Sunday, January 6, 2019

तरुणालयलक्षण पटलः

अथ तरुणालयलक्षण पटलः
अथातः संप्रवक्ष्यामि तरुणालयलक्षणम् ।  
आद्यं द्वितीयमेवन्तु द्विविधन्तरुणालयम् ॥   २६-१ ॥
मूलस्थानस्य यत् पूर्वन्तदाद्यन्तरुणालयम् ।  
पूनः प्रासादकरणे भिन्नेच्छिन्नेनवीकृते ॥   २६-२ ॥
यत् कृतन्तत् द्वितीयाख्यन्तरुणालयमुत्तमम् ।  
अन्यानि सर्वकर्माणि समानमिति भाषितम् ॥   २६-३ ॥
मूलस्थानं विनिश्चित्य बालस्थानन्तु कारयेत् ।  
बाललिङ्गं प्रतिष्ठाप्य पश्चान्मूलं प्रतिष्ठयेत् ॥   २६-४ ॥
बालस्थानं विनापूर्वं मूलस्थानं न कारयेत् ।  
बालस्थानं विना यत्र पुत्रपौत्र विनाशनम् ॥   २६-५ ॥
तस्मात् सर्वप्रयत्नेन बालस्थानन्तु कारयेत् ।  
यस्मिन् काले यदा क्षेत्रे कृते भूमिपरिग्रहे ॥   २६-६ ॥
तस्याग्रे चोत्तरेवापि अग्रे वामेग्रदक्षिणे ।  
ईशाने वापि शेषेण कारयेत् तरुणालयम् ॥   २६-७ ॥
पञ्चसप्त नवाहे वा रात्रौ कृत्वाङ्कुरार्पणम् ।  
लोहजं शैलजं लिङ्गं दारुजं मृन्मयन्तु वा ॥   २६-८ ॥
कारयेत् तु विशेषेण लक्षणोक्तेन देशिकः ।  
शमीबिल्वमधूकैश्च अश्वत्थोदुंबरैस्तहा ॥   २६-९ ॥
बाललिङ्गं प्रकर्तव्यं मृन्मयञ्चेत् सुपक्वकम् ।  
द्वादशाङ्गुलमुत्सेधमुत्तमं परिकीर्तितम् ॥   २६-१० ॥
सप्ताङ्गुलमधोत्सेधमधमामधमेव हि ।  
तस्मात् द्व्यङ्गुल वृध्या तु बाललिङ्गा नवस्मृताः ॥   २६-११ ॥
स्वधामकुण्डली भूतं सर्ववृत्तमिहोच्यते ।  
छत्राकारं शिरः कुर्याल्लक्षणोद्धारणं विना ॥   २६-१२ ॥
स्वयोनिं कारयेत् पीठमथवा चेष्टकामयम् ।  
सप्तपञ्च त्रिहस्तं वा कर्तव्यन्तरुणालयम् ॥   २६-१३ ॥
एवमाद्यं समाख्यातं द्वितीये तरुणालये ।  
पूजाभागसमायामं त्रिपादं वार्द्धमेव वा ॥   २६-१४ ॥ प्. १२५)
आयाम सदृशन्नाहं लक्षणोधारणं विना ।  
नतौ विष्णु विरिञ्चांशौ तश्चिरोन्मूललिङ्गवत् ॥   २६-१५ ॥
लिङ्गमेवं समापाद्य मूलगर्भार्धमानतः ।  
त्रियंशं वा चतुर्थाशं प्रोक्तं बालग्रहं त्विह ॥   २६-१६ ॥
बालगेहान्तरे पीठं बाललिङ्गसमोन्नतम् ।  
उच्छ्रायसमविस्तारं सावटं सप्रणालकम् ॥   २६-१७ ॥
लिङ्गायामं त्रिधा कृत्वा भागं पीठे निवेशयेत् ।  
वृत्तं वा चतुरश्रं वा षोडशांशेन योजितम् ॥   २६-१८ ॥
रत्नन्यासं न कर्तव्यं पादशैलानिकानि च ।  
प्रतिलिङ्गं न कर्तव्यं सूत्रञ्चैव तथा भवेत् ॥   २६-१९ ॥
तद्विमानाग्र भागे तु मण्डपं सुविशेषतः ।  
दशाष्ट नवहस्तं वा सप्तहस्तमथापि वा ॥   २६-२० ॥
षोडशस्तंभसंयुक्तं सर्वालङ्कारसंयुतम् ।  
तन्मध्ये वेदिकां कुर्यात् नवभागैक भागतः ॥   २६-२१ ॥
हस्तमात्रसमुत्सेधां दर्पणोदरवत् समाम् ।  
गोमयालेपनङ्कृत्वा ब्राह्मणान् भोजयेत् ततः ॥   २६-२२ ॥
पुण्याहन्तत्र कर्तव्यं वास्तुहोमं विशेषतः ।  
तद्धोमं विधिवत् कृत्वा पर्यग्निकरणं तथा ॥   २६-२३ ॥
वस्त्रैस्सशालिभिर्युक्तं सदर्भैः पुष्पसंयुतम् ।  
पीठस्य मध्यमे न्यस्त्वा कण्ठमात्रे जले तथा ॥   २६-२४ ॥
उषितं लिङ्गमुत्थाप्य स्नानवेद्युपरिन्यसेत् ।  
सौवर्णं राजतं वापि क्षौमङ्कार्पासमेव वा ॥   २६-२५ ॥
