदजञ्चैव उत्बीजञ्च जरायुजम् ॥   १-४ ॥
अण्डजाताश्चये भावास्त्वण्डजास्ते प्रकीर्तिताः ।  
स्वेदजाताश्चये भावास्वेदजास्तु प्रकीर्तिताः ॥   १-५ ॥
भूमौ तु तोयबीजाभ्यां मुत्भिदाश्चेति कीर्तिताः ।  
इल्वयुक्ताश्चये जाताः कीर्तितास्ते जरायुजाः ॥   १-६ ॥
भूतग्रामैश्चतुर्भिश्च नराद्याषड्विधो भवेत् ।  
नरश्चैव मृगश्चैव पशुः पक्षीतथैव च ॥   १-७ ॥
सरीस्रपः स्थावरश्च षड्विधं योनिसंभवम् ।   
वाचा वदन्ति यद्वाण्या ते नरास्त्विति कीर्तिताः ॥   १-८ ॥
ऊर्ध्वपुच्छन्तु तद्वृद्धिं मृगं विद्याद्विनायक ।  
अधोदीर्घाश्च ये पुच्छाः पशुजातिरुदीरिता ॥   १-९ ॥
द्विपक्षाः पक्षिरित्याहु सरतीतिसरीस्रपः ।  
स्थापितं स्थावरं प्रोक्तं षड्विधं भूतमेव च ॥   १-१० ॥
अथ्यन्ते योनि भेदानि क्षेत्रं स्यात् भूमिकं श्रुणु ।  
पृथिव्यादीनि तत्वानि यत्र तिष्ठन्ति तल्लये ॥   १-११ ॥
लयस्थानं तदाख्यातं तत्वातीतं परात्परम् ।  
तस्माच्छिन्नं समुत्पन्न तस्माच्छक्तिरजायत ॥   १-१२ ॥ प्. २९२)
तस्मान्नादिं समुत्पन्नं तस्मात् बिन्दुसमुद्भवम् ।  
तस्मात् सदाशिवं प्रोक्तं सृष्ट्यर्थं पञ्चधा भवेत् ॥   १-१३ ॥
तस्मादात्मा समुत्पन्नं सहजं मलसंयुतम् ।  
क्षेत्रज्ञन्तं विजानीयाच्छक्तिस्थन्तु तथोच्यते ॥   १-१४ ॥
तस्मादुपरिवेशस्य शुद्धावस्थोनुकीर्तिताः ।  
शुभाशुभ वरप्राप्तौ तत्र गच्छन्ति जायते ॥   १-१५ ॥
मायाद्यवनिपर्यन्तं देहबद्धोत्र दृश्यते ।  
कर्मोदये तु जननं कर्मान्ते मरणं स्मृतम् ॥   १-१६ ॥
सुखदुःखनिमित्ताय शरीरग्रहणं कृतम् ।  
शरीरं द्विविधं प्रोक्तं पुंसत्व स्त्रीत्वमेव च ॥   १-१७ ॥
लिङ्गेन लांच्छितं पुंस्त्वं स्त्रीत्वं योन्याभिलांच्छितम् ।  
लिङ्गमीशमयं प्रोक्तं योनि श्शक्तिमयं स्मृतम् ॥   १-१८ ॥
तस्माद्वै शिवशक्तिस्तु सर्वमेतत् चराचरम् ।  
तच्छरीरं द्विधाप्रोक्तं स्थूलं वै सूक्ष्ममेव च ॥   १-१९ ॥
पृथिव्यापस्तथा तेजोवायुराकाशमेव च ।  
शुक्रं बीजां शमित्युक्तं क्षेत्रांशं श्रोणितं स्मृतम् ॥   १-२० ॥
अस्थि स्नायुश्चमज्जा च पित्रजंस्त्रयमेव तु ।  
त्वङ्मांसशोणितञ्चैव मातृजं त्रिकमेव च ॥   १-२१ ॥
