Sunday, January 6, 2019

करणाधिकारलक्षण पटलः

अथ करणाधिकारलक्षण पटलः
अथातः संप्रवक्ष्यामि करणानां तु लक्षणम् ।  
यागोपकरणं यस्मात् तस्मात् तत् करणं विदुः ॥   २२-१ ॥
दर्भाणां लक्षणञ्चैव पवित्राणां विशेषतः ।  
कूर्चानां दर्भमालाया विष्टराणाञ्च लक्षणम् ॥   २२-२ ॥
आज्यस्थाल्याश्चरुस्थाल्याः कलशानान्तु लक्षणम् ।  
हविः पात्रपिधानञ्च जलद्रोण्याश्च लक्षणम् ॥   २२-३ ॥
धूपघण्टाविकल्पञ्च स्थालिकायाश्च लक्षणम् ।  
प्रमाणं दीपदण्डानां यंत्रिकायाश्च लक्षणम् ॥   २२-४ ॥
बलिपात्र त्रिपादीनां दर्वीणां लक्षणं तथा ।  
वितान ध्वजवस्त्राणां पृच्छं न पटलक्षणम् ॥   २२-५ ॥
तथोष्णीषोत्तरीयाणां खट्गायाश्च सनस्य च ।  
रथस्य लक्षणञ्चैव शिबिकापर्यङ्कयोस्तथा ॥   २२-६ ॥
सिंहासनोपयानानां स्तंभाच्छादनरङ्गयोः ।  
पादुकादर्शनानान्तु व्यजनञ्चामरस्य च ॥   २२-७ ॥
सितात पत्र पत्राणां पिञ्छानाञ्चैव लक्षणम् ।  
मङ्गलानामधात्राणां तोरणद्वयलक्षणम् ॥   २२-८ ॥
सुवर्णपट्टपुष्पाणां गोलकायाश्च लक्षणम् ।  
मकुटानाङ्कुण्डलानां हारकेयूरयोश्च वै ॥   २२-९ ॥
कटकङ्कटिसूत्राणां नूपुरस्य च लक्षणम् ।  
जठरोपरिबन्धानां स्त्रीणां भूषणलक्षणम् ॥   २२-१० ॥
क्षुराणां कर्तरीणान्तु मार्जनस्य प्रमाणकम् ।  
एतेषां लक्षणं वक्ष्ये ह्यानुपूर्वात् गजानन ॥   २२-११ ॥
अशुष्कञ्छिन्नभिन्ना ग्राह्यदर्भा खण्डितास्तथा ।  
कोमला श्यामला स्निग्धा जीर्णाः शुभ्राः शुभावहाः ॥   २२-१२ ॥
मृदुश्यामाश्च स्त्रीलिङ्गाः पुल्लिङ्गाः कोमला स्थिराः ।  
अकोमला स्थिराश्चैव अनुग्राह्या नपुंसकाः ॥   २२-१३ ॥
दर्भाणां लक्षणं प्रोक्तं पवित्राणां ततः श्रुणु ।  
कुशादर्भाश्च गोवालाः पवित्रङ्कनकास्तथा ॥   २२-१४ ॥ प्. ९८)
सप्तपञ्च त्रियुक्तो वा ह्यग्रन्तु द्व्यङ्गुलं भवेत् ।  
द्व्यङ्गुलं तस्य नालन्तु ग्रन्धिरेकाङ्गुलं भवेत् ॥   २२-१५ ॥
दक्षिणावर्तग्रधितं पवित्रमिहशोभनम् ।  
अनाम्यङ्गुलविस्तारं ताराष्टैकाम्शहीनकम् ॥   २२-१६ ॥
तप्तचामीकरेणैव पवित्रं कनकाख्यकम् ।  
दशपञ्चाधिकैर्दर्भैर्दशैकादशकैस्तु वा ॥   २२-१७ ॥
दशभिर्न बभिर्वापि सप्तभिः पञ्चभिस्तु वा ।  
दर्भसङ्ख्याङ्गुलायामादर्भाणां नवकोर्ध्वके ॥   २२-१८ ॥
नवाङ्गुलन्तु तद्दैर्घ्यं दर्भाणां सप्तपञ्चके ।  
दक्षिणावर्त ग्रथितं ग्रन्धिरेकाङ्गुलं भवेत् ॥   २२-१९ ॥
कूर्चाग्रञ्चतुरङ्गुल्यं कूर्चमेवं विधीयते ।  
दशपञ्चाधिकं यत् तु शिवकुम्भस्य विन्यसेत् ॥   २२-२० ॥
द्वादशैश्चैव विन्यस्य शेषैः शेषेषु विन्यसेत् ।  
ऊर्ध्वग्रन्ध्या ह्यतोग्रन्तु पूर्वाग्रन्तु यथा न्यसेत् ॥   २२-२१ ॥
कूर्चानां लक्षणं प्रोक्तं दर्भमालां ततः श्रुणु ।  
द्विवृतादक्षिणावर्ता द्वित्रिकैः पञ्चभिस्तु वा ॥   २२-२२ ॥
दर्भान्तरं वै द्व्यङ्गुल्यं हस्तमानेन लंबयेत् ।  
कनिष्ठाङ्गुलिनाहेन रज्जुङ्कुर्यान् मनोरमम् ॥   २२-२३ ॥
लम्बमानास्तु दर्भाणां शस्तास्ता इति संस्मृताः ।  
जपहोमार्चनं तस्य मध्ये वीध्यत्वमागताः ॥   २२-२४ ॥
प्रासादयज्ञशालायां परिवेष्ट्य च यत्नतः ।  
विष्टरं पञ्चदर्भैस्तु ग्रन्थिरेकाङ्गुलं भवेत् ॥   २२-२५ ॥
मुलाग्रौ च दशाङ्गुल्यौ विष्टरं तु विधीयते ।  
सप्तविंशति दर्भैर्वा ह्येकविंशतिरेव वा ॥   २२-२६ ॥
