Sunday, January 6, 2019

जातिभेदविधिपटलो द्वितीयः,सुप्रभेदागमः

अथ जातिभेदविधिपटलः
अथातः संप्रवक्ष्यामि जातिभेदविधिं क्रमात् ।  
शिवसृष्टिः पुरापश्चात् ब्रह्मसृष्टिः प्रवर्तते ॥   २-१ ॥
गोचरास्तु ततो भेदाः शिवभेदा द्विधास्मृताः ।  
मुखेषु ब्राह्मणाजातास्तत् बाह्वोः क्षत्रियास्तथा ॥   २-२ ॥
वैश्या ऊरुश्च विज्ञेयाः पादयोः शूद्रजातयः ।  
चतुर्वर्णस्य संयोगात् प्रतिलोमानुलोमतः ॥   २-३ ॥
तेषान्तद्योगकाले तु जायन्ते चान्तरालकाः ।  
ततो वृत्तेश्च जायन्ते तेषाञ्चैवोत्भवं श्रुणु ॥   २-४ ॥ प्. २३७)
वर्णेवर्णे यथा मातश्शक्तिशंभुमयात्मकाः ।  
शक्तिस्त्रीरूपमित्युक्तं पुरुषः शंभुरुच्यते ॥   २-५ ॥
शक्तिशंभुमयं प्राहुर्जगदेतच्चराचरम् ।  
ब्राह्मणादि चतुर्वणाः सुस्नानं ह्यनुपूर्वशः ॥   २-६ ॥
तेषां वृत्ति समाचारं ततस्नत्वं वदाम्यहम् ।  
शिवसृष्ट्या यथा यस्माज्जायन्ते केवलं मुखात् ॥   २-७ ॥
चतुर्वर्णां शुद्धवर्णा दीक्षायां प्रापयेच्छिवम् ।  
लौकिकाचारमार्गेण सर्वेषां वर्तनं श्रुणु ॥   २-८ ॥
अद्ध्यनञ्चाद्ध्यापनं यजनंयाजनं तथा ।  
दानं प्रतिग्रहञ्चैव तेषां कर्माणि चोच्यते ॥   २-९ ॥
जायन्ते ब्रह्मबाह्वोश्च क्षत्रियास्तु महामते ।  
नृपक्षत्रियराजानौ राजाभूपाश्च भूपकाः ॥   २-१० ॥
षडेते निजनामानि तेषां पर्यायवाचकाः ।  
जगतः पालनन्तेषां स्वधर्मपरिपालनम् ॥   २-११ ॥
ब्रह्माण ऊर्वोर्वैश्यानाञ्जननन्तु विधीयते ।  
पीतायां न्यास्तु वणिजः कामदास्सर्वलौकिकाः ॥   २-१२ ॥
पञ्चैतानि मयोक्तानि वैश्यपर्यायवाचकाः ।  
गोपाल कृषिवाणिज्य कर्मत्रयसमायुताः ॥   २-१३ ॥
पादयोस्त्वं सृजत् शूद्रान् स्त्रीवर्णानामुपासकान् ।  
शुश्रूषान्तु द्विजानाञ्च शूद्राणां वृत्तिरुच्यते ॥   २-१४ ॥
कृष्णाश्च कार्षकाः शूद्रा वृषला प्रेष्यकारकाः ।  
एतानि पञ्चनामानि शूद्रपर्यायवाचकाः ॥   २-१५ ॥
अथितश्चाथशूद्रस्तु सत्शूद्रं वैश्यवत् स्मरेत् ।  
अमद्यपाः कुलीनास्तु सत्शूद्रास्ते प्रकीर्तिताः ॥   २-१६ ॥
तत्तद्वर्णेषु विधिना जायन्ते क्रमशः तथा ।  
ब्राह्मणादि चतुर्वर्णाः वर्णानां स्वस्वजातयः ॥   २-१७ ॥
चातुर्वर्णा इमे प्रोक्तास्त्वनुलोमानि मे श्रुणु ।  
स्वर्णं प्रथमं विद्यादंबष्ठश्च द्वितीयकम् ॥   २-१८ ॥
पारशैवस्तृतीयन्तु जायन्ते ब्राह्मणोद्भवैः ।  
मत्गुरूत्युग्रनामा च जायेतेतौ नृपस्य तु ॥   २-१९ ॥ प्. २३८)
वैश्यस्य चूचुको ज्ञेयस्त्वनुलोमाः षडैव तु ।  