इत्थं षट्कौशिकं प्रोक्तं शरीरान्तैस्तु जायते ।  
नखदन्तश्च रोमाणि केशाश्च नाडयस्तथा ॥   १-२२ ॥
शब्दस्पर्शश्च रूपश्च रसोगन्धश्च पञ्चधा ।  
एतैर्भूतगणैर्युक्तं स्थूलं शरीरकं भवेत् ॥   १-२३ ॥
शूक्ष्मस्य गोलकां विद्धि तच्छुभाशुभसाधनम् ।  
जननमरणञ्चैव कर्मणा जायते ततः ॥   १-२४ ॥
एवं स्थूलशरीरञ्च संक्षेपाद्वर्णितं मया ।  
श्रोत्रं त्वक्चक्षुजिह्वा च घ्राणं बुद्धीन्द्रियं विदुः ॥   १-२५ ॥
वाक्पादपाणि पायुश्चोपस्थं कर्मेन्द्रियं स्मृतम् ।  
प्राणस्समानोदानश्च अपानोव्यान एव च ॥   १-२६ ॥
नागः कूर्मश्चक्रकरो देवदत्तोधनञ्जयः ।  
मनोबुद्धिरहंकारश्चित्तोन्तः करणं स्मृतम् ॥   १-२७ ॥ प्. २९३)
मदमात्सर्यमानादि सूक्ष्मशारीरकं भवेत् ।  
इदं शरीरं लिङ्गं हि तयोर्जन्म ततः श्रुणु ॥   १-२८ ॥
शुक्लं रक्तेन संभाव्य जनन्याश्चोदरे स्थितम् ।  
कर्मादौ सकलं ग्राह्यं प्राप्यते सुषिराशयम् ॥   १-२९ ॥
क्षेत्रांशैश्चैव बीजांशै श्शरीरव्याव्रतोगतः ।  
रक्ताधिक्क्यात् स्त्रीप्रजा च शुक्लाधिक्यात् पुमान् भवेत् ॥   १-३० ॥
यदिशुक्लसमंरक्तं जायते तु नपुंसकम् ।  
भजने तु यथा बिदुर्वद्धते तु शनै श्शनैः ॥   १-३१ ॥
पुन्नागमुकुलाकारं गर्भाशयगतं तथा ।  
मरणादीनि कर्माणि निमित्तानि वरेण तु ॥   १-३२ ॥
आयुष्यं विभवं कर्मविद्या च निधनं सुखम् ।  
षट्कं संप्राप्य तत्रैव ततो गर्भाशयं विशन् ॥   १-३३ ॥
गुणाश्चैव त्रिदोषाश्च जन्तूनान्तत्र संभवाः ।  
सत्वं रजस्तमश्चैव गुणत्रयमिहोच्यते ॥   १-३४ ॥
सत्यं ज्ञानं तपोमौनं स्मृतिर्मेधाधृतिः क्षमा ।  
उत्साहो निश्चयन्धैर्यमेवं वै सात्विकं गुणम् ॥   १-३५ ॥
दर्पं महदहंकारं विषादं प्रियवाचकम् ।  
उद्योगंमात्सरं प्रोक्तं रजसंगुणमुच्यते ॥   १-३६ ॥
आलस्यं मोहनिद्राश्च चापलं ही नवृत्तिकम् ।  
पापिष्ठं परनिन्दा च तामसं गुणलक्षणम् ॥   १-३७ ॥
गुणानान्तु समावस्था मूलप्रकृतिरुच्यते ।  
संक्षेपात् त्रिगुणं प्रोक्तं त्रिदोषांश्च श्रुणुष्वमत् ॥   १-३८ ॥
वातं पित्तंकफञ्चैव रोगाणामधिपा स्मृताः ।  
सर्वजन्तुषु सामान्यं समंवाधिकमेव च ॥   १-३९ ॥
एवमादीनि चान्यानि संविशेत् सुषिराशयम् ।  
