Sunday, January 6, 2019

ज्येष्ठास्थापनविधि पटलः,सुप्रभेदागमः


अथ ज्येष्ठास्थापनविधि पटलः
अथातः संप्रवक्ष्यामि ज्येष्ठायाः स्थापनं परम् ।  
आदिशक्तेस्समुत्पन्ना पश्चादुदधिसंभवा ॥   ४५-१ ॥
उदधौमत्थ्यमाने तु चोत्थिता सा गजानन ।  
कालाञ्जननिभा देवी सर्वाभरणभूषिता ॥   ४५-२ ॥
कररूढा कलेपत्नी सुखघ्नादुहितातनुः ।  
जानुपार्श्वौ मणिर्वाथा वृषास्यं वृषभं तथा ॥   ४५-३ ॥
वृषभोरक्तवर्णन्तु मणिकाञ्चन स प्रभा ।  
रूपाण्येतानि कृत्वा तु प्रतिष्ठां सम्यगाचरेत् ॥   ४५-४ ॥
रत्नन्यासं ततः कृत्वा तोयमध्ये निवासनम् ।  
ततो क्षिमोचनं कृत्वा शयने चाधिवासनम् ॥   ४५-५ ॥
कुंभान्यत्रैव विन्यस्य पश्चाद्धोमन्तु पूर्ववत् ।  
शिवाग्निं तत्र कृत्वा तु ज्येष्ठां वह्नौसमावहेत् ॥   ४५-६ ॥ प्. २११)
ज्येष्ठाया मूलमन्त्रेण सर्वद्रव्याणि होमयेत् ।  
संस्थाप्यसुमुहूर्ते तु हविष्यं दापयेत् ततः ॥   ४५-७ ॥
ज्येष्ठायाः स्थापनं प्रोक्तं दुर्गाया स्थापनं श्रुणु ॥  
इति ज्येष्ठा स्थापनविधिपटलः पञ्चचत्वारिंशत्तमः

No comments:

Post a Comment