संप्राप्य विप्रोधर्मेण रक्तकन्यां समन्त्रकम् ॥   २-२० ॥
तत्र जातस्सवर्णस्तु जानुलोमेषु पूजितम् ।  
तत्ब्राह्मणस्तु संज्ञो वै कर्माधर्मण विस्मृतः ॥   २-२१ ॥
हयङ्गजंरथं वापि वाहयेद् वा नृपाज्ञया ।  
सेनापत्यञ्चमूनां वा कुर्यादाजीवसंयुतः ॥   २-२२ ॥
पीतस्त्री विप्रसंयोगादंबष्ठोनामजायते ।  
तस्य वृत्तिर्भवेत् कक्ष्या तथैव ज्वालनर्तनम् ॥   २-२३ ॥
शूद्रस्त्री विप्रसंयोगाज्जातः पारशव स्मृतः ।  
शूलञ्चक्षुद्र वाद्यञ्च नालिशंसन जीवनम् ॥   २-२४ ॥
नृत्तं वाद्यञ्च कर्तव्यं तथामद्दल वृत्तिका ।  
रक्तस्य पीतकन्यायां जातोमत् गुरिति स्मृतः ॥   २-२५ ॥
महाश्रेष्ठी तु नाम्ना च वैश्य प्रत्युपजीवनम् ।  
इयन्तत्रैव वृत्तिस्तु नक्षत्रं कर्म आचरेत् ॥   २-२६ ॥
कृष्णाया रक्तसंयोगाज्जात श्रोत्र इति स्मृतः ।  
दण्डकर्मसुरक्तस्तु दण्डन्तत्रैव कारयेत् ॥   २-२७ ॥
कृष्णायां पीतसंयोगाज्जातश्चूचुक एव वा ।  
काष्ठञ्चैव तृणादीनि वन्यजातीववृत्तिकः ॥   २-२८ ॥
क्रमुकानां फलैः पत्रैर्विक्रियाजीववृत्तिका ।  
अनुलोमा इमे प्रोक्ताः प्रतिलोमास्ततः श्रुणु ॥   २-२९ ॥
वैदेह पुल्कसञ्चैव चण्डालश्च तथैव च ।  
आयोगोमागधश्चैव जायन्ते कामतश्चतु ॥   २-३० ॥
सूतो नृपस्य एवञ्च प्रोच्यते प्रतिलोमतः ।  
वैश्यायां कृष्णसंयोगाज्जातो वैदेहकः स्मृतः ॥   २-३१ ॥
गवां महिषमेषाणां कुर्यात् सम्यक् प्रपालनम् ।  
पालिप्रत्युपजीवी च तेषां तत् क्रयविक्रयम् ॥   २-३२ ॥
रक्तायां कृष्णसंयोगाज्जातः पुलस उच्यते ।  
सुरासङ्ग्रहणं कृत्वा विक्रयं जीवनं स्मृतम् ॥   २-३३ ॥ २३९)
श्वेतायां शूद्रसंयोगाज्जातश्चण्डाल उच्यते ।  
कर्णे संधाय्यगोचर्म आयसाभरणं तथा ॥   २-३४ ॥
झल्लरीकक्षतो वापि मलंसर्वं व्यपोह्य च ।  
पूर्वाह्णे संविशेत् ग्राममपराह्णेन संविशेत् ॥   २-३५ ॥
रक्तायां पीतसंयोगाज्जातस्त्वा योगवस्मृतः ।  
वस्त्रतन्त्रोपजीवी च तन्तुवाया भवेत् खदॄ ॥   २-३६ ॥
विप्रस्त्रीपीतसंयोगाजातो मागध उच्यते ।  
सर्वांश्च वन्दनं कृत्वा कीर्तनञ्च विशेषतः ॥   २-३७ ॥
अधसंस्पृश्यन्तु कृष्णञ्चेत् तस्यान्नन्तु न भुज्यते ।  
सर्वेषां प्रेषणं कृत्वा तज्जं वारिकवृत्तिका ॥   २-३८ ॥
विप्रायान्तु नृपस्यैव विधिनायदि जायते ।  
पूजितः प्रतिलोमेषु ससूतो नामनामतः ॥   २-३९ ॥
श्वेतत्वप्रतिलोमेषु अस्यैव तु विधीयते ।  
तेषामध्ययनं प्रोक्तं धर्माणामनुबोधकम् ॥   २-४० ॥
