Sunday, January 6, 2019

शूलस्थापनविधिपटलः,सुप्रभेदागमः

अथ शूलस्थापनविधिपटलः
अथातः संप्रवक्ष्यामि शूलस्थापनकं परम् ।  
सदाशिवस्य देवस्य चेतनांशूलमुच्यते ॥   ५१-१ ॥
सर्वदेवमयं शूलं लक्षणं श्रुणु सांप्रतम् ।  
प्रासाद तुङ्गकं वापि त्वथवास्तंभमानकम् ॥   ५१-२ ॥
पादात् पादाधिकं वापि पादार्धं पादमेव वा ।  
अधिकं व्योममित्युक्तं तद्विहीनं विशेषतः ॥   ५१-३ ॥
तदुत्सेधदशांशैकं पत्रविस्तारमुच्यते ।  
तदर्धं नालविस्तारं तच्चतुर्थं घनं स्मृतम् ॥   ५१-४ ॥ प्. २१९)
पार्श्वपत्रेद्वयोरग्रे चूतपत्राग्रवत् कृतम् ।  
पत्रतारं त्रिभागेन पत्राणान्तु घनं स्मृतम् ॥   ५१-५ ॥
घनस्यार्द्धांशमेवोक्तं पत्राणान्तु घनं भवेत् ।  
तदूर्ध्वन्तारद्विगुणं फलका चतुरश्रकम् ॥   ५१-६ ॥
तदष्टांशं घनं प्रोक्तं तस्याधः कुंभमिष्यते ।  
फलकाकार नाहार्धं कुंभ तुङ्गन्तदर्धकम् ॥   ५१-७ ॥
कुंभाधश्चोर्ध्वतश्चापि कर्णनाहं नवांशकम् ।  
कुंभनाहाष्टभागेन कर्णनाहमिति स्मृतम् ॥   ५१-८ ॥
कुंभार्धं तदधस्ताच्च तदर्धोदण्डपञ्जरम् ।  
दारुजञ्चेत् तु कर्तव्यं लोहजञ्चेत् परं विना ॥   ५१-९ ॥
फलकातारपञ्चांशं त्रिभागं दण्डनाहकम् ।  
मूलाधस्तासिकान्तं यत्तन्मानं पीठ तुङ्गकम् ॥   ५१-१० ॥
तदुत्सेधस्य पञ्चांशं त्रियंशंपीठविस्तरम् ।  
अब्जाकारञ्चतुरश्रं पीठाकारं तथा स्मृतम् ॥   ५१-११ ॥
अष्टांशं विभजी कृत्वा त्वैकांशेन तु कर्णिका ।  
चतुरंशं दलोत्तुङ्गं दलाग्रञ्चैकभागतः ॥   ५१-१२ ॥
पञ्चभागञ्चतुरश्रं भागादिपाद्य तुङ्गता ।  
पीठस्य घनमाख्यातं फलकायाघनार्धकम् ॥   ५१-१३ ॥
ततो दारुमयैर्दण्डैः पीठोर्ध्वे दण्डपञ्जरम् ।  
दारुदण्डस्य मध्ये तु योगपट्टेन तां दृढम् ॥   ५१-१४ ॥
शूलाग्रमुखसंज्ञाथ मध्यपत्रेब्जमालिखेत् ।  
एवं शूलास्त्रमापाद्य ततस्थापनमारभेत् ॥   ५१-१५ ॥
जलाधिवासनं स्नानं कृत्वा मण्डपसंस्कृतिम् ।  
वस्त्रैराच्छाद्य शूलन्तु स्थण्डिले शयनो परि ॥   ५१-१६ ॥
न्यस्त्वा शूलाधिपां देवानर्चयित्वा यथाक्रमम् ।  
कलशां विन्यसेत् तत्र शूलास्त्राधिपसंयुतान् ॥   ५१-१७ ॥
सकूर्चानस्त्रसंयुक्तान् तदा युधांश्च बैजिकान् ।  
तत्तदग्नौ हुतं हुत्वा तत्तन्मन्त्रैस्तु बुद्धिमान् ॥   ५१-१८ ॥ प्. २२०)
सुमुहूर्ते सुलग्ने तु तत्तन्मन्त्राणि संस्मरन् ।  
मध्यपत्राधिपो रुद्रो दक्षिणे तु पितामहः ॥   ५१-१९ ॥
वामपत्रे तथा विष्णु स्त्रिपत्राणां तु देवताः ।  
वामा ज्येष्ठा च रौद्री च शूलमूले तु देवताः ॥   ५१-२० ॥
फलका स्कन्ददैवत्यं कुंभे तु वरुण स्थिताः ।  
तदर्धञ्चाग्नि दैवत्यं दण्डैश्चैव सरस्वती ॥   ५१-२१ ॥
पीठे चैवमुमादेवी भूमिभागे वसुन्धरा ।  
स्थापयेत् क्रमशोविद्वान् गन्धपुष्पाक्षतान्वितम् ॥   ५१-२२ ॥
स्वनामाद्येन बीजेन कलशैरभिषेचयेत् ।  
अभ्यर्च्य हृदये नैव हविष्यन्तु निवेदयेत् ॥   ५१-२३ ॥
शूलसंस्थापनं प्रोक्तमस्त्रराजविधिं श्रुणु ।  
इति शूलस्थापनविधिपटल एकपञ्चाशत्तमः ॥   ५१ ॥

No comments:

Post a Comment