कौतुकं हृदये नैव कृत्वा घृतशिरोर्पणम् ।  
शयने शाययेल्लिङ्गं प्राक् शिरस्कं सयोनिकम् ॥   २६-२६ ॥
गन्धपुष्पाक्षतैश्चैव संपूज्यशयनो परि ।  
वस्त्रेणाच्छादनङ्कृत्वा हृदिना पुष्पदर्भकैः ॥   २६-२७ ॥
सर्वलक्षणसंयुक्तं शयनं संप्रकल्पयेत् ।  
त्रिरात्रमेक रात्रं वा जले चैवाधिवास्य च ॥   २६-२८ ॥ प्. १२६)
वस्त्रेण वेष्टयित्वा तु कुम्भं सूत्रेण वेष्टितम् ।  
पञ्चरत्नसमायुक्तं वस्त्रयुग्मेन वेष्टितम् ॥   २६-२९ ॥
व्योमवद् व्यापिनं देवं ध्यात्वारूपं सदाशिवम् ।  
विन्यसेत् कुम्भमध्ये तु शिवमन्त्रं समुच्चरन् ॥   २६-३० ॥
संपूज्यगन्धपुष्पाद्यैर्हृदयेन तु मन्त्रतः ।  
तस्य वामे तु वर्धन्यां गौरीं विन्यस्य मन्त्रतः ॥   २६-३१ ॥
हैमवस्त्रसमायुक्तां वर्धनीं पूर्ववद्यजेत् ।  
मूललिङ्गे तु देवेशं द्वितीयश्चेत् समावहेत् ॥   २६-३२ ॥
विज्ञाप्य देवदेवेशं क्षणकालं विचक्षणः ।  
एकाब्दात् द्वादशाब्दान्तं बालस्थाने स्थिरो भव ॥   २६-३३ ॥
एतयोरब्दयोर्मध्ये कुर्यान्मूलप्रवेशनम् ।  
विज्ञापयेत् द्वितीये तु चाद्ये विज्ञापनं विना ॥   २६-३४ ॥
विद्येशोमा शिवाख्येषु कलशेषु पृथक् पृथक् ।  
तत्तद्रूपमनुस्मृत्य स्वस्वमन्त्रेण विन्यसेत् ॥   २६-३५ ॥
सकूर्चान् वस्त्रसंयुक्तान् सर्वलक्षणसंयुतान् ।  
गन्धपुष्पादिना पूज्य हृदयेन विचक्षणः ॥   २६-३६ ॥
दिशा स्वध्ययनं कुर्यादृग्यजुः सामाधर्वकैः ।  
नवपञ्च तथा त्रीणि एकहोममथापि वा ॥   २६-३७ ॥
कृत्वाग्निमुखसंस्कारं पूर्वोक्तविधिना ततः ।  
खदिरं वटबिल्वौ च प्लक्षाश्वत्थावुदुंबरम् ॥   २६-३८ ॥
शमीवैकं ततञ्चैव समित् पूर्वादितः क्रमात् ।  
पलाशस्तु प्रधानस्य होमयेद्धृदयेन तु ॥   २६-३९ ॥
औदुंबरसमिद्भिर्वा सर्वेषाञ्चैव कारयेत् ।  
समिदाज्यान्नकैर्मन्त्रैर्होमङ्कृत्वा पृथक् पृथक् ॥   २६-४० ॥
समिधं हृदये नैव मूले नैव घृतं हुनेत् ।  
शिवगायत्रि मन्त्रेण चरुंहुत्वा विशेषतः ॥   २६-४१ ॥
स्पर्शाहुतिं शिवाङ्गेन हुत्वाङ्गानि च संस्पृशेत् ।  
प्रभाते विमले होमङ्कृत्वा पूर्णां शिवेन तु ॥   २६-४२ ॥ प्. १२७)
आचार्यं पूजयित्वा तु मूर्तिपानथ पूजयेत् ।  
दैवज्ञं पूजयित्वा तु अध्येतॄन् परिचारकान् ॥   २६-४३ ॥
उत्थाप्यशयनाल्लिङ्गन्तरुणालय मध्यमे ।  
संस्थाप्य लिङ्गं सुस्निग्धं पीठस्या वटमध्यमे ॥   २६-४४ ॥
कुम्भस्थ देवदेवेशं शिवमन्त्रेण विन्यसेत् ।  
शिवाङ्गानि न्यसेत् पश्चात् पिण्डिकायां मनोन्मनीम् ॥   २६-४५ ॥
अष्टविद्येश्वरांस्तत्र पीठे पूर्वादिषु न्यसेत् ।  
विद्येशोमा शिवाख्यैस्तु कुम्भैरस्त्राभिषेचनम् ॥   २६-४६ ॥
अर्चनोक्तमथाभ्यर्च्य नैवेद्यं दापयेत् क्रमात् ।  
द्वारादिपीठपर्यन्तं विन्यसेत् तु यथा विधि ॥   २६-४७ ॥
स्नपनन्तत्र कुर्वीत यथा शक्त्या विशेषतः ।  
उत्सवन्तु यथा शक्ति द्वितीये तरुणालये ॥   २६-४८ ॥
बल्यन्तः पूजयेन्नित्यमुत्सवन्न समाचरेत् ।  

बालस्थान विधिः प्रोक्ता श्रुणुष्वालयवास्तुकम् ॥   २६-४९ ॥

No comments:

Post a Comment