Sunday, January 6, 2019

अस्त्रराजविधिपटलः,सुप्रभेदागमः

अथ अस्त्रराजविधिपटलः
अथातः संप्रवक्ष्यामि अस्त्रराजस्य पूजनम् ।  
चतुर्भुजं त्रिणेत्रञ्च शिखाकूटसमुज्वलम् ॥   ५२-१ ॥
वामसव्ये च शूलन्तु वरदाभयहस्तकम् ।  
रौद्रपाशुपतं ह्येवं बलिबिंबन्तथोच्यते ॥   ५२-२ ॥
स्थानकञ्चासनं वापि प्रभावीं समन्वितम् ।  
कृत्वैवं प्रतिमां तत्र पूर्वोक्तेन प्रमाणतः ॥   ५२-३ ॥
जलस्थापनवत् सर्वं रत्नादिस्थापनान्तकम् ।  
तन्मन्त्रेणैव संस्थाप्य अन्यत् सर्वं समं भवेत् ॥   ५२-४ ॥
अस्त्रराजविधिः प्रोक्ता शास्त्रसंस्थापनं श्रुणु ।  
इति अस्त्रराजविधिपटल द्विपञ्चाशत्तमः

No comments:

Post a Comment