Sunday, January 6, 2019

मातृस्थापनविधिपटलः,सुप्रभेदागमः

अथ मातृस्थापनविधिपटलः
अथातः संप्रवक्ष्यामि मातृणां स्थापनं परम् ।  
नै-ऋतस्य वधार्थाय ब्रह्मणाचापि निर्मिताः ॥   ४२-१ ॥
ब्रह्माणीं ब्रह्मवत् कुर्यात् महेशीमिश्वरोपमाम् ।  
कुमारवच्चकौमारीं विष्णुवद्वैष्णवीं तथा ॥   ४२-२ ॥
क्रोधाननान्तु वाराहीं वामिनीं तु हलायुधाम् ।  
चक्राणीं चक्रवत् कुर्यात् चामुण्डीमुग्ररूपिणीम् ॥   ४२-३ ॥
सुविकीर्णजटाभारां श्यामवर्णाञ्चतुर्भुजाम् ।  
कपालशूलहस्ताञ्च चामुण्डीं कारयेत् ततः ॥   ४२-४ ॥
वरदाभयहस्तास्तु तत्तदायुधधारिणः ।  
तत्तद्वर्णसमायुक्ता वाहनध्वजसंयुताः ॥   ४२-५ ॥
चतुर्भुजास्तु सर्वाश्च नलिनास्ताश्च संस्थिताः ।  
वीरभद्रन्तु पूर्वे तु विघ्नेशं पश्चिमं दिशि ॥   ४२-६ ॥ प्. २०६)
वीरासनस्थं वीरेशं विघ्नेशञ्च तथा कुरु ।  
मृद्दारुशैल लोहैर्वा कृत्वा तु प्रतिमां बुधः ॥   ४२-७ ॥
रत्नन्यासं ततः कृत्वा जले चैवाधिवासयेत् ।  
नेत्रस्य मोक्षणं पश्चाच्छयने वाधिवासनम् ॥   ४२-८ ॥
शिखाग्नौ विधिवत् कृत्वा ध्यात्वा होमं समाचरेत् ।  
स्थापयेत् सुमुहूर्ते तु सुनामाद्यैश्च मन्त्रतः ॥   ४२-९ ॥
मातृणां हविषं दत्वामातृगायत्रि मन्त्रतः ।  
यामलोक्त क्रमेणैव मातृयायागं समाचरेत् ॥   ४२-१० ॥
मातृणां स्थापनं प्रोक्तं विघ्नेशस्थापनं श्रुणु ।  
इति मात्रस्थापनविधिपटल द्विचत्वारिंशत्तमः

No comments:

Post a Comment