Sunday, January 6, 2019

शक्तिप्रतिष्ठाविधिपटलः,सुप्रभेदागमः

अथ शक्तिप्रतिष्ठाविधिपटलः
अथातः संप्रवक्ष्यामि शक्तिसंस्थापनं परम् ।  
वह्नेरुष्णत्ववच्छक्तिरविनाभाविनीविभोः ॥   ३८-१ ॥
अमूर्तिच्छेदमूर्ताख्या समूर्तञ्चेत् समूर्तकम् ।  
सदाशिव शिवौ रुद्रो विष्णुब्रह्मेति भेदिताः ॥   ३८-२ ॥
मनोन्मनीश्वरीचोमा श्रीसावित्री प्रभेदिताः ।  
परापरमिदं भेदं लोकानुग्रहकारिणम् ॥   ३८-३ ॥
मनोन्मनीश्वरी चैव सहैवस्थापनं विदुः ।  
त्रिभेदमन्यच्छक्तीनामेक युक्तं सहेति च ॥   ३८-४ ॥
शक्तिस्तु केवलं यत्र स्थापने त्वघमुच्यते ।  
पूर्वं शंभुं प्रतिष्ठाप्य शक्तेस्तु स्थापनं तथा ॥   ३८-५ ॥
कृतो युक्तोविधानेन युक्तं तत् परिकीर्तितम् ।  
शक्तिंशंभुमथैकत्र स्थापनं तत्सहैव तु ॥   ३८-६ ॥ प्. १९३)
त्रिप्रकारेषु सामान्यं मूलमन्त्रादिकं श्रुणु ।  
मायाबीजञ्च व्योमेन सहबिन्दुं सनादिकम् ॥   ३८-७ ॥
आदिशक्तेस्तु मूलं स्याद्वियद्वापि सबिन्दुका ।  
षडंगास्तु समाख्यातं स्वरेव द्वितयं तथा ॥   ३८-८ ॥
चतुर्त्थमष्टमञ्चैव द्वादशं स्वरमेव च ।  
चतुर्दशस्वरञ्चैव षोडशं स्वरमेव च ॥   ३८-९ ॥
संयोज्य हृच्छिराचूडा वर्मनेत्रास्त्र संज्ञिका ।  
शिरोमन्त्रे विशेषोस्ति सलिलार्णेन संयुतम् ॥   ३८-१० ॥
सविसर्गमथास्त्र स्यात् विन्दुनादविवर्जितम् ।  
आद्यास्वर तृतीयञ्च पञ्चमं दशमान्तकम् ॥   ३८-११ ॥
द्वादशान्तञ्च पञ्चैते सद्यादि ब्रह्मपञ्चका ।  
उच्यते गौरिगायत्री गणांबिकायै विद्महे ॥   ३८-१२ ॥
इत्युच्चार्य तदन्ते तु महातपायैधीमही ।  
एवमुक्त्वा तदन्ते तु तन्नोगौरी प्रचोदयेत् ॥   ३८-१३ ॥
गौरिगायत्रि संज्ञाख्या चतुर्विंशतिकाक्षरा ।  
मृण्मयं शैलजञ्चैकं शेषं लोहजमुच्यते ॥   ३८-१४ ॥
मृण्मये तु तथा नोक्तमधिवासञ्जलेन तु ।  
समानमन्यत् सर्वेषां यथा शक्तिविधीयते ॥   ३८-१५ ॥
पूर्वोक्तेन विधानेन कृत्वा तत्प्रतिमं बुधः ।  
प्रतिष्ठादि वसात् पूर्वे कर्तव्यञ्चाङ्कुरार्पणम् ॥   ३८-१६ ॥
पूर्ववद्रत्नविन्यासं कृत्वा तदनुबिंबकम् ।  
सुस्निग्धं कारयित्वा तु नेत्रमोक्षणमारभेत् ॥   ३८-१७ ॥
हैमप्रहारसुचिभ्यां नेत्रमन्त्रेण चारभेत् ।  
हैमप्रहारसुचिभ्यां नेत्रमन्त्रेण देशिकः ॥   ३८-१८ ॥
भ्रूरेखा प्रथमं लिख्य पक्ष्मरेखाद्वितीयकम् ।  
श्वेतमण्डलमालिख्य ततो वै कृष्णमण्डलम् ॥   ३८-१९ ॥
ज्योतिर्मण्डलमध्ये तु कर्तव्यं शिल्पिनाबुधः ।  
शिल्पिमुद्वास्य गुरुणा कर्तव्यं कर्मचोत्तरम् ॥   ३८-२० ॥
हिरण्य नखसंप्रोक्तौ तर्जनीमध्यमाङ्गुली ।  
तासां नेत्रेप्यसौधीमां छक्तिमन्त्रेण संस्पृशेत् ॥   ३८-२१ ॥ प्. १९४)
कांस्ये मधुघृताभ्यान्तु सौवर्णेन तु दूर्वया ।  
हृन्मन्त्रेण तु संसिच्य सवत्साङ्गां पयस्विनीम् ॥   ३८-२२ ॥
गौर्धेनुहव्य मन्त्रेण देशिकोगां प्रदर्शयेत् ।  
ब्राह्मणादिञ्जनान् सर्वान्वीक्षयित्वाक्षमन्त्रतः ॥   ३८-२३ ॥
बिंबशुद्धिं ततः कृत्वा शुद्धतोयैर्विचक्षणः ।  
सर्वालङ्कारसंयुक्तं कृत्वा ग्रामप्रदक्षिणम् ॥   ३८-२४ ॥
जलाधिवासनं पश्चात् त्रिरात्रं वैकरात्रकम् ।  
चतुरश्रां प्रपां कृत्वा दर्भमालाविभूषिताम् ॥   ३८-२५ ॥
वस्त्रैरावेष्टयित्वा तु पुष्पैर्दर्भैर्विशेषतः ।  
कण्ठमात्रे जलेशुद्धे शक्तिं तत्राधिवासयेत् ॥   ३८-२६ ॥
दिक्पालाधिपकुंभानि विन्यसेत् परितोजले ।  
प्रतिष्ठामण्डपं कृत्वा सर्वालङ्कारसंयुतम् ॥   ३८-२७ ॥
षोडशस्तंभसंयुक्तं चतुर्द्वारसमायुतम् ।  
चतुस्तोरणसंयुक्तं दर्भमालाभिशोभितम् ॥   ३८-२८ ॥
तन्मध्ये वेदिकां कृत्वा तत्त्रिभागैकविस्तृताम् ।  
हस्तमात्रसमुत्सेधां दर्पणोदरसन्निभाम् ॥   ३८-२९ ॥
तालमात्रसमुत्सेधामुपवेदीं प्रकल्प्य वै ।  
तस्योत्तरसमीपे तु तद्वद् वै स्नानमण्डपम् ॥   ३८-३० ॥
तन्मध्ये स्नानवेदीञ्च तिस्रोवाद्व्येकमेखलाम् ।  
स्थण्डिले वेदिकोर्ध्वे तु अष्टद्रोणैश्च शालिभिः ॥   ३८-३१ ॥
तिलतण्डुलसंयुक्तं पद्ममष्टदलं लिखेत् ।  
अण्डजाद्यैर्विशेषण संकल्प्यशयनं तथा ॥   ३८-३२ ॥
अलाभे त्वण्डजादीनां वस्त्रः संकल्प्य पञ्चभिः ।  
प्रागुक्तलक्षणोपेतस्त्वादिशैव कुलोद्भवः ॥   ३८-३३ ॥
सुस्नात्वाचन्म्यविधिवत् सर्वालङ्कारसंयुतम् ।  
नीत्वा जलोषितं बिंबं स्नापयेत् पञ्चगव्यकैः ॥   ३८-३४ ॥
स्नानवेद्युपरिस्थाप्य सुस्नाप्य विधिपूर्वकम् ।  
गणांबिकेतिमन्त्रेण अष्टमृत्सलिलेन तु ॥   ३८-३५ ॥
तदाम्लेलेपनाद्यैश्च बिंबशुद्धिं यथोचितम् ।  
गन्धपुष्पादिनाभ्यर्च्य बीजमुख्येन देशिकः ॥   ३८-३६ ॥ प्. १९५)
ततः सुवर्णसूत्रेण बध्वा प्रतिसरं बुधः ।  
घृतः शिरोर्पणं कृत्वा हेमदूर्वाङ्कुराक्षतैः ॥   ३८-३७ ॥
शयने शाययेच्छक्तिं शिरः पूर्वमुखोर्ध्वतः ।  
वस्त्रैराच्छादयित्वा तु पुण्याम्बुनितु देशिकः ॥   ३८-३८ ॥
स्थण्डिले तूपवेद्यान्तु निष्कलंकाञ्छुभां दृढान् ।  
वस्त्रहेमसमायुक्तान् सूत्राक्षतसपल्लवान् ॥   ३८-३९ ॥
लोकपालाधिपानष्ट कुंभान् पूर्वादितः क्रमात् ।  
आवृतान् कलशांश्चैव हैमसूत्राष्टसंयुतान् ॥   ३८-४० ॥
सकूर्चान् सापिधानांश्च वस्त्रयुग्मेन वेष्टितान् ।  
वामादिशक्ति संयुक्ता नष्टौ संस्थापयेद्धृदा ॥   ३८-४१ ॥
गन्धपुष्पादिनाभ्यर्च्य हृदयेन विचक्षणः ।  
वर्धनी सूत्रसंयुक्तान् वस्त्रयुग्मसमावृतान् ॥   ३८-४२ ॥
सकूर्चां सापिधानांश्च आदिशक्त्यधिदैवतान् ।  
हेमपंकजनिक्षिप्तां नवरत्नसमायुतान् ॥   ३८-४३ ॥
बिंबस्य शिरसश्चैव भावे संस्थाप्यबीजतः ।  
गन्धपुष्पाक्षताद्यैश्च संपूज्याग्निमथारभेत् ॥   ३८-४४ ॥
नवपञ्चाग्निकं वापि त्रयं वा चैकमेव वा ।  
योन्याकाराणि विधिवत् ततः कुण्डं प्रकल्पयेत् ॥   ३८-४५ ॥
अग्न्याधानान्ततः कृत्वा पूर्ववत् षोडशक्रियाम् ।  
आहूयाग्नौ तु तच्छक्तिं बीजमुख्येन मन्त्रवित् ॥   ३८-४६ ॥
पूर्ववत् समिधाज्यैस्तु होमं कृत्वा स्वमन्त्रतः ।  
स्पर्शाहुतिं ततः कृत्वा तत्तन्मन्त्रेण मन्त्रवित् ॥   ३८-४७ ॥
प्रभाते सुमुहूर्ते तु सर्वातोद्यसमायुतम् ।  
आचार्यमूर्तिपांश्चैव दैवज्ञं संप्रपूजयेत् ॥   ३८-४८ ॥
पूर्णाहुतिं ततो दत्वा बीजमुख्येन मन्त्रतः ।  
शक्तिबिंबन्ततोत्थाप्य स्नानवेद्युपरिन्यसेत् ॥   ३८-४९ ॥
वर्द्धनीन्तु ततोत्थाप्य देशिकश्चोत्तराननः ।  
बिंबस्य हृदये मूर्ध्नि नाभौ मूले तु विन्यसेत् ॥   ३८-५० ॥
न्यस्त्वा ब्रह्माङ्गमन्त्राणि विन्यसेत् सर्वमात्रकाः ।  
वर्धकुंभस्थ शक्तीश्च बिंबे संयोज्यमूलतः ॥   ३८-५१ ॥ प्. १९६)
बीजमुख्येन मन्त्रेण तज्जले नाभिषिच्य वै ।  
वामादि शक्तिकुंभाद्भिः संस्थाप्य स्वस्वमन्त्रकैः ॥   ३८-५२ ॥
स्नान लेपादिभिरद्भि स्वस्वमन्त्रैर्विशेषतः ।  
पाद्यमाचमनञ्चार्घ्यं दद्याद् देव्यै हृदादिभिः ॥   ३८-५३ ॥
अभ्यर्च्य गन्धपुष्पाद्यैस्सर्वालङ्कारसंयुतम् ।  
पायसं हविषं तत्र हृदयेन प्रदापयेत् ॥   ३८-५४ ॥
एवमेवं समाख्यातं युक्तं तत्र वदामि ते ।  
मण्डपं विधिना कृत्वा तन्मध्ये वेदिकां क्रमात् ॥   ३८-५५ ॥
सर्वालङ्कारसंयुक्तां वितानध्वजभूषिताम् ।  
तन्मध्ये स्थण्डिलं कृत्वा वह्निं तत्रैव संयजेत् ॥   ३८-५६ ॥
तत्र मानुषनाहे तु उमारुद्रौ तु वारुणे ।  
वामभागे ह्युमां न्यस्त्वा सर्वालङ्कारसंयुताम् ॥   ३८-५७ ॥
नववस्त्रैरुमारुद्रौ प्रशान्तायेति भूषयेत् ।  
आचार्यो ब्रह्मवद्ध्यात्वा विवाहे सर्वकर्मणि ॥   ३८-५८ ॥
पूर्वोक्तेन विधानेन अग्न्याधानादिकं तथा ।  
विष्णुं तत्रैव चाहूय देवीमुदकपूर्वकम् ॥   ३८-५९ ॥
रुद्रस्य दक्षिणे हस्ते बीजमुख्येन दापयेत् ।  
वामे श्मानन्तु संस्थाप्य गौरीगायत्रिमंत्रतः ॥   ३८-६० ॥
देव्याः पादञ्च रुद्रेण स्पर्शयित्वाश्मनि न्यसेत् ।  
शिवमन्त्रेण मन्त्रज्ञो लाजं हुत्वात्रयंबुधः ॥   ३८-६१ ॥
शक्तियुक्तं ततस्सर्वं प्रभूतहविषं ददेत् ।  
युक्तमेवमिदं प्रोक्तं सहैव स्थापनं श्रुणु ॥   ३८-६२ ॥
आरंभस्थापनान्तं यत्सर्वकर्मसहैव तु ।  
सहैव इति विख्यातं चोत्सवोविधिचोदितः ॥   ३८-६३ ॥
एवमेवं तथा प्रोक्तं लक्षः सावित्रयस्तथा ।  
शक्तिसंस्थापनं प्रोक्तं परिवारमथ श्रुणु ॥   ३८-६४ ॥
इति शक्तिप्रतिष्ठाविधिपटलः अष्टत्रिंशत्तमः

No comments:

Post a Comment