गर्भाशयगते काले वायुनाभिद्यते यथा ॥   १-४० ॥
तदा रूपद्वयङ्गत्वा वर्धते तु शनै श्शनैः ।  
पञ्चाहे तु दशाहे तु पद्मपत्रस्थतोयवत् ॥   १-४१ ॥
मासान्ते चाक्षफलवद् विमासां मृफलाकृतिः ।  
त्रिमासेऽष्टाङ्गुलं दीर्घञ्चतुर्मासे शिरोभवेत् ॥   १-४२ ॥ प्. २९४)
हस्तौ चैव तु पादौ च पञ्चमासे प्रकीर्तितम् ।  
नखाङ्गुल सपादौ च गुल्भौ च नलकौ तथा ॥   १-४३ ॥
जंघेजानु तथा चोरुकटिस्फिक् जघनं तथा ।  
स्तनपार्श्वोदरारभ्य कक्षौ वक्षाभुजावुभौ ॥   १-४४ ॥
पादयोर्हस्तयोरेखा ह्यंगुष्ठे नखपर्वगाः ।  
गलः कर्णौ च जिह्वा च ओष्ठौ दन्ताश्च नासिका ॥   १-४५ ॥
नयनं भ्रूललाटश्च शिरः केशादयस्तथा ।  
एतान्यङ्गानि सर्वाणि जायते षष्ठमासिके ॥   १-४६ ॥
सप्तमासेन्न पानौ च नाभिनालेन भुज्यते ।  
प्रसूयते वा तन्मासे वायुना न प्रसूयते ॥   १-४७ ॥
अष्टमासे समुत्थाय वीणादण्डं समाश्रितम् ।  
संप्राप्याष्टगुणैश्वर्य मणिमादिकमत्र वै ॥   १-४८ ॥
त्रिकालन्तु विजानाति ज्ञानात् सर्वं प्रकाशते ।  
जायते चाष्टमे मासे जातश्चोत्तमजीवती ॥   १-४९ ॥
जायते नवमे मासे दशमासे तु वा पुनः ।  
ततस्त्वेकादशे मासे मायया प्रेरितो जनः ॥   १-५० ॥
बोद्धव्यं शक्तिना काचित् श्रमदाहक्षुधादिकान् ।  
एवमादीनि वर्द्धन्ते क्रमेणैव शनै श्शनैः ॥   १-५१ ॥
तत्र भूत्वान्न वीर्येण वर्धन्ते सप्तधातवः ।  
अन्नद्रवसमुत्पन्न रसाद्वै श्रोणितं स्मृतम् ॥   १-५२ ॥
श्रोणितान्मांसमुत्पन्नं मांसान्मेदस्समुत्भवम् ।  
मेदसोस्थि समुत्पन्नं तस्मात् मज्जातु संभवम् ॥   १-५३ ॥
मज्जाशुक्लं समुत्पन्नमित्येते सप्तधातवः ।  
शरीरन्धातुभिः प्राप्तं धातुभिः शब्दराशयः ॥   १-५४ ॥
शब्दादिविषयं ज्ञानं द्विमासोपरिपूर्णके ।  
पञ्चविंशति तत्त्वानि वक्ष्यते तु समासतः ॥   १-५५ ॥
भूतानि भूतमात्राणि ततो बुद्धिन्द्रियाणि च ।  
कर्मेन्द्रियाणि विघ्नेश तथान्तः करणानि च ॥   १-५६ ॥
अव्यक्तेन समायुक्तं पञ्चविंशदुदाहृतम् ।  
पृथिव्यादीनि तत्वानि प्राप्यते त्वखिलान्तनुम् ॥   १-५७ ॥ प्. २९५)
पृथिव्यापस्तथा तेजोवायुराकाश एव च ।  
महाभूतानि चोक्तानि तेषां भेदं श्रुणुष्वहि ॥   १-५८ ॥
यत् कठिनं तत्पृथिवी यद्रव्यं ह्याप उच्यते ।  
यदुष्णञ्चेत्ततो वह्निर्वायुस्सञ्चरति त्विह ॥   १-५९ ॥
अवकाशं यदा काशं महाभूतगणास्विमे ।  
अस्थित्वक्मांसकेशाश्च नाडयस्त्विह कीर्तिताः ॥   १-६० ॥
पृथिव्यं शास्तथा ज्ञेयास्त्वाप्यंशाश्च ततः श्रुणु ।  
कफः शोणितमूत्राणि मज्जाशुक्लन्तथैव च ॥   १-६१ ॥
द्रव्यांशकमिति ज्ञेयं सर्वप्राणि च संस्थितम् ।  
क्षुधानिद्रा च कृष्णा च आलस्यं मैधुनं तथा ॥   १-६२ ॥
एते पञ्चगुणा प्रोक्ता तेजोंशा इति संस्थिताः ।  
आस्ते शेते च गमनं प्रसाराणि निरोधनम् ॥   १-६३ ॥
एते पञ्चगुणा प्रोक्ता वाय्वंशा सुप्रकीर्तिताः ।  
कामक्रोधञ्च लोभञ्च भयोमोहसथैव च ॥   १-६४ ॥
पञ्चैतेनुगुणा प्रोक्ता व्योमांशास्तु प्रकीर्तिताः ।  
प्रोक्तं भूतगुणञ्चैवं गुणन्तेषान्तु वक्ष्यते ॥   १-६५ ॥
शब्दस्पर्शञ्चरुपञ्च रसंगन्धञ्च पञ्चधा ।  
आकाशस्य गुणं शब्दं वायोस्तु स्पर्शनं गुणम् ॥   १-६६ ॥
तेजसस्तु गुणं रूपं रसमापगुणं स्मृतम् ।  
पृथिव्यास्तु गुणं गन्धं भूमिकादीनि विन्यसेत् ॥   १-६७ ॥
विषयं त्विति विख्यातं भूतानाङ्गुणमुच्यते ।  
शब्दादिविषयं पुण्यं भूमौ तु विनिवर्द्धते ॥   १-६८ ॥
चतुर्गुणाः प्रवर्धन्ते त्रिगुणस्त्वथ वह्निके ।  
वायोश्च द्विगुणं प्रोक्तमाकाशस्यैकमेव तु ॥   १-६९ ॥
विषयाणि तथोक्तानि बुद्धिन्द्रियाणि ततः श्रुणु ।  
श्रोत्रत्वक्चक्षुजिह्वा च घ्राणं बुद्धिन्द्रियाणि च ॥   १-७० ॥
शब्दादिविषयाणाञ्च साधनन्ते प्रकीर्तितम् ।  
बुद्धीन्द्रियाणामेतेषां देवभूतात्मकं श्रुणु ॥   १-७१ ॥ प्. २९६)
श्रोत्रमध्यात्ममित्युक्तं श्रोतव्यमधि भूतता ।  
शिवहस्ताधि दैवन्तु त्वगेवाध्यात्मकं विदुः ॥   १-७२ ॥
स्पर्शनञ्चाधिभूतः स्याद् वायुस्तत्राधिदैवतम् ।  
चक्षुरध्यात्ममित्युक्तं द्रष्टव्यमधिभूतता ॥   १-७३ ॥
सूर्यस्तत्राधिदैवत्य जिह्वाचाध्यात्मकं विदुः ।  
रसज्ञात्वधिभूतन्तु वरुणश्चाधिदेवता ॥   १-७४ ॥
घ्राणमध्यात्ममित्युक्तं घ्रातव्यमधि भूतता ।  
बृहस्पत्यधिदैवञ्च प्रात श्शक्तिरिति स्मृतम् ॥   १-७५ ॥
बुद्धीन्द्रियाणि चोक्तानि श्रुणु कर्मेन्द्रियाणि च ।  
वागध्यात्मकमित्युक्तं वक्तव्यमधि भूतता ॥   १-७६ ॥
सरस्वत्यधिदैवत्यं वाणिरध्यात्मकं ततः ।  
दातव्यमधिभूतश्च शक्रस्तत्राधिदेवता ॥   १-७७ ॥
पादमध्यात्मकं प्रोक्तं गमनञ्चाधि भूतता ।  
शक्राधिदैवतं प्रोक्तं वायुरध्यात्मकं विदुः ॥   १-७८ ॥
***  अधिभूतः स्यात् मित्रस्तत्राधिदैवतं ।
उपस्थोध्यात्ममित्युक्तमानन्दमधिभूतता ॥   १-७९ ॥
प्राजापत्याधिदैवत्यं क्रियाशक्तिरिति स्मृता ।  
कर्मेन्द्रियाणि चोक्तानि ततोन्तः करणं श्रुणु ॥   १-८० ॥
मनोहङ्कारबुद्धि च चित्तोन्तः करणं विदुः ।  
मनोध्यात्ममिति प्रोक्तमन्तव्यमधिभूतता ॥   १-८१ ॥
सोमाधि दैवमित्युक्तोZ हङ्कारोध्यात्मकं विदुः ।  
अधिभूतमहंकारं रुद्रमूर्त्यधिदैवतम् ॥   १-८२ ॥
बुद्धिरध्यात्ममित्युक्तं बोद्धव्यमधिभूतता ।  
क्षेत्रज्ञस्याधिदैवं स्याच्चित्तमध्यात्मकं स्मृतम् ॥   १-८३ ॥
चैतन्यमधिभूतं हि ईश्वरश्चाधिदैवतम् ।  
मन्यते तंमनो ज्ञात्वा अहङ्कारमहंकृतम् ॥   १-८४ ॥
बोद्ध्यत्वात् बुद्धिरेवं हि चिन्तत्वाच्चित्तमुच्यते ।  
मनश्च द्विविधं प्रोक्तं चलाचलमिति स्मृतम् ॥   १-८५ ॥ प्. २९७)
अहङ्कारं त्रिधाज्ञेयं भूतवैकारि तेजसम् ।  
वक्ष्यते तु समासेन भूतसारसमुद्भवम् ॥   १-८६ ॥
शब्दतन्मात्रमादौ तु गन्धतनात्रमर्थके ।  
एतानि पञ्चमात्राणि भूतानां सृष्टिरुच्यते ॥   १-८७ ॥
स्यात्तैजस अहंकारे इन्द्रियाणि समुद्भवम् ।  
वैकारिकमहङ्कारे इन्द्रियाणि समुद्भवम् ॥   १-८८ ॥
वैकारिकमहंकारे अधिदेवाः समुद्भवम् ।  
बुद्धिरष्टविधा ज्ञेया धर्माधर्मादिरष्टधा ॥   १-८९ ॥
चित्तमेक विधं ज्ञेयं तच्चान्तः करणं विदुः ।  
चतुर्भिरन्तः करणैश्चतुर्विंशतिरुच्यते ॥   १-९० ॥
उपादानन्तु तेषां वै चाव्यकमिति निन्दितम् ।  
अव्यक्तस्य तु धर्मः स्यात् त्रिगुणं संप्रकीर्तितम् ॥   १-९१ ॥
तामसं राजसञ्चैव सात्विकञ्च तृतीयकम् ।  
तामसेयान्ति नरकं राजसे स्वर्गमुच्यते ॥   १-९२ ॥
सात्विके मोक्षमित्युक्तं तस्मात् सात्विकमुच्यते ।  
सात्विके सर्वकर्माणि एक चित्तस्तु सात्विकम् ॥   १-९३ ॥
तस्मात् सर्वप्रयत्नेन सात्विकङ्गुणमाश्रये ।  
पञ्चविंशति तत्वानि समासात् कीर्तितानि तु ॥   १-९४ ॥
तेभ्य एकादशं तत्वं समासात् च्छृणु सांप्रतम् ।  
पुंरागोनियती विद्याकलाकलस्तथैव च ॥   १-९५ ॥
शुद्धविद्याशुद्धकला शुद्धमायान्तथैव च ।  
आत्मतत्वञ्च विद्याञ्च शिवतत्वमतः परम् ॥   १-९६ ॥
एकादशानि तत्वानि शरीरे संस्थितानि तु ।  
कञ्चुकत्रयमाविश्य शनैः कालेन वित्तमः ॥   १-९७ ॥
आलिंग्यते नियतिना आत्मवद्भाववर्तकः ।  
प्रकृतिः पौरुषं यस्मान् तस्मात् पुरुष उच्यते ॥   १-९८ ॥
बालार्कशतसाहस्र भागैकं तत्र चिद्विदुः ।  
सञ्जिव इति विख्यातः संसारी चेति चोच्यते ॥   १-९९ ॥
प्रधानादि विशेषान्तं व्यापं वै परिशक्तिना ।  
कलाशक्तिरितिख्याता चानमु?क्तैस्तु कारणा ॥   १-१०० ॥ प्. २९८)
धर्माधर्माधिसंबन्धा दाणवं सहजं स्मृतम् ।  
इत्येवमादि संबन्धाच्छरिरेषु व्यवस्थिताः ॥   १-१०१ ॥
संबन्धास्तस्य जीवस्य दुःखत्रयमिहोच्यते ।  
आध्यात्ममधिभूतञ्च अधिदैविकमेव च ॥   १-१०२ ॥
त्रिविधं दुःखमाप्नोति तेषामाध्यात्मकं श्रुणु ।  
आध्यात्मकं द्विधाप्रोक्ता शरीरं मानसं तथा ॥   १-१०३ ॥
गुल्मारशोति सारञ्च ज्वरशूलाद्यनेकधा ।  
नरमृगपिशाचैश्च गोपक्षीचोरराक्षसैः ॥   १-१०४ ॥
प्रोक्तं शरीरकं दुःखं मानसं श्रुणु सुव्रत ।  
शोकासूयावमानेर्ष्या मासाध्यादिभिरेव च ॥   १-१०५ ॥
एवं मानसमाख्यातमाधिभौतिकमुच्यते ।  
शीतोष्णवातवर्षैश्च विद्युदाशनिमारुते ॥   १-१०६ ॥
एतैर्भूतैस्तु जन्दुःखमाधिदैविकमुच्यते ।  
गर्भजन्मजरा ज्ञानमृत्युर्नरकजं तथा ॥   १-१०७ ॥
प्रोक्तं दुःखत्रयं ह्येवमेषु स्थानेषु भूज्यते ।  
ततोदराग्निना गर्भे मातृशीलेन बाध्यते ॥   १-१०८ ॥
गर्भात् कोटिगुणं दुःखं योनि यंत्रे प्रपिडनम् ।  
एवमादीनिदुःखानि शरीरीभुज्यते क्रमात् ॥   १-१०९ ॥
जाग्रत् स्वप्नं सुषुप्तिश्च तुर्यावस्था ततः श्रुणु ।  
इन्द्रियाणि गताबुद्धिः कृत्वा कर्माण्य शेषतः ॥   १-११० ॥
करणी यानि सर्वाणि दृश्यन्ते जाग्रदेव तु ।  
करणानि चेंद्रियाणि बध्वा वैवाश्रयं भवेत् ॥   १-१११ ॥
निद्रामाश्रयते बुद्धिर्मन्यते पूर्वकर्मकम् ।  
एवं स्वप्नं विजानीयात् सुषिप्तिञ्च ततः श्रुणु ॥   १-११२ ॥
करणानि गृहीत्वा तु बुद्धिश्चैतन्यमागता ।  
तदाश्रये तु काले तु कर्माण्य प्रतिबुद्ध्यति ॥   १-११३ ॥
सुषिप्तिरिति विख्याता तुरीयं करणं विना ।  
जाग्रोमुखगतो जीवस्वप्ने कर्णं समाश्रितः ॥   १-११४ ॥ प्. २९९)
सुषुप्तौ हृदमाश्रित्य तुर्ये सर्वगत स्मृतः ।  
एवं व्यवस्थितो देहे नाडयश्च तत श्रुणु ॥   १-११५ ॥
नाभिमूलन्तु हृन्नाल नाडयश्चक्रवत् तथा ।  
तिर्यगूर्ध्वमधश्चैव व्याप्तितातैस्तु सर्वतः ॥   १-११६ ॥
चक्रवत्संस्थिता ह्येताः प्रधानश्चाष्टविंशतिः ।  
तेषु प्रधानभूतास्तु इडादिदशनाडयः ॥   १-११७ ॥
इडयाविमाशोषा पृथिवी आपनी तथा ।  
तेजोवती वायुवी च गमनीमर्दनी तथा ॥   १-११८ ॥
रोदनीरक्तवागि च मृद्वंगी श्रिंगिणी तथा ।  
शब्दा स्पर्शा च पूर्णा च सद्रूपारसधारिणी ॥   १-११९ ॥
सर्वाङ्गेषु स्थिता ह्येता प्रधानाश्चाष्ट विंशतिः ।  
तासुनाडीषु चान्तस्थाः प्राणादि दशवायवः ॥   १-१२० ॥
प्राणापानस्तथाव्यान उदानश्च समानकः ।  
नागकूर्माश्चक्रकरो देवदत्तोधनञ्जयः ॥   १-१२१ ॥
दशप्राणा इति प्रोक्ता वायवः समुदहृताः ।  
वायूनान्तु नवानाञ्च प्रभुः प्राणप्रकीर्तिताः ॥   १-१२२ ॥
निश्वासोछ्वासकासैश्च प्राणीनामुदरे स्थिताः ।  
इन्द्र निलप्रतिकाशप्राणरूपसुकीर्तिताः ॥   १-१२३ ॥
नादसंयुक्त जीवान्त जीवमाश्रित्य नित्यशः ।  
स्थान हृन्नाभिनासाग्रं पादाङ्गुष्ठान्तमाश्रितः ॥   १-१२४ ॥
अपान पृष्ठमाश्रित्य वामदक्षिणनिर्गमम् ।  
प्राणस्य लक्षणं प्रोक्तमपानञ्च ततः श्रुणु ॥   १-१२५ ॥
अपानो जीवमाश्रित्य तद्वर्णञ्चैंद्रकोपवत् ।  
स्थानन्तु मेढ्रमुले तु गुदमूलन्तु निर्गमम् ॥   १-१२६ ॥
नाभेरधस्तात् स्थानन्तु मेढ्रमूले तु निर्गमम् ।  
पुरीषोत् सर्गमात्रादि प्राणापानाश्च निर्गमम् ॥   १-१२७ ॥
प्राणापानोपहे नित्यं शरीराख्यं महारथम् ।  
दीपान्तस्थ प्रभुः प्राणोरक्षाङ्कृत्वा महामनुम् ॥   १-१२८ ॥ प्. ३००)
व्यानं सकलमाश्रित्य स्पर्शादीनी प्रबोधकः ।  
गोक्षीरसमवर्णं स्यात् स्थानं सर्वाङ्गसन्धिषु ॥   १-१२९ ॥
उदानच्छक्तिरोगाणामुद्भवन्तत्र कारयेत् ।  
विद्युत्पावक सङ्काशान्तस्य वर्णं प्रकीर्तितम् ॥   १-१३० ॥
स्थानं पार्श्वौ च कर्णौ च चक्षुषोर्घ्राणयोस्तथा ।  
समान वायोर्वर्णन्तु अतसी कुसुमप्रभम् ॥   १-१३१ ॥
