शिवमयम्
सुप्रभेदम्
अथ ज्ञानपादे-शिवसृष्टिविधिपटलः ।
अथातः संप्रवक्ष्यामि ज्ञानपादं समासतः ।
तस्यादौ शिवसृष्टिञ्च श्रुणुष्वेकाग्रमानसः ॥ १-१ ॥
ज्ञानं प्रवर्तते वत्सभ्रान्ति निर्नाशनाय च ।
अध्वाश्रेणि विनाशाय शिवव्यक्तिकराय च ॥ १-२ ॥
अन्धकारवद ज्ञानं ज्ञानं दीपवदुच्यते ।
ज्ञेयं भास्करवत् प्रोक्तं पश्चात् ज्ञानं विनश्यति ॥ १-३ ॥
पाशजालानि विच्छेद्य तीष्णादिज्ञानमुच्यते ।
पशुपाशपतित्वञ्च ज्ञानेनाश्रयते बुधः ॥ १-४ ॥
ज्ञाने नैव तु कैवल्य प्राप्तिस्तत्र न संशयः ।
शिवाद्यवनिपर्यन्तं लक्षणं श्रुणु सांप्रतम् ॥ १-५ ॥
योगिनामुपकाराय मोक्षार्थं भुक्तये तथा ।
सृष्ट्यर्थं सर्वजन्तूनां तदा सृष्टिद्वयं स्मृतम् ॥ १-६ ॥
शिवसृष्टिस्तथा पूर्वापशु सृष्टिर्द्वितीयका ।
शुद्धदेव समायुक्ता शिवसृष्टिरुदीरिता ॥ १-७ ॥
मलैरावृत्य शुद्धात्मा पशुसृष्टिः प्रकीर्तिता ।
चराचरादि भेदैस्तु क्रीडते परमेश्वरम् ॥ १-८ ॥
शिवसृष्टिं समासेन श्रुणु सर्वान् गजानन ।
शिवं परात्परं ब्रह्मवत्? प्रमेयमिति स्मृतम् ॥ १-९ ॥
मलत्वां निन्दितं ज्ञेयममलत्वादनिन्दितम् ।
अनौपम्य समादृश्यं दक्षिणत्वं यथाव्ययम् ॥ १-१० ॥
व्योमातीतात् परं सूक्ष्मं नित्यङ्कारण शून्यतः ।
व्यापीत्वात् सर्वगं प्रोक्तं स्वामिभावात् प्रभुसृतम् ॥ १-११ ॥ प्. ३१६)
वाङ्मनोव्यतिरिक्तत्वात् प्रमाणातीतगोचरम् ।
प्रत्यक्षादिप्रमाणानि श्रुणुवत्स समाहितः ॥ १-१२ ॥
प्रत्यक्षमनुमानञ्च शब्दञ्चोपमयासह ।
अर्त्था पत्तिरभावश्च षट्प्रमाणमिति स्मृतम् ॥ १-१३ ॥
अक्षादिकरणैर्दृश्यं प्रत्यक्षन्तदिहोच्यते ।
लिङ्गालिङ्गादि विज्ञानमनुमानमिति स्मृतम् ॥ १-१४ ॥
आप्तोक्तिवचनैर्गम्यं शब्दमेवमुदाहृतम् ।
तत्सादृश्याद् यथा गम्या ह्युपमाचेति कीर्तिता ॥ १-१५ ॥
दिवाभोजनमस्तीति रात्रौ नास्तीति गम्यते ।
अर्थेनैवार्थ विज्ञेया चार्थापत्तिरिति स्मृतम् ॥ १-१६ ॥
भ्रान्ति ज्ञाने ह्यभावे तु स्वयज्ञानन्तु गम्यते ।
भ्रान्त्या भावे स्वयं ज्ञानमभावमिति कीर्तितम् ॥ १-१७ ॥
एवमादिप्रमाणैस्तु दुर्लक्ष्यन्तच्छिवं स्मृतम् ।