दशपञ्चभिरेवाथ कूर्चं कुर्वीत बुद्धिमान् ।  
ग्रन्थिस्त द्व्यङ्गुलं प्रोक्तं अग्रं तु द्विगुणं भवेत् ॥   २२-२७ ॥
नालमेकोनविंशत् तु दर्भेण व्रतबन्धनम् ।  
एषा वै प्रोक्षणी प्रोक्ता परिस्तरणकं श्रुणु ॥   २२-२८ ॥
एकविंशति दर्भाभिः कलाग्रन्थिस्तु बन्धयेत् ।  
मेखला मध्यमायाममूलाग्रोदयमिष्यते ॥   २२-२९ ॥ प्. ९९)
परिस्तरणकं प्रोक्तं ततः परिधयः श्रुणु ।  
यैर्मानैः समिथं प्रोक्तं तैरेवपरिधिर्भवेत् ॥   २२-३० ॥
परिस्तरणकं प्रोक्तंकनिष्ठाङ्गुलिनाहकम् ।  
तिस्रः परिधयः प्रोक्ताः पश्चिमे दक्षिणोत्तरे ॥   २२-३१ ॥
परिधेर्लक्षणं प्रोक्तं समिधालक्षणं श्रुणु ।  
न स्फोटिकान सुषिरा ऋजवोग्रन्थि वर्जिताः ॥   २२-३२ ॥
द्वादशाङ्गुलिकायामा कनिष्ठाङ्गुलिनाहकाः ।  
समिधालक्षणं प्रोक्तं मेक्षणं तत् प्रमाणतः ॥   २२-३३ ॥
ततः सृक्लक्षणं वक्ष्ये श्रुणु मुग्धविनायक ।  
खदिरश्च शमीविल्वपलाशाः प्लक्षचन्दनौ ॥   २२-३४ ॥
ततः सृक्लक्षणं वक्ष्ये यथा सम्भवतः कुरु ।  
त्रिंशदङ्गुलमायाममष्टाङ्गुल सुविस्तृतः ॥   २२-३५ ॥
तदर्धन्तु घनं प्रोक्तं सूत्रेण समितं ततः ।  
षडङ्गुलं भवेदाभ्यं सप्ताङ्गुलन्तु विस्तृतम् ॥   २२-३६ ॥
तदग्रन्तु त्रिधा कृत्वा तस्मात् कुर्यात् त्रिकोणवत् ।  
गजोष्ठ सदृशाकारन्निम्नं स्याद्यवमानकम् ॥   २२-३७ ॥
तद्बहिः पट्टकाङ्कुर्याद्यवाद्यवसुविस्तृतम् ।  
अष्टाङ्गुलसुविस्तारा वेदिकाष्टाङ्गुलायता ॥   २२-३८ ॥
तन्मध्ये कारयेत् गर्तन्तच्चक्र्यङ्गुलविस्तृतम् ।  
खातं स्यात् तत् प्रमाणेन तद्बहिर्यवमानका ॥   २२-३९ ॥
पट्टिका तु प्रकर्तव्या तद्बहिर्यवनिम्नगा ।  
बिलबाह्ये तु परितः पट्टिकार्द्धाङ्गुलेन तु ॥   २२-४० ॥
श्वभ्रस्य परितः कार्यं पद्ममष्टदलंशुभम् ।  
श्वभ्रारभ्यमुखान्तं यत् कनिष्ठाङ्गुलमानतः ॥   २२-४१ ॥
खातं स्यात् कृत धारार्थं निम्नोन्नतविवर्जितम् ।  
दण्डोर्ध्वे वेदिकाधस्तात् त्र्यङ्गुलेन त्रिखण्डिका ॥   २२-४२ ॥
अर्धाङ्गुलविवृध्या तु वृत्ता वा चतुरश्रका ।  
दण्डं नवाङ्गुलायामन्तस्य नाभं षडङ्गुलम् ॥   २२-४३॥
दण्डाधोमुकलङ्कार्यं तदायामन्तु द्व्यङ्गुलम् ।  
नाभमष्टाङ्गुलं प्रोक्तं मानमेवं विधीयते ॥   २२-४४ ॥ प्. १००)
वेदिका परभागब्जे पृष्ठाकारन्तुलाञ्चयेत् ।  
तन्मध्ये कर्णिकाकारं पादतारञ्च त्र्यङ्गुलम् ॥   २२-४५ ॥
अङ्गुलन्तु तदुत्सेधं स्रवमेवं प्रकल्पयेत् ।  
अरत्निमात्रमायामं तदग्रे बिलसंयुतम् ॥   २२-४६ ॥
मूलं षडङ्गुलन्नाहं तदर्धं कण्ठनाहकम् ।  
पुष्करं मूलनाहन्तु द्विपुटं नासिकासमम् ॥   २२-४७ ॥
माषमग्नन्तु निम्नं स्यात् बिलद्वयसमन्वितम् ।  
गोपुच्छसदृशं दण्डं प्रोक्तं तत् स्रवलक्षणम् ॥   २२-४८ ॥
सौवर्णं रजतन्ताम्रं मृन्मयं वाथकारयेत् ।  
अष्टाङ्गुल सुविस्तीर्णन्निम्नं प्रस्थेन पूरितम् ॥   २२-४९ ॥
घनमानाङ्गुलं प्रोक्तं द्रव्यपात्रं विधीयते ।  
होमकाले तु द्रव्याणां प्रमाणं लक्ष्यते धुना ॥   २२-५० ॥
घृतेषु गव्यं तच्छेषु स्रवं पूर्णप्रमाणतः ।  
सक्तुमुष्टिमिदं वासमधु वै घृतवत् भवेत् ॥   २२-५१ ॥
करपूर्णन्तु लाजस्य चाक्षमात्रङ्गुलस्य तु ।  
समिदौषधकं दानां फलानां स्वप्रमाणतः ॥   २२-५२ ॥
अन्नमक्षप्रमाणं स्यात् पूर्णाहुत्यास्तु सृङ्मति ।  
तिलसर्षपयोश्चैव शुक्तिमात्रं विधीयते ॥   २२-५३ ॥
दध्नाक्षीरस्यमानन्तु घृतवत् परिकीर्तितम् ।  
यववेणु कुदॄत्थानां शुक्तिमात्रेण होमयेत् ॥   २२-५४ ॥
अपूपस्य चतुर्निष्कन्धान्यानां मुष्टिमात्रकम् ।  
एवं प्रमाणं द्रव्याणामाज्यस्थालीन्ततः श्रुणु ॥   २२-५५ ॥
आज्यस्थाल्या प्रणीतायाः प्रमाणं द्रव्यपात्रवत् ।  
आस्यं षडङ्गुलन्तार मोष्ठमेकाकाङ्गुलं भवेत् ॥   २२-५६ ॥
कर्णमेकाङ्गुलं प्रोक्तं जठरं द्वादशाङ्गुलम् ।  
विस्तारेण समाख्यातं शेषं बुद्ध्या प्रकल्पयेत् ॥   २२-५७ ॥
चरुस्थालिन्तथैवापि कलशानां विधिं श्रुणु ।  
द्वादशाङ्गुलविस्तारमुदरं समुदाहृतम् ॥   २२-५८ ॥
वर्तितं त्रिगुणन्तेन नाहन्तस्य विधीयते ।  
कर्णं द्वियङ्गुलोत् सेधं विस्तारञ्चतुरङ्गुलम् ॥   २२-५९ ॥ प्. १०१)
ओष्ठन्तु द्व्यङ्गुलोत्सेधं द्व्यङ्गुलन्निर्गमं स्मृतम् ।  
एवमेव हि वृद्ध्या तु कर्तव्यौ मध्यमाधमौ ॥   २२-६० ॥
अनुसारं यथा बुध्या कल्पयेत् कल्पवित्तमः ।  
आच्छादनं शरावाणां मुखमानेन विस्तरम् ॥   २२-६१ ॥
त्र्यङ्गुलन्तु तदुत्सेधं मध्ये निम्नं द्वयाङ्गुलम् ।  
एवं प्रमाणमुद्दिष्टं श्रुणुष्व घटलक्षणम् ॥   २२-६२ ॥
यद्वद्वैकलशाकरं तद्वदेव * *  स्मृतम् ।
चतुर्गुणविवृध्या तु घटमेवं विधीयते ॥   २२-६३ ॥
चरुस्थाली यथा रूपं हविः पात्रन्तथैव च ।  
यावत् तण्डुलसंपत्तिस्तावत् ब्रह्मणमुच्यते ॥   २२-६४ ॥
आस्यतुल्यं पिधानन्तु मध्ये तु वलयं तथा ।  
मिश्रतम्रेण ताम्रेण हविः पात्रं प्रकीर्तितम् ॥   २२-६५ ॥
सौवर्णं रजतं वापि ताम्रजाम्रन्मया तु वा ।  
जलद्रोणी प्रकर्तव्या वृत्ता वा चतुरश्रका ॥   २२-६६ ॥
दशद्रोणैरथाद्भिस्तु पूर्णितं ग्रीववर्जितम् ।  
अष्टद्रोणेन पूर्णं वा षट्भिर्वाद्रोणपञ्चकैः ॥   २२-६७॥
ततः श्रुणु ।  
तस्यास्यञ्चतुरङ्गुल्यमोष्ठद्वयसमायुतम् ॥   २२-६८ ॥
तत् पार्श्वं सुषिरान्तस्थं नालीस्याच्चतुरङ्गुलम् ।  
बृहोदरं तनुग्रीवं समयुक्तिमथाचरेत् ॥   २२-६९ ॥
कमण्डदॄश्च तद्वत् स्यान्मुखमध्योर्ध्वनालके ।  
ओष्ठञ्च सुषिरं कृत्वा प्रष्ठे पादं प्रलंबितम् ॥   २२-७० ॥
अङ्गुलन्तु च तन्मानं सुषिरं पार्श्वतस्तथा ।  
ऊर्ध्वे पिप्पलमानं स्यादक्षिरं मुखनालकम् ॥   २२-७१ ॥
एवं कमण्डुदॄङ्कुर्यात् सर्वलक्षणसंयुतम् ।  
कदॄषं कृमिशैवालमशुचिस्थानसंश्रितम् ॥   २२-७२ ॥
गन्धवर्णरसैर्जुष्ठं सूर्यरश्मिविवर्जितम् ।  
पङ्काश्मदूषितञ्चैव क्षारोदं पल्वलोदकम् ॥   २२-७३ ॥
अग्राह्यमुदकङ्ग्राह्य मेभिर्दोषैर्विवर्जितम् ।  
अष्टद्रोणैरथाद्भिस्तु स्नानं कन्यसमुच्यते ॥   २२-७४ ॥ प्. १०२)
अभिषेकमथाद्भिस्तु द्विगुणैर्मध्यमं स्मृतम् ।  
उत्तमं त्रिगुणैरद्भिः पुष्पपात्रमथ श्रुणु ॥   २२-७५ ॥
विंशत्यङ्गुलविस्तारं त्रिगुणन्नाहमुच्यते ।  
तदन्तर्नाहमेवन्तु पुष्पपात्रं विधीयते ॥   २२-७६ ॥
तदर्धमर्घ्यपात्रन्तु तन्नालेन विहीनकम् ।  
शरा वा कृतिरग्रे तु द्विपात्रं तदविस्थितम् ॥   २२-७७॥
शराव पृष्ठनालन्तु अष्टाङ्गुलसुदैर्घ्यकम् ।  
तिर्यक् कृत्वा यथा भोगं तदन्ते चैकपायुवत् ॥   २२-७८ ॥
पिधानं मुकुलाकारमनेकसुषिरैर्युतम् ।  
धूपपात्रं समाख्यातमुरुघण्टामथ श्रुणु ॥   २२-७९ ॥
द्वादशाङ्गुलमुत्सेधं त्रिगुणन्नालमेव च ।  
जिह्वा च द्वादशाङ्गुल्यं तदर्धं शिखरं भवेत् ॥   २२-८०॥
तन्मध्ये वै तु सुषिरं वलयेन समन्वितम् ।  
तद्घनं त्रिगुणेनैव तदास्योष्ठघनं स्मृतम् ॥   २२-८१ ॥
कण्ठन्तु त्र्यङ्गुलोत्सेधमधमस्य तु लक्षणम् ।  
द्विगुणं त्रिगुणं प्रोक्तं धूपघण्टामथ श्रुणु ॥   २२-८२ ॥
घण्टां कुर्वीत कांस्येन चतुरङ्गुलमुच्यते ।  
विस्तारन्तत् प्रमाणन्तु शिखरन्तु तदर्धकम् ॥   २२-८३ ॥
अष्टाङ्गुलेन घण्टा स्यात् जिह्वा च चतुरङ्गुला ।  
तत् घनं त्रिगुणे नैव तदास्योष्ठ घनं भवेत् ॥   २२-८४ ॥
अधमन्त्वेतदुद्दिष्टं पञ्चाङ्गुलन्तु मध्यमम् ।  
ज्येष्ठं षडङ्गुलं प्रोक्तमन्यत्सर्वं समंविदुः ॥   २२-८५
तत् समन्नालमूर्ध्वन्तु शूलन्तच्छिरविन्यसेत् ।  
पात्रं वा शंखचक्रं वा वृषं वा मूर्ध्नि विन्यसेत् ॥   २२-८६॥
धूपकाले प्रयोक्तव्यं घण्टानादसमन्वितम् ।  
ण्टायास्तु ध्वनिं श्रुत्वा सर्वपापैः प्रमुच्यते ॥   २२-८८ ॥
स्थलिकापाद रहितं रक्तिमात्रं सुविस्तृतम् ।  
सौवर्णं रजतन्ताम्रं कांस्ये नैवाथ कारयेत् ॥   २२-८७ ॥
ओष्ठमेकाङ्गुलोन्नत्या तद्घनं द्विगुणेन तु ।  
अर्धाधिकञ्च द्विगुणं प्रोक्तं वै मध्यमोत्तमे ॥   २२-८९ ॥ प्. १०३)
स्थलिकालक्षणं प्रोक्तं दीपदण्डं ततः श्रुणु ।  
एकहस्तं समारभ्य नवहस्तान्तमेव च ॥   २२-९० ॥
उत्सेधादष्टभागैक दण्डनाहं प्रकीर्तितम् ।  
तदुच्चैः पञ्चभागे तु द्विभागं पादविस्तरम् ॥   २२-९१ ॥
पदान्ताद्धस्तमानेन तद्वदूर्ध्वे तु विस्तरम् ।  
नानागणिकया युक्तं नानाकुंभैस्समन्वितम् ॥   २२-९२ ॥
तदूर्ध्वे मुकुलाकारं नालं ग्रन्धिसमायुतम् ।  
दीपदण्डं तव प्रोक्तं दीपमालां ततः श्रुणु ॥   २२-९३ ॥
ताम्रेण वायसेनाथ दारुभिर्वाथ कारयेत् ।  
द्वारे तु द्वारवत् कृत्वा प्रभाकारन्तु पृष्ठके ॥   २२-९४ ॥
शूलवच्छूल देवांश्च चक्रञ्च चक्रदीपवत् ।  
धुर्तूरपुष्पवन् मूर्ध्नि एकधारक दीपिका ॥   २२-९५ ॥
दीपदेहा इमे प्रोक्ता यंत्रिकांश्च ततः श्रुणु ।  
आयसेन प्रकर्तव्यं नालं वै मध्यमाङ्गुलम् ॥   २२-९६ ॥
कवाटार्गल संबन्धं यथा युक्तं भवेदिह ।  
द्विवक्त्रञ्च ततः कृत्वा पूर्वपश्चिमसंयुतम् ॥   २२-९७ ॥
मूले वलयसंयुक्तं सुस्निग्धञ्च भवेदिह ।  
यंत्रिका च तथा प्रोक्ता बलिपात्रमतः श्रुणु ॥   २२-९८ ॥
आयसेन प्रहैमेन अथवा ताम्रकेण वा ।  
चतुस्त्रिद्वयतालं वा विस्तारं समुदाहृतम् ॥   २२-९९ ॥
दलाष्टकसमायुक्तं कर्णिकामध्यमे न्यसेत् ।  
भक्तिद्वयङ्गुलोत्सेधं त्रिभागैकेन कर्णिकाः ॥   २२- १०० ॥
चतुर्विधा त्रिपादी स्याच्छंख पादीत्रिपादिका ।  
यवनी पादमेवं स्यात् स्थलिका पादमेव च ॥   २२-१०१ ॥
षडङ्गुलन्तदुत्सेधं तदर्धं मुखविस्तरम् ।  
कनिष्ठाङ्गुल नाहन्तु शङ्खपादं प्रकीर्तितः ॥   २२-१०२ ॥
द्विगुणञ्च त्रिपादी च पादं वक्त्रेणसंयुतम् ।  
शरावा कृतिमूले तु शेषं बूध्याप्रकल्पयेत् ॥   २२-१०३ ॥ प्. १०४)
त्रिपाद त्रिगुणं वत्सयवन्याः पादमुच्यते ।  
पीठोत्सेधसमं विद्यात् स्थलिका पादमेव च ॥   २२-१०४ ॥
त्रिपादलक्षणं प्रोक्तं दर्व्यालक्षणकं श्रुणु ।  
रत्निमात्रं तदायामं भुजङ्गस्य फणोपमम् ॥   २२-१०५ ॥
अष्टाङ्गुलसुविस्तीर्णं तदर्धं पादमेव च ।  
तदर्धं मध्यमस्योक्तमुक्तं दर्व्यास्तु लक्षणम् ॥   २२-१०६ ॥
पञ्चहस्त प्रमाणेन विस्तारायामतस्समम् ।  
वस्त्रयुग्मसमायुक्तं सुश्लक्ष्णं सुदृढं सितम् ॥   २२-१०७ ॥
नानावर्ण विचित्राङ्गं तथा सर्वन्तु कारयेत् ।  
एवं वितानमुक्तन्तु ध्वजलक्षणमुच्यते ॥   २२-१०८॥
क्षौमपट्टदुकूलैर्वा कार्पास सममेव वा ।  
हस्तमात्र सुविस्तारमायामं द्विगुणं भवेत् ॥   २२-१०९ ॥
चतुस्त्रिद्वयपुच्छं वा ध्वजार्धशिरपुच्छकम् ।  
पताकायाः प्रमाणन्तु प्रागुक्तद्विगुणायतम् ॥   २२-११० ॥
अन्यत् समानमत्रैव जललक्षणमुच्यते ।  
पट्टदेवाङ्गनेत्रैर्वा कार्पासैः शुक्लवाससा ॥   २२-१११ ॥
पीठोत्सेधस्य चार्धार्धं वस्त्रविस्तारमुच्यते ।  
विस्ताराष्टगुणायामं सदशन्तु सलक्षणम् ॥   २२-११२॥
आखुदष्टाग्नि दग्धञ्च जीर्णञ्चापि विसर्जयेत् ।  
वस्त्रमेवं समाख्यातं पृच्छन्न पटमुच्यते ॥   २२-११३ ॥
द्वारादध्यर्ध विस्तारमायामं द्विगुणं भवेत् ।  
पापक्रूर परिभ्रष्टैर्नास्तिकैः श्रुतिदूरकैः ॥   २२-११४॥
गोरसक्रयकैश्चैव पतितैश्च द्विजन्मभिः ।  
वेदविक्रयकैश्चापि शास्त्रविक्रयकैरपि ॥   २२-११५ ॥
अदृष्टार्थं प्रकर्तव्यं दृष्टे पूजा तु निष्फला ।  
विसर्जने तु निर्माल्ये पुष्पालङ्कारकर्मणि ॥   २२-११६॥
निवेद्यकाले सन्दिग्धे पृच्छन्न पटमुच्यते ।  
उष्णीषञ्चोत्तरीयञ्च श्वेतसूक्ष्म सुवाससा ॥   २२-११७ ॥
उष्णीषञ्चोत्तरीयञ्च नवहस्तप्रमाणतः ।  
खट्गपादसमुत्सेध रत्निद्वयसमायुतम् ॥   २२-११८ ॥ प्. १०५)
अथवा हस्तमात्रं स्यात् पादद्विगुणविस्तरम् ।  
विस्तारद्विगुणायामं कक्ष्याभिर्बन्धयेत् ततः ॥   २२-११९ ॥
खट्गायालक्षणं प्रोक्तमासनं श्रुणु सुव्रत ।  
चतुःसिह्मसमायुक्तं हस्तमात्रोच्छ्रयं भवेत् ॥   २२-१२० ॥
द्विरत्निविस्तृतं कार्यं वृत्तं च चतुरश्रकम् ।  
आच्छाद्यतरुभिच्छोर्ध्वन्निघृणं सुदृढं क्रमात् ॥   २२-१२१ ॥
हंसा कारेण वा पादं भूतपादमथापि वा ।  
गजाकारं वृषाकारं पादङ्कुर्याद् विशेषतः ॥   २२-१२२ ॥
कपोतनासिका युक्तं नानारत्नैर्विभूषितम् ।  
हाटकं रजतं वापि यथा दारुमयन्तु वा ॥   २२-१२३॥
आसनं त्विदमाख्यातं ततः पद्मासनं श्रुणु ।  
ऊर्ध्वाधोदलसंयुक्तं वृत्तमब्जासनं स्मृतम् ॥   २२-१२४ ॥
खट्गाकारैर्युतं पीठं समं वा चतुरायतम् ।  
फलकापादहिनञ्च ततो रथमिहोच्यते ॥   २२-१२५ ॥
चतुश्चक्रसमायुक्तञ्चक्र पोततरुद्वयम् ।  
तदूर्ध्वे वेदिकायुक्तमुत्तरन्तु निवेशयेत् ॥   २२-१२६॥
तदूर्ध्वे पद्मपट्टञ्च क्षूद्रपट्टं ततो न्यसेत् ।  
कापोत नासिकायुक्तं फलकोपरि विन्यसेत् ॥   २२-१२७ ॥
द्वादशक्षुद्र पादाः स्युरष्टौ वा षोडशापि वा ।  
विंशतिर्वा समाख्याता नासिकास्तद्वदेव हि ॥   २२-१२८ ॥
प्रत्यग्रे मुकुलं कार्यं तस्य नालं त्रिवक्रकम् ।  
वृषभौ पार्श्वयोर्न्यस्त्वा तयोर्मध्ये पितामहः ॥   २२-१२९ ॥
यष्टिरज्जु समायुक्तस्त्वग्रभागे प्रतिष्ठितः ।  
प्रासादवत्तदुपरि मण्टपन्तोरणं हि वा ॥   २२-१३० ॥
रथं समासतः प्रोक्तं रङ्गञ्चैव ततः श्रुणु ।  
रथाधिष्ठानवत् कृत्वा ब्रह्माणं मुकुलन् त्यजेत् ॥   २२-१३१ ॥
रङ्गमण्टपवत् कृत्वा ह्यधप्रासादवत् कृतम् ।  
दारुणा द्वितलङ्कृत्वा तदूर्ध्वे तु रगंमयः ॥   २२-१३२ ॥
चतुर्वापि गजोमध्ये वृषसिंहद्रुमोथवा ।  
तलोर्ध्वेयं त्रिडोलांश्च अन्यदुक्तन्तु कारयेत् ॥   २२-१३३ ॥ प्. १०६)
एवं तु रङ्गमाख्यातं शिबिकाञ्च तत श्रुणु ।  
शिबिका चैव मौण्डी च शेखरी च त्रिधा भवेत् ॥   २२-१३४ ॥
उत्तमं सप्ततालन्तु पञ्चतालन्तु मध्यमम् ।  
अधमन्तु चतुस्तालं विस्तारं त्रिविधं स्मृतम् ॥   २२-१३५ ॥
विस्तार द्विगुणायामं पादो न द्विगुणं तु वा ।  
दन्तैर्वा दारुसारैर्वा काञ्चनाद्यैरलङ्कृतम् ॥   २२-१३६ ॥
पद्मपट्टिकया युक्तं फलकादि दृढान्तरम् ।  
पद्मपत्रं षडङ्गुल्यं फलकाङ्गुलि हीनकम् ॥   २२-१३७ ॥
षोडशाङ्गुलमुत्सेधं भित्तेरुच्छ्रयमुत्तमम् ।  
एकैकाङ्गुलिहीनास्युर्मध्यमस्याधमस्य तु ॥   २२-१३८ ॥
पट्टिका विस्तरं शस्तमथाष्टाङ्गुलमुत्तमम् ।  
अङ्गुलाङ्गुलिहीनन्तु मध्यकन्य सयोस्तथा ॥   २२-१३९॥
मध्ये पट्टिकया युक्तं फलकाञ्जालकान्वितम् ।  
भित्तिपादाश्रितं कीलमायसेन तु कारयेत् ॥   २२-१४० ॥
नानारूपसमायुक्तं नानानटसमायुतम् ।  
मध्यपट्टसमं प्रोक्तमग्रभित्तेस्समुन्नतम् ॥   २२-१४१॥
भित्यग्रे सिम्हकौतिर्यक् मकरेतच्छिरोपरि ।  
पालिका सदृशाः पादास्सप्तवाष्टाङ्गुलोन्नताः ॥   २२-१४२ ॥
एवं वै शिबिकाप्रोक्ता मौण्डी शेखरयोः श्रुणु ।  
विस्तारस्य समं प्रोक्तं भित्ते रुच्छ्रयमेव तु ॥   २२-१४३॥
शलाकृति यथा रूपं मौण्ड्याकारं विधीयते ।  
शेखरे शिखरैर्युक्तं कापोतैः पादसंयुतम् ॥   २२-१४४ ॥
एवन्तु शिबिका प्रोक्ता ह्यण्डजादीं ततः श्रुणु ।  
अण्डजं मुण्डजञ्चैव रोमजञ्चर्मजं तथा ॥   २२-१४५ ॥
वामजं शयनं पञ्च कल्पास्त्वेते विशेषतः ।  
अण्डजञ्चात्र बोधव्यं पक्षिपिञ्छसमुद्भवम् ॥   २२-१४६ ॥
कार्पासेन कृतं यत्तु मुण्डजं च प्रकीर्तितम् ।  
आविकादि मृगाणान्तु रोमजं रोमजं स्मृतम् ॥   २२-१४७ ॥
चर्मजं व्याघ्र सिंहयोः कौशेयं वामजं स्मृतम् ।  
पट्टं वापि प्रकर्तव्यं स देशेनसमन्वितम् ॥   २२-१४८॥ प्. १०७)
अण्डजं श्वेतरूपं स्यान्मुण्डजं पीतवर्णकम् ।  
रोमजं कृष्णवर्णन्तु रक्तवर्णन्तु चर्मजम् ॥   २२-१४९ ॥
वामजं सितवर्णन्तु शुक्लरूपन्तु पट्टकम् ।  
यथार्हकं तथा कृत्वा ह्युपधानं तथा भवेत् ॥   २२-१५० ॥
नवद्वादशकैर्वापि दशपञ्चाधिकैस्तु वा ।  
नानावर्णैस्सवर्णैश्च नानारूपसमायुतैः ॥   २२-१५१ ॥
एतैर्वस्त्रैस्तु संप्रोक्तं तरङ्गमिहशोभनम् ।  
स्तम्भायाम समायुक्तं स्तंभवेष्टनमुच्यते ॥   २२-१५२ ॥
शुद्धकांस्येन कर्तव्यं विस्तारं रत्निमात्रकम् ।  
षोडशाङ्गुलविस्तारमथवा द्वादशाङ्गुलम् ॥   २२-१५३ ॥
तारार्धं वा तु तुङ्गं स्यात् कुर्याद् देवस्य दर्पणम् ।  
तत्र तु द्वादशाङ्गुल्यं पादुकं स्वप्रमाणतः ॥   २२-१५४ ॥
आयामार्धन्तु विस्तारं विस्तारार्धं समुच्छृतम् ।  
लोहे नैव तु कर्तव्यं पादुकाद्वयमुत्तमम् ॥   २२-१५५॥
चामरव्यजनादीनां लक्षणं वक्ष्यते धुना ।  
मायूरव्यजनं कुर्याच्चमर्या चामरं तथा ॥   २२-१५६ ॥
हेमरत्नमयं दण्डं रौप्यन्ताम्रमयं तु वा ।  
दन्तैर्वा दारुसारैर्वा दण्डं कुर्याद् विशेषतः ॥   २२-१५७ ॥
श्वेतच्छत्रस्य पिञ्छस्य वक्ष्येहं लक्षणं श्रुणु ।  
सप्त षट्तालतारं वाह्यधवा पञ्चतालकम् ॥   २२-१५८ ॥
वस्त्रैरावेष्ट्य सर्वत्र मौक्तिकैश्च विभूषयेत् ।  
मयूरपिञ्छकैः पिञ्छमथोद्युगन्तु कल्पयेत् ॥   २२-१५९ ॥
सौवर्णं रजतं वापि ताम्रं वा मकुटं भवेत् ।  
नवाष्ट सप्तषड्डस्तैः पञ्चहस्तैश्चतुष्ककैः ॥   २२-१६०॥
त्रिहस्तैर्वा यथा लाभन्तेषां दण्डस्य दैर्घ्यकम् ।  
तालञ्छत्रन्तु कर्तव्यं तत् प्रमाणन्तु बुद्धिमान् ॥   २२-१६१ ॥
छत्रं पिञ्छं तथा प्रोक्तमष्टमङ्गलमुच्यते ।  
दर्पणं पूर्णकुंभञ्च वृषभं युग्मचामरम् ॥   २२-१६२ ॥
श्रीवत्सं स्वस्तिकं शङ्खं दीपो देवाष्टमङ्गलम् ।  
स्त्रीणां शिरोपरिन्यस्त्वा मङ्गलानि विशेषतः ॥   २२-१६३ ॥ प्. १०८)
रत्निमात्रं समुत्सेधं मन्वङ्गुल सुविस्तृतम् ।  
दर्पणादिनी रूपाणि कृत्वा वै शिरसि न्यसेत् ॥   २२-१६४ ॥
सर्वधा शुक्लवर्णाः स्युस्सर्वाभरणसंयुतान् ।  
यन्मानं दिव्यनारीणां तन्माने नैव कारयेत् ॥   २२-१६६ ॥
हृदयें जलिसंयुक्ताः पद्मपीठोपरि स्थिताः ।  
लोकैर्वा दारुभिर्वापि कारयेद् देशिकोत्तमः ॥   २२-१६५ ॥
स्वनाम्नैव च संपूज्य सर्वमङ्गलकर्मसु ।  
अथवाष्टाङ्गुलन्तारमायामं षोडशाङ्गुलम् ॥   २२-१६७ ॥
अधस्तात् पद्मपीठन्तु तच्चतुर्थां शमानतः ।  
पद्मोर्ध्वे दर्पणादीनि कारयेद् अथ लेखयेत् ॥   २२-१६८ ॥
देवाष्टमङ्गलं प्रोक्तमस्त्राणां लक्षणं श्रुणु ।  
शूलं परशु वज्रञ्च खट्गंपाशं तथाङ्कुशम् ॥   २२-१६९ ॥
घण्टानागञ्च वह्निञ्च क्षुरिका च दशायुधम् ।  
एकतालप्रमाणन्तु भूतानामुपरि स्थितम् ॥   २२-१७०॥
विंशत्यङ्गुलमायामं भूतानान्तु प्रकीर्तितम् ।  
भूतवत् भूतमानेन कारयेत् सर्वमानकैः ॥   २२-१७१ ॥
यद्वर्णमायुधस्योक्तं तद्वर्णं नामतद्भवेत् ।  
भागेन कारयेच्छूलं गण्डिकाभागमेव च ॥   २२-१७२ ॥
शूलस्य लक्षणं प्रोक्तं परशोर्ल्लक्षणं श्रुणु ।  
गण्डिकाशूलपादाभ्यां कालमानेन वै बुधः ॥   २२-१७३ ॥
भागन्नालं तथा ग्रन्धि चतुरास्य समायुतम् ।  
एवं वै परशु प्रोक्तं वज्रलक्षणमुच्यते ॥   २२-१७४॥
तालमात्रं तथा यामं विस्तारोऽष्टाङ्गुलं मतम् ।  
तन्मध्ये गण्डिकां कुर्यात् चतुरङ्गुलमानतः ॥   २२-१७५ ॥
शेषैरष्टाङ्गुलैरेव अधश्चोर्ध्वं त्रिशूलवत् ।  
पार्श्व पत्रद्वयञ्चक्रं मध्यमत्र ऋजुस्थितम् ॥   २२-१७६ ॥
एवं वज्रं समाख्यातं खट्गलक्षणमुच्यते ।  
एकाङ्गुलन्तु विस्तारमधस्तात् कञ्चुकं भवेत् ॥   २२-१७७॥
चतुरङ्गुलविस्तारा फलका चतुरश्रका ।  
त्रियङ्गुलं भवेत् कर्णं तस्य नाहं द्वयाङ्गुलम् ॥   २२-१७८ ॥ प्. १०९)
कर्णोर्ध्वे पालिकां कुर्यात् फलकोक्तार्धमानतः ।  
तदूर्ध्वोङ्गुलविस्तारमर्धाङ्गुलमथायतम् ॥   २२-१७९ ॥
ऋजुङ्कृत्वा कृतिर्वक्त्रमेवं खड्गस्यलक्षणम् ।  
फणद्वयसमायुक्तः पाशः प्रोक्तोभुजङ्गमः ॥   २२-१८० ॥
पूर्वोक्तविधिना कार्या घण्टा लक्षणसंयुताः ।  
नागं हीनाङ्गवत् कृत्वा फणयुक्तं सजिह्वकम् ॥   २२-१८१ ॥
अग्निज्वालासमायुक्तो नालमर्धमिदं भवेत् ।  
क्षुरिकान्तालमात्रोच्चान्तस्य मूलन्तु खट्गवत् ॥   २२-१८२ ॥
ऋजुतीष्णास्य संयुक्तां सूक्ष्माग्रेण समायुताम् ।  
एवं दशायुधं प्रोक्तं सदाशिवकरेधृतम् ॥   २२-१८३ ॥
सर्वमङ्गलकार्येषु उत्सवे यागकर्मणि ।  
पूजयेत् सुविशेषेण लोकपालायुधांच्छृणु ॥   २२-१८४ ॥
वज्रं शक्तिञ्च दण्डञ्च खट्गंपाशांकुशौ गदाम् ।  
त्रिशूलं चक्रं पद्मञ्च दशायुधमिति स्मृतम् ॥   २२-१८५ ॥
प्राक् दशास्त्रोक्तमानेन लोकशास्त्राणि कारयेत् ।  
पूर्ववद् वज्रमुक्तन्तु शक्तिलक्षणमुच्यते ॥   २२-१८६ ॥
मूले गण्डिकयायुक्तं भवेदेकैकमङ्गुलम् ।  
एकैकाङ्गुल वृध्या तु विस्तरं गण्डिकात्रयम् ॥   २२-१८७ ॥
चतुरङ्गुलन्तु तन्मूलं नाहन्तस्य षडङ्गुलम् ।  
तदूर्ध्वे गण्डिकायुक्तं कुम्भञ्चैव तदूर्ध्वतः ॥   २२-१८८ ॥
दण्डमेवं समाख्यातं खट्गंपाशन्तु पूर्ववत् ।  
दण्डाग्रे गण्डिकायुक्ता जिह्वा श्वेत्बालचन्द्रवत् ॥   २२-१८९ ॥
अङ्कुशं त्वितिविख्यातं गदालक्षणमुच्यते ।  
गदायास्तु प्रकर्तव्यं कुम्भाधस्तात् तु पूर्ववत् ॥   २२-१९० ॥
कुम्भधारा समायुक्त गदा वै दण्डवत् स्मृतौ ।  
प्रागुक्ता वयवोपेतं शूलं पूर्वव देव हि ॥   २२-१९१ ॥
चक्रस्य शूलवन्मानं द्वादशारसमन्वितम् ।  
मध्ये नाभि समायुक्तं परितः पत्रसंयुतम् ॥   २२-१९२ ॥
एवञ्चक्रं समाख्यातं पद्मलक्षणमुच्यते ।  
अष्टाङ्गुलन्तु मुकुलं दलाष्टकसमन्वितम् ॥   २२-१९३ ॥ प्. ११०)
चतुरङ्गुलनालन्तु कुर्यात् पद्मं स लक्षणम् ।  
सौवर्णं रजतं वापि ताम्रा यासन्तु दारुवत् ॥   २२-१९४ ॥
तेषां रत्निसमुत्सेधं कृत्वा पुरुषमानतः ।  
किञ्चिदत्र विशेषोस्ति शक्तिस्त्रीरुपया भवेत् ॥   २२-१९५ ॥
शेषाश्च पुरुषाकारा सर्वाभरणभूषिताः ।  
अस्त्राणि शिरसाधार्या नमस्कृत्वा कृताञ्जलिः ॥   २२-१९६ ॥
अस्त्रवर्णास्तु पूर्वाः स्युर्नामतन्नाम एव तु ।  
अस्त्राणां लक्षणं प्रोक्तं तोरणानां श्रुणु क्रमात् ॥   २२-१९८ ॥
पलाशखदिराश्वत्थै श्शमीबिल्वशिरीषकैः ।  
कारयेत् तोरणान् सम्यक् यथा वा याज्ञिकैः पुनः ॥   २२-१९७ ॥
सप्तषट्पञ्चहस्तोच्चं विस्तारं स्यात् तदर्धकम् ।  
एकहस्तप्रमाणेन मध्ये शूलसमायुतम् ॥   २२-१९९ ॥
तोरणानां विधिः प्रोक्ता भद्रं तोरणमुच्यते ।  
द्वारेषु गोपुराणाञ्च विन्यसेच्छुभ कर्मणि ॥   २२-२०० ॥
द्वारात् पादाधिकं दैर्घ्यं विस्तारं द्वारतस्समम् ।  
कुम्भगण्डियुतं स्तंभं विष्कंभं रत्निविस्तृतम् ॥   २२-२०१ ॥
अश्वत्थ पत्रवलयैरष्टमङ्गलकैर्युतम् ।  
त्रिशूलमुपरि न्यस्त्वा हस्तमात्रप्रमाणकम् ॥   २२-२०२ ॥
भद्रतोरणमेवोक्तं सुवर्णकुसुमं श्रुणु ।  
द्वादशाङ्गुलविस्तारं वसुभागार्धमेव वा ॥   २२-२०३ ॥
मध्यमे कर्णिकायुक्ते दलाष्टकसमन्वितम् ।  
पुष्पमेवं समाख्यातं पट्टञ्च गोलकां श्रुणु ॥   २२-२०४ ॥
पट्टञ्च भागविस्तारं लिङ्गनाहञ्च दैर्घ्यकम् ।  
गोलका किञ्चिदाविधं लिङ्गमानेन कारयेत् ॥   २२-२०५ ॥
जटामकुटमीशस्य शक्तिनान्तु किरीटकम् ।  
मकुटं कुण्डलञ्चैव हारकेयूरकं तथा ॥   २२-२०६ ॥
कटकं कटिसूत्रञ्च पादनूपुरकं तथा ।  
कुर्यादुदर बन्धञ्च स्त्रीणां वै रत्नभूषणम् ॥   २२-२०७ ॥ प्. १११)
यथा हि प्रतिमानान्तु तथा तत्रैव बुद्धिमान् ।  
एवमाभरणं प्रोक्तं क्षुरकर्तरिकां श्रुणु ॥   २२-२०८ ॥
अष्टाङ्गुलमयि वामं तदर्द्धं विस्तृतं तथा ।  
आयसेन तु कर्तव्यं तन्नालञ्चतुरङ्गुलम् ॥   २२-२०९ ॥
द्वादशाङ्गुलमानेन विवक्रमरसंयुतम् ।  
क्षुरकर्तरिकौ प्रोक्तौ दीक्षाकर्मणि योजयेत् ॥   २२-२१० ॥
द्वादशाङ्गुलमानेन ऊर्मिजालेनमार्जनम् ।  
नालिकेरस्य पत्राणां सारान् बहुलसंयुतान् ॥   २२-२११॥
अरत्निमात्रमायामन्तं मूले रज्जुबन्धनम् ।  
द्विविधामार्जनी प्रोक्ताह्ययं मार्जनकर्मणि ॥   २२-२१२ ॥
मृत्पात्राणीह सर्वाणि मासादूर्ध्वं परित्यजेत् ।  
लोहदार्वादिकरणं तल्लयान्तं परिग्रहेत् ॥   २२-२१३ ॥
एवं समासतः प्रोक्तं ग्रमादीनां ततः श्रुणु ।  

इति करणाधिकारलक्षणपटल द्वाविंशतितमः ॥   

No comments:

Post a Comment