स्कन्धे मूर्धनि जिह्वाश्च जंघयोर्गुल्भयोस्तथा ।  
अन्नपानरसन्नित्वा चा पादतलमस्तकम् ॥   १-१३२ ॥
अशेषानन्नपानादीन्वैश्विनराग्नि संयुतम् ।  
तत्रा शयाख्य कुण्डे तु हुतं तत्रैव कारयेत् ॥   १-१३३ ॥
तत्र नागसुवर्णन्तु मार्ताण्डोदय सन्निभम् ।  
हित्काञ्चरोमहर्षादिन् गेयभक्तिञ्च कारयेत् ॥   १-१३४ ॥
उदयञ्च ललाटञ्च स्थानन्नासादि चासनम् ।  
कुन्दपुष्पसमाकारं कूर्मवायोः प्रकीर्तितम् ॥   १-१३५ ॥
नेत्रपक्षौ तु संप्राप्य निमीलोन्मीलनङ्कुरु ।  
कृकरस्य तु वर्णं स्यात् भिन्नाञ्जनसमप्रभम् ॥   १-१३६ ॥
क्षुधादिकुरुते नित्यं नासाग्रे तु व्यवस्थितम् ।  
देवदत्तस्य वर्णं स्यात् शुद्धस्फटिक सप्रभम् ॥   १-१३७ ॥
मुखं पृष्ठञ्च पादञ्च पार्श्वञ्चैव विशेषतः ।  
उत्थाप्यशयनासीनं विज्रंभणमतः परम् ॥   १-१३८ ॥
धनञ्जयस्य वर्णस्यां नीलाञ्जनसमप्रभम् ।  
धनञ्जयस्थितो देहममृतस्यापिमुञ्चति ॥   १-१३९ ॥
पश्चात् तु ब्राह्मणं कृत्वा शरीरं भिद्यते गतः ।  
इत्येते दशवायूनां प्राणादीनां प्रचक्षते ॥   १-१४० ॥
इडादिनाडयस्तत्र शरीरेव्या प्रतस्तथा ।  
नाडीमध्ये ततो वायुस्सञ्चरेत् क्रमशस्तथा ॥   १-१४१ ॥
कुण्डल्याख्या महानाडी नाभिमध्ये प्रकीर्तिताः ।  
अष्टवर्तुलमेवन्तु कुण्डलीनाडिसुप्तवत् ॥   १-१४२ ॥
नाभेरूर्ध्वं भवेत् पद्मं तटाकाब्जं तु पुष्पवत् ।  
तस्य मध्ये स्थितो जीवः सूर्यकोटिसमप्रभः ॥   १-१४३ ॥ प्. ३०१)
तस्यान्तस्थं समाख्यातं सूर्यसोमाग्निकुण्डलम् ।  
तेषां मध्ये स्थितो देवः सूर्यायुतसमप्रभम् ॥   १-१४४ ॥
वामपार्श्वे इडानाडी पिंगलादक्षनाडिका ।  
सुषुम्ना मध्यमे चैव यावदङ्गुष्ठकान्तका ॥   १-१४५ ॥
गान्धारी दक्षिणे नेत्रे हस्ति जिह्वा च वामके ।  
पूषा वै दक्षिणे कर्णे वामकर्णे यशस्विनी ॥   १-१४६ ॥
अलंपुष्पन्तु मेडुन्तु कुहूश्चैव गुदे स्थिता ।  
शखिनी नासिमध्ये तु दशनाडी ह्यवस्थिता ॥   १-१४७ ॥
अशेषानाडयस्सर्वाश्चक्रवद् व्यावृतस्तनुम् ।  
चक्रवद् वा वृतोयस्मान् नाडीचक्रमिहोच्यते ॥   १-१४८ ॥
नाडीचक्रमिदं प्रोक्तं कालचक्रमथ श्रुणु ॥  
इति नाडीचक्रविधिपटलः प्रथमः ॥   १ ॥

No comments:

Post a Comment