Sunday, January 6, 2019

दीक्षाविधिपटलश्चतुर्थः,सुप्रभेदागमः

अथ दीक्षाविधिपटलः
अत ऊर्ध्वं प्रवक्ष्यामि दीक्षामार्गं विशेषतः ।  
दीयते तच्छिवत्वं हि क्षीयते पापपञ्जरः ॥   ४-१ ॥
क्षयदानविशेषत्वात् दीक्षा चेत्यभिधीयते ।  
मण्डलं पूजयित्वा तु तदग्रे चाग्निपूजनम् ॥   ४-२ ॥
शिवाग्निं विधिवद्धुत्वा प्रागुक्तविधिना हुतः ।  
ततस्तु दीक्षयेच्छिष्यान् ब्राह्मणादि क्रमेण तु ॥   ४-३ ॥
आचार्यलक्षणोपेतः शैवसिद्धान्तवित्सुधीः ।  
नैष्ठिकः शिवयोगज्ञस्सर्वेषां तु गुरूत्तमः ॥   ४-४ ॥
सुस्नात्वा शैवमन्त्रज्ञस्सकलीकृतविग्रहः ।  
प्रोक्षणं प्रथमं कृत्वा दीक्षांकुर्याद्दिनान्तरे ॥   ४-५ ॥
संपूज्य विधिवच्छिष्यां दीक्षांकुर्यात् द्वितीयकम् ।  
विप्रादीञ्च ततः शिष्यान् शुचिस्नात्वा जितेन्द्रियान् ॥   ४-६ ॥
उत्तराभिमुखान् पुष्पैः कुशैरास्तीर्यमण्डले ।  
शिवांभसा तु संप्रोक्ष्य चाङ्गुल्यास्त्रेण भस्मना ॥   ४-७ ॥
दहेत् कालाग्निना (कालाग्गिना) सर्वं शरीरं शुष्ककाष्ठवत् ।  
ततो स्यालभतं कार्यं शिववीजेनमुद्रया ॥   ४-८ ॥
हृदा हृदयमालभ्य शिरसा तु शिरस्तथा ।  
शिखया तु शिखां स्पृष्ट्वा कवचेनस्तनान्तरम् ॥   ४-९ ॥
नेत्रेणनेत्रं स्पृष्ट्वा तु सर्वेष्वंगेषु चा स्मृतः ।  
शिवहस्तन्तु दातव्यमीशानोद्याभिमंत्रितम् ॥   ४-१० ॥
तेषां मूर्धसुतद्धस्तं त्रिधा संस्वापयेत् बुधः ।  
गन्धाद्यैस्तु समभ्यर्च्य प्रोक्षणञ्चैवमुच्यते ॥   ४-११ ॥
तस्याग्रे मण्डलं कृत्वा चतुरश्रसमन्वितम् ।  
पिष्टचूर्णैरलङ्कृत्य दर्भैरास्तीर्य पुष्पकैः ॥   ४-१२ ॥
ईशानं मध्यमे स्थाने वक्त्रमैन्द्र तु बुद्धिमान् ।  
अघोरं दक्षिणे न्यस्त्वा पश्चिमे सद्य एव तु ॥   ४-१३ ॥ प्. २४८)
उत्तरे वामदेवन्तु आग्नेय्यां हृदयं ततः ।  
ब्राह्मशिरस्तु नै-ऋत्यां शिखां वै वायुदेशके ॥   ४-१४ ॥
कवचं त्वीशदिक्भागे तत्तन्नाम्ना समाचरेत् ।  
देवस्याभिमुखाञ्चिष्यान् भस्मोद्धूलन विग्रहान् ॥   ४-१५ ॥
नेत्रे च नेत्रमन्त्रेण संवेष्ट्य नववस्त्रकैः ।  
विप्रादीनान्तु शिष्याणां तद्वर्णं समपुष्पकम् ॥   ४-१६ ॥
निक्षिप्यमण्डले मध्ये शिवमन्त्रं समुच्चरन् ।  
यस्मिन् च नृपतेः पुष्पं नामगोत्रन्तदात्मकम् ॥   ४-१७ ॥
ईशानवक्त्र विद्येशान घोरब्रह्मसद्यकम् ।  
रुद्रो वामश्च हुंकारो नवधानाम उच्यते ॥   ४-१८ ॥
ब्राह्मणादि चतुर्णान्तु गणान्तान्तं शिवादिकम् ।  
स्त्रीणान्तु शक्तिनामान्तं दीक्षनामविधीयते ॥   ४-१९ ॥
नैष्ठिकानां विशेषोस्ति गोचरं गोत्रसन्ततिः ।  
शिवः शिखा तथा ज्योतिः सावित्री चेति गोचराः ॥   ४-२० ॥
दूर्वासादिचतुर्णान्तु तद्वर्णं गोत्रमुच्यते ।  
चर्यापादे तु यत् प्रोक्तं तत्सूत्रं शिवभाषितम् ॥   ४-२१ ॥