शिवतत्वमिदं प्रोक्तं तत्वा नामखिलात्मनाम् ॥ १-१८ ॥
सृष्ट्यर्थं लोकरक्षार्थं लोकस्योत् पत्तिकारणम् ।
साधकानां हितार्थाय स्वेच्छया ग्रह्णते तनुम् ॥ १-१९ ॥
तच्छरीरं त्रिधाज्ञेयं निष्कलं सकलनिष्कलम् ।
सकलञ्च तथा ज्ञेयं त्रिविधन्तु विशेषतः ॥ १-२० ॥
निष्कलन्तु चतुर्भेदं सकलञ्च तथा भवेत् ।
सकलं निष्कलञ्चैव नवधाकीर्तिताः क्रमात् ॥ १-२१ ॥
शिवतत्वात् सहस्रांशाच्छां निर्नाम्ना समुद्भवा ।
शान्तिश्चेति पराप्राहुस्तस्यापर्याय वाचकः ॥ १-२२ ॥
तस्माच्चैव सहस्रांशाच्छक्तिनामा समुत्भवा ।
शक्तिश्चैव तु विद्या च पर्यायस्तदुदाहृतः ॥ १-२३ ॥
तस्माच्चैव सहस्रांशान्नादमूर्ति समुद्भवः ।
नादस्तस्य प्रतिष्ठा च पर्यायस्त्विति कीर्तिताः ॥ १-२४ ॥
तस्माद् दशैकभागेन बिन्दुतत्व समुद्भवः ।
बिन्दुश्चैव निवृत्तिश्च पर्यायस्तस्य वाचकौ ॥ १-२५ ॥ प्. ३१७)
परं भावं समारभ्य सर्वज्ञत्वादिभिर्गुणैः ।
अव्यक्तानि च रूपाणि निर्ल्लक्ष्यानि क्रियास्तथा ॥ १-२६ ॥
चतुर्था निष्कलं ह्येवं शिवतत्वं समुच्यते ।
ध्यानपूजाविहीनस्तु निष्कलत्वं द्वितीयका ॥ १-२७ ॥
इत्येवं निष्कलं प्रोक्तं परं भावमिति स्मृतम् ।
तस्माद् दशैकभागेन सादाख्यं तत्वमुद्भवम् ॥ १-२८ ॥
लिङ्गपीठ प्रकारेण सादाख्यं तत्वलक्षणम् ।
लिङ्गेशंभुस्समुत्भूतो नाम्ना सदाशिवेन तु ॥ १-२९ ॥
पीठे शक्तिस्समुत्भूतो नाम्ना चैव मनोन्मनी ।
लिङ्गे च पीठिकायाञ्च शक्तिशंभू समुद्भवौ ॥ १-३० ॥
लिङ्गन्तु पुंस्त्वमेवं स्यात् तत्पीठं स्त्रीत्वमेव च ।
निष्कलौ लिङ्गपीठौ च सकलौ शक्तिशांभवौ ॥ १-३१ ॥
निष्कलन्तु कलाहीना सकला तु कलान्विता ।
यतीनाञ्चैव मंत्रीणां ज्ञानिनाञ्चैव योगिनाम् ॥ १-३२ ॥
ध्यानपूजानिमित्ताय सकलन्निष्कलं स्मृतम् ।
लिङ्गपीठं प्रकारेण देवेशं पूजयेत् सदा ॥ १-३३ ॥
अष्टत्रिंशत् कलायुक्तं सकलं त्वितिविद्यते ।
ईशादि सद्यपर्यन्तं कल्पयेत् तु सदाशिवम् ॥ १-३४ ॥
ईशानेन तु मन्त्रेण पञ्चमूर्ध्नि प्रकल्पयेत् ।
पुरुषेणैव मन्त्रेण चतुर्वक्त्रं प्रकल्पयेत् ॥ १-३५ ॥
अघोरेणैव मन्त्रेण हृदयादीनि विन्यसेत् ।
वामदेवेन मन्त्रेण गुह्यादीनि प्रकल्पयेत् ॥ १-३६ ॥