प्रतिलोमा इमे प्रोक्ताः गूढजातास्ततः श्रुणु ।  
ब्राह्मण्यां ब्राह्मणस्यैव प्रमादात् गूढजातकः ॥   २-४१ ॥
सोपिविप्रस्तु विज्ञेयो यागाध्यापनवर्जितः ।  
नृपायां ब्राह्मणस्यैव चोररूपेणजायते ॥   २-४२ ॥
ज्योतिषंगणितञ्चैव भूततन्त्रार्थ निश्चितम् ।  
आयुर्वेदमथाष्टाङ्गमुच्यते गणिकस्य तु ॥   २-४३ ॥
वैश्यायां ब्राह्मणस्यैव चोरा वै कुम्भकारकाः ।  
कुलाल वृत्याजीवी च नापिताश्चतदेव तु ॥   २-४४ ॥
सूतके प्रेतके चान्ये नाभेरूर्ध्वन्तु चार्पयेत् ।  
शूद्रायास्तु द्विजस्येव चोराज्जातो निषादकः ॥   २-४५ ॥
अन्तव्याल मृगादीनि सङ्ग्रहादुपजीवकः ।  
श्वेतायान्तु नृपाच्चोराज्जातः सोरथकारकः ॥   २-४६ ॥
आचरेत् शूद्रवन्नित्यं श्वेतत्व प्रतिवर्जितः ।  
वाहनानि तु संप्रेष्य तेषां तु परिचारकम् ॥   २-४७ ॥ प्. २४०)
रक्तायां रक्तसञ्चोरात् सोपिरक्त इति स्मृतः ।  
अभिषेकं विना तस्य शासनी पट्टबन्धनम् ॥   २-४८ ॥
आचारं रक्तवन्नित्यं भोज इत्यभिधीयते ।  
पुनर्भूकरणे जातो रक्तायां रक्तनामतः ॥   २-४९ ॥
भोजैस्समन्तं विद्यात नृपंकानिनमेव च ।  
वैश्यायां रक्तसंञ्चोरा दश्वव्यापारमुच्यते ॥   २-५० ॥
वृषल्या रक्तसञ्चोराच्चूलिकोनाम उच्यते ।  
रज्ञश्चैव नियोगेन शूलकर्मस्वयोजितः ॥   २-५१ ॥
ब्राह्मण्यां पीतसञ्चोराज्जातः कालरिति स्मृतः ।  
वस्त्राणां जलसेकन्तु क्षालनं वृत्तिरस्य तु ॥   २-५२ ॥
रक्तायां पीतसञ्चोरादारण्या जीववृत्तिकः ।  
पीतायां पीतसञ्चोरामणिकारक उच्यते ॥   २-५३ ॥
मणीनां विक्रयं कृत्वा शंबायां वलय क्रिया ।  
वृषल्यां पीतसञ्चोरात् कटप्यापार उच्यते ॥   २-५४ ॥
श्वेतायां कृष्णसञ्चोराद्वेदकारक उचयते ।  
रक्तायां कृष्णसञ्चोराज्जातो वैणक उच्यते ॥   २-५५ ॥
अस्पृश्याश्च त्रिभिर्वर्णैर्वैणवं जपमाचरेत् ।  
पीतायां कृष्णसञ्चोराज्जातोलवण विक्रयः ॥   २-५६ ॥
स एव च क्रिकोज्ञेयस्तैलपिण्याक वृत्तिकः ।  
कृष्णायां कृष्णसञ्चोराज्जातोमालव उच्यते ॥   २-५७ ॥
तद्वृत्तिर्गोगजाश्वानां तृणभारञ्च वा भयेत् ।  
अन्तराल इमे प्रोक्ता वृत्याश्चैव तत श्रुणु ॥   २-५८ ॥
अनुलोम प्रतिलोमानाञ्चातुर्वर्णेषु कारणम् ।  
तत्र जातमनुष्याणां वृत्ताभिख्यासुरत्र वै ॥   २-५९ ॥
अबष्ठस्य तु विप्रायां जातोवापकवृत्तिकः ।  
रक्तायां पीतवद्योगा दधोनापित उच्यते ॥   २-६० ॥
रोमाणां वपनं कुर्यात् वृत्तिर्नाभेरधस्ततः ।  
विप्रस्त्रीचूचुकस्यैव जातस्तक्षकनामतः ॥   २-६१ ