Sunday, January 6, 2019

शीतकुम्भविधि पटलः

अथ शीतकुम्भविधि पटलः
अथातः संप्रवक्ष्यामि शीतकुम्भस्य लक्षणम् ।  
अनावृष्टेश्च दुर्भिक्षे परराष्ट्रप्रवेशने ॥   १६-१ ॥

ज्वरापस्मारनाशाय वसूरिनासनार्थकम् ।  
सर्वरोगविनाशार्थं शीतकुम्भन्तु कारयेत् ॥   १६-२ ॥
द्वात्रिंशत् प्रस्थसंपूर्णं बिंब प्रभसमन्वितम् ।  
त्रिसूत्रैर्वेष्टयित्वा तु यवान्तं वाथवाङ्गुलम् ॥   १६-३ ॥
शिवाग्रे स्थण्डिलं कृत्वा यावदष्टौ सकर्णिकम् ।  
तण्डुलैः सोभितं कृत्वा तिलैर्दर्भैः परिस्तरेत् ॥   १६-४ ॥
अष्टद्रोणेन शालीनं तदर्धैस्तण्डुलैर्युतम् ।  
तण्डुलार्धतिलैर्युक्तं कारयेत् तु विचक्षणः ॥   १६-५ ॥
वस्त्रपूतेन तोयेन शिवकुम्भन्तु पूरयेत् ।  
सर्वगन्धसमायुक्तं पञ्चरत्नसमन्वितम् ॥   १६-६ ॥
स वस्त्रं सापिधानञ्च सकूर्चं हेमसंयुतम् ।  
स्थण्डिले विन्यसेत् कुम्भं गन्धपुष्पादिभिर्युतम् ॥   १६-७ ॥
पूर्वेद्युरधिवासं स्याद्रात्रौ जागरमाचरेत् ।  
दिशास्वध्ययनं कार्यं कुम्भं स्पृष्ट्वा विशेषतः ॥   १६-८ ॥
शान्ति होमं प्रकर्तव्यं तस्याग्रे तु विशेषतः ।  
प्रभाते देवदेवस्य मूर्ध्निमध्ये सुषिरङ्कृतम् ॥   १६-९ ॥
वस्त्रैरावेष्ट्यगात्राणि पुष्पमाल्यैर्विभूषयेत् ।  
कुम्भं विन्यस्य तन्मध्ये तत् पृष्ठे सुषिरं न्यसेत् ॥   १६-१० ॥
लोहसूच्याग्रमानेन नालं हेममयं भवेत् ।  
द्विगुणं क्षीरदातारं मधूनित्रिगुणं भवेत् ॥   १६-११ ॥
हृदयेन तु मन्त्रेण कुम्भमारोप्ययत्नतः ।  
उपकुम्भन्तु संस्थाप्य स्थण्डिले पूर्ववत् बुधः ॥   १६-१२ ॥
एकविंशद्दिनं वापि चतुर्दशदिनन्तु वा ।  
सप्ताहं वाथ पञ्चाहं त्रियहं वा विशेषतः ॥   १६-१३ ॥ प्. ८७)
सन्ततं श्रावयेन्मूर्ध्नि कृत्वाशान्तिकरं स्मृतौ ।  
नित्यपूजाविशेषेण काले काले विचक्षणः ॥   १६-१४ ॥
द्विगुणं पूजयेत् तत्र यावच्छक्यमथापि वा ।  
उपकुम्भात् तु निक्षिप्य जलादुत्थाय पूर्ववत् ॥   १६-१५ ॥
कुम्भावरोहणं यावत् तावद्धोमं समाचरेत् ।  
आचार्यं पूजयेत् तत्र वस्त्राङ्गुलीयकादिभिः ॥   १६-१६ ॥
दक्षिणां देशिकायैव दापयेत् तु विशेषतः ।  
अन्ते कुम्भं परित्यज्य वक्त्रमन्त्रेणमन्त्रवित् ॥   १६-१७ ॥
प्रभूतहविषन्दत्वा पूर्वोक्त विधिनासह ।  
अन्यान् भक्तजनांश्चापि अन्नपानेन पूजयेत् ॥   १६-१८ ॥
शीतकुम्भमिदं प्रोक्तं नवनैवेद्यकं श्रुणु ।  

इति शीतकुम्भविधि पटलःषोडशः ॥   १६ ॥

No comments:

Post a Comment