आचार्यं गोचरं गोत्रं सूत्रं तस्य विधीयते ।  
प्रागुक्तवत् समयिनां तेषामभिमुखङ्गुरुः ॥   ४-२२ ॥
करन्यासं पुराकृत्वा दहनप्लावनञ्चरेत् ।  
अष्टत्रिंशत् कलान्यासं कृत्वा तास्तु पुरोक्तवत् ॥   ४-२३ ॥
हृदयानि षडंगानि पञ्चब्रह्माणि विन्यसेत् ।  
रुद्रमन्त्रदशात्मानं प्रासादं विन्यसेत् ततः ॥   ४-२४ ॥
षडध्वानां तु संकल्प्य शिवास्यं न कथं यथा ।  
करादिपां नदान्तस्य स्वमूर्ध्नादि यथा क्रमम् ॥   ४-२५ ॥
तच्छिष्यानान्तु देहेषु एकैकं विन्यसेत् ततः ।  
षडध्वशोधनं ह्येनन्ततो होमं समाचरेत् ॥   ४-२६ ॥
तत्वाध्वा च पदाध्वा च वर्णाध्वा भुवनात्मकम् ।  
मन्त्राध्वा च कलाध्वा च एकैकं होमयेच्छतम् ॥   ४-२७ ॥ प्. २४९)
विद्येशानां स्वमन्त्रैश्च गणेशानां स्वमन्त्रकैः ।  
लोकेशानां स्वमन्त्रैश्च दशास्त्राणां समन्त्रकैः ॥   ४-२८ ॥
घृतेन होमयेद्विद्वान् प्रत्येकन्तु शताहुतिः ।  
एवं कर्तुमशकश्चेत् तत्व दीक्षां समाचरेत् ॥   ४-२९ ॥
संश्राव्य समया पश्चात् देवदेवस्य चाग्रतः ।  
शिवशास्त्रमनिन्द्यं हि प्रविशेद्दीक्षितान् सदा ॥   ४-३० ॥
आचार्यस्य तु ज्येष्ठानां लिङ्गश्ता?यां न लंघयेत् ।  
अदीक्षिता च या नारी सङ्गमं वर्जयेत् तदा ॥   ४-३१ ॥
निर्माल्यन्तु न भुञ्जीत भस्मयुक्तां न निन्दयेत् ।  
इत्यष्टौ समयास्त्वेते दीक्षितानां प्रकीर्तिताः ॥   ४-३२ ॥
पालनीयास्तथा ह्येते दीक्षितानां वचः श्रुणु ।  
सुशीलः सुवृतश्चैव शिवभक्ति गुरुस्तथा ॥   ४-३३ ॥
शिवशास्त्रे रतिश्चैव यदा क्षान्ति जितेन्द्रियः ।  
इत्यष्टा वस्तिचेत् पुंछः? स यांति परमाङ्गतिम् ॥   ४-३४ ॥
न पालयन्ति ये मोहात्तेयान्ति नरके भृशम् ।  
कृत्वा तु दिक्बलिन्तत्र गन्धपुष्पादिभिर्युतम् ॥   ४-३५ ॥
सपत्नीकाश्च शिष्याश्च ततः स्वश्रमसंयुता ।  
इत्येवं विधिवत् कृत्वा पश्चाद्धोमं प्रकीर्तितम् ॥   ४-३६ ॥
शिवाग्निं पूर्ववत् कृत्वा शिष्यानाहूयमन्त्रवित् ।  
अभिमुखे तथा सीनाश्चार्घ्य पाद्यादिनार्चयेत् ॥   ४-३७ ॥
वक्ष्येहं तद्यथा युक्तं पञ्चधा श्रुणु सांप्रतम् ।  
उक्तासुतासु सर्वा तु श्रेष्ठा चेत्यभिधीयते ॥   ४-३८ ॥
पृथिव्यापसथा तेजोवायुराकाशमुच्यते ।  
काला न याच्छिवं यावत् पञ्चतत्वैर्व्यवस्थितम् ॥   ४-३९ ॥
पार्त्थीवन्तु निवृत्यां वै शतरुद्रमवस्थितम् ।  
आपत् प्रतिष्ठाया विद्या यावच्च प्रकृतिन्नरम् ॥   ४-४० ॥
तेजो वै विद्यया ज्ञेया यावद् विद्येश्वरान्तकम् ।  
वायुः शास्त्या तु विज्ञेयास्ततस्सदाशिवान्तकम् ॥   ४-४१ ॥ प्. २५०)
शक्त्यन्तं नाभिरित्युक्ताः शान्त्यातीतेन बुद्धिमान् ।  
निवृत्तिर्जानुपर्यन्तं प्रतिष्ठानाभि सीमकान् ॥   ४-४२ ॥
विद्या कर्णान्तमेवं हि मुखान्तं शान्तिरेव तु ।  
शान्त्यातीतं तदूर्ध्वे तु परापर शिवान्तकम् ॥   ४-४३ ॥
निवृत्तिं सद्यमन्त्रेण प्रतिष्ठां वाममन्त्रतः ।  
विद्याघोरेण होतव्यं शान्तिस्तत्पुरुषेण तु ॥   ४-४४ ॥
शान्त्यातीतमथैशान मन्त्रेण जुहुयात्बुधः ।  
एकैकस्य शतं हुत्वा तदर्धं वार्धमेव वा ॥   ४-४५ ॥
एवमेव हुतं हुत्वा बुधस्तत्वैस्तु पञ्चभिः ।  
अन्यजन्मविनाशाय हृदयेन शतं हुनेत् ॥   ४-४६ ॥
पशुत्वं नाशनं तस्माच्छिवत्वं हि निवर्तते ।  
ततः पूर्णाहुतिं हुत्वा पञ्चब्रह्मभिरेव तु ॥   ४-४७ ॥
एवं समाप्य तद्दीक्षामभिषेकन्ततः श्रुणु ।  
सर्वालंकारसंयुक्तं मण्डपे समलंकृते ॥   ४-४८ ॥
शिवाग्निं पूर्ववत् कृत्वा अभिषेकं समाचरेत् ।  
हस्तादि पञ्चहस्तान्तं यथा वित्तानुसारतः ॥   ४-४९ ॥
स्नपनस्य विधानेन स्थापयेत् कलशानि वै ।  
भद्रपीठे समास्थाय शिष्यस्थानं दृढवृतम् ॥   ४-५० ॥
अर्चयित्वा यथा न्यायं न्यासं कृत्वा यथा विधि ।  
निष्कलन्तु यथा चार्यस्सकलः साधकस्सदा ॥   ४-५१ ॥
ततोभिषेकं तस्यैवमाचरेद् देशिकोत्तमः ।  
दशाक्षरेण मन्त्रेण कूटकैरष्टभिः क्रमात् ॥   ४-५२ ॥
यथा वित्तानुसारेण पुण्याहञ्जयमङ्गलैः ।  
स्नापयित्वा ततो मंत्री शुक्लवस्त्रैर्विभूषितः ॥   ४-५३ ॥
गन्धपुष्पैस्समभ्यर्च्य योगपीठोपरिस्थितः ।  
उष्णीषं बन्धयेत् सूक्ष्मं सितसुद्धेन वाससा ॥   ४-५४ ॥
ललाटपट्टं दातव्यं यथा राज्ञः प्रकीर्तितम् ।  
मकुटं कुण्डलाद्यैस्तु सर्वैराभरणैरपि ॥   ४-५५ ॥
च्छत्रं ह्युपरिसन्धार्य चामरञ्च विधानवित् ।  
द्रव्याणामप्यलाभे तु दर्भैरेतानि कल्पयेत् ॥   ४-५६ ॥ प्. २५१)
अथवा मनसा सर्वं शिवमन्त्रेण (छिवमन्त्रेन्तण) चिन्तयेत् ।  
रुद्राक्षमुपवीतञ्च उष्णीषञ्चोत्तरीयकम् ॥   ४-५७ ॥
पुस्तकं सृक्सृवञ्चैव करणीं कर्तरीं तथा ।  
शिवार्चनाग्निकार्यञ्च जपध्यानञ्च शक्तितः ॥   ४-५८ ॥
व्याख्यामनुग्रहं कार्यमेवं भवतु सर्वदा ।  
सर्वाधिकारभावञ्च दत्वाशिष्यस्य देशिकः ॥   ४-५९ ॥
ब्राह्मणक्षत्रिया वैश्याः शूद्राः शुद्धकुलोद्भवाः ।  
आचार्यदेहि विज्ञेयानान्येषान्तु कदाचन ॥   ४-६० ॥
सर्वमन्त्रजपध्यान ज्ञानं सत्भावभावितम् ।  
सर्वेषान्तु समंज्ञेयं होत्रयादीक्षिताद्ध्वरे ॥   ४-६१ ॥
एवं मन्त्रप्रभावेन कुर्यात् संस्कारकर्मणि ।  
चातुर्वर्णानि चान्यानि शिवयागे तु दीक्षयेत् ॥   ४-६२ ॥
अनुलोमान् प्रतिलोमांश्च सुज्ञात्वा दीक्षयेत् गुरुः ।  
दक्षिणां गुरवे दत्वा वित्तशाठ्य विवर्जितः ॥   ४-६३ ॥
वस्त्रमाभरणञ्चैव मकुटं कुण्डलं तथा ।  
हेमयज्ञोपवीतञ्च हेमपूष्पोपहारकम् ॥   ४-६४ ॥
मुद्राशय्यासनादीनि आचार्यस्य प्रदापयेत् ।  
तेषां षोडशकर्माणि श्रुणु तत्त्वं विनायक ॥   ४-६५ ॥
इति दीक्षाविधिपटलश्चतुर्थः ॥   ४ ॥

No comments:

Post a Comment