सद्योजातेन मन्त्रेण पादाद्यङ्गानि कल्पयेत् ।
अष्टत्रयोदशाष्टौ च चतुःपञ्च यथा क्रमम् ॥ १-३७ ॥
सद्यवाममघोरञ्च पुरुषे पकला स्मृताः ।
एवन्तु सकलं प्रोक्तं सकलं त्विति निश्चितम् ॥ १-३८ ॥
करपादावयवानि कल्पनात्सकलं विदुः ।
सादाख्य तत्व देवेशं प्रत्यक्षं सर्वतोमुखम् ॥ १-३९ ॥ प्. ३१८)
इच्छाशक्त्युद्भवं पद्मं सहस्रदलभूषितम् ।
कर्णिकाकेसरैर्युक्तं तत्रस्थं हि सदाशिवम् ॥ १-४० ॥
पञ्चमूर्धा चतुर्वक्त्रं नेत्रैर्द्वादशभिर्युतम् ।
चतुरास्यञ्चतुर्नासि अष्टश्रोत्रञ्चतुर्गलम् ॥ १-४१ ॥
दशभुजन्तनूरेकं द्विपादं पद्मसंस्थितम् ।
शुद्धस्फटिकसंकाशं सूर्यकोटिसमप्रभम् ॥ १-४२ ॥
चन्द्रांशु शीतलं सौम्यं सर्वाभरणभूषितम् ।
शुक्लांबरधरं देवं शुक्लयज्ञोपवीतिनम् ॥ १-४३ ॥
अभयं शूलपरशुं वज्रं खट्गन्तु दक्षिणे ।
खेटकांकुशपाशञ्च घण्टावरद वामके ॥ १-४४ ॥
इत्येतैर्लक्षणैर्युक्तं सदाशिवमिति स्मृतम् ।
तस्यैव वामपार्श्वे तु आदिशक्तिर्मनोन्मनी ॥ १-४५ ॥
वह्नेरुष्णत्व वच्छक्ति रविनाभाविनीविभोः ।
शक्तिहीने शिवोनास्ति शिवहीना न शक्तिका ॥ १-४६ ॥
एते समस्त देवाश्च शक्तिशंभु मया स्मृताः ।
तस्माच्छिवमयं प्रोक्तं जगदेतच्चराचरम् ॥ १-४७ ॥
एकवक्राञ्चतुर्हस्तां सर्वाभरणभूषिताम् ।
नितंबतट विस्तीर्णां मध्येक्षामांस्तनोन्नताम् ॥ १-४८ ॥
वामादिशक्तिकोपेतां मनोन्मनीं स लक्षणाम् ।
ध्यात्वा संपूजयेद् धीमान् जगत् प्रीतिकराय वै ॥ १-४९ ॥
ब्रह्माङ्गैश्चैव विद्याङ्गैर्विद्यैश्चैव गणेश्वरैः ।
लोकपालैस्सहस्रैश्च क्रमशस्ते समुद्भवाः ॥ १-५० ॥
तत्तत्गुणा वृतास्सर्वे तत्तच्चिन्ह समायुताः ।
सर्वावयवसंपूर्णास्त्वनन्तादित्य सप्रभाः ॥ १-५१ ॥
चतुर्भुजास्त्रिणेत्राश्च जटामकुटधारिणः ।
सदाशिवं नमस्कृत्वा तत्तदायुधधारिणः ॥ १-५२ ॥
नानावर्णसमायुक्ता नानाभरणभूषिताः ।
नानागन्ध समायुक्ता नानापुष्पोपशोभिताः ॥ १-५३ ॥ प्. ३१९)
सदा शिवं यदात्मन्तु तथा चावृत देवताः ।
आमूर्तञ्चेदमूर्तस्तु पूजांकुर्याद् विशेषतः ॥ १-५४ ॥
यदिलिङ्गस्तु कर्तव्यो गर्भगेहे पृथक् पृथक् ।
लिङ्गस्येव तथा पीठे मूर्तादीनि विचिन्तयेत् ॥ १-५५ ॥
सर्वावरण देवांश्च सकलानि ततः श्रुणु ।
मूर्तयश्चेश्वराद्यस्तु सकलञ्च प्रकीर्तितम् ॥ १-५६ ॥
यत्तत्सदाशिवं प्रोक्तं तद्वदीश्वरमुच्यते ।
यासां मनोन्मनीयद्वदीश्वरी तत्वमुच्यते ॥ १-५७ ॥
वक्त्राद्यावरणे चैव पूर्ववत् परिकल्पयेत् ।
काष्ठलोहशिला मृत्भिः प्रतिमास्तु प्रकल्पयेत् ॥ १-५८ ॥
विद्या तत्व स्थितं शंभुं सर्वालङ्कारसंयुतम् ।
लिङ्गस्य कौतुकं विद्यात् सकलं त्विति बुद्धिमान् ॥ १-५९ ॥
लिङ्गपूजावसाने तु ईश्वरं पूजयेत् क्रमात् ।
ईश्वरस्य सहस्रांशात् रुद्रस्योद्भवमुच्यते ॥ १-६० ॥
चतुर्भुजस्तिणेत्रस्तु चन्द्रार्धकृत शेखरः ।
विद्युत् पुञ्जनिभो देवो परशूमृगधारिकः ॥ १-६१ ॥
सर्वावयव संपूर्णस्सर्वाभरणभूषितः ।
उमादेव्युत्तरे पार्श्वे सर्वलक्षणसंयुता ॥ १-६२ ॥
ईश्वरस्य तु कोट्यंशात् विष्णुस्तत्रैव कीर्तितः ।
श्यामवर्णस्सरक्ताक्षः शङ्खचक्रधरोहरिः ॥ १-६३ ॥
पीतांबरधरो देव श्रीभूमिसहितस्तदा ।
ईश्वरस्य तु कोट्यंशात् ब्रह्मणस्तु समुद्भवः ॥ १-६४ ॥
चतुर्भुजश्चतुर्वक्त्रो जटामकुटधारकः ।
कमण्डल्वक्षमालाधृत् पीतवर्णः सुलोचनः ॥ १-६५ ॥
सावित्री सहितस्तत्र सृष्टिमूर्तिरिति स्मृतः ।
स्थितिमूर्तिस्तु विष्णुः स्याद्रुद्रः संहारकारकः ॥ १-६६ ॥
त्रिमूर्तयोथ विख्याता ब्रह्माण्डे संव्यवस्थितः ।
निष्कलन्तु लयस्थानमधिकारं स निष्कलम् ॥ १-६७ ॥ ३२०)
भोगस्सकलमेवं स्यात् लयभोगाधिकारपान् ।
परं निष्कलमित्युक्तं परमं सकलं स्मृतम् ॥ १-६८ ॥
परापरं तथा प्रोक्तं सकलन्निष्कलं भवेत् ।
परापरं यथा ज्ञात्वा समुक्तः पाशहा भवेत् ॥ १-६९ ॥
तिस्रस्तु देवताः पश्चात् त्रयस्त्रिंशत् समुद्भवाः ।
रुद्रैकादशपूर्वास्तु द्वादशादित्यसंयुताः ॥ १-७० ॥
वसवश्चाश्वनीयुक्तास्त्रयस्त्रिंशाधिदेवताः ।
सहस्र त्रिंशतत्रिंशद्देवतास्तत्र मूर्तिषु ॥ १-७१ ॥
शरीरभूतसारेण देवानान्तु स्रजन्ति वै ।
ऐश्वर्यमलसंबन्धाद्धृत् बोधस्तु विनाशयेत् ॥ १-७२ ॥
शिवसृष्टिमिदं प्रोक्तं पशुसृष्टिं ततः श्रुणु ।
इति शिवसृष्टिविधिपटलः प्रथमः ॥ १ ॥
No comments:
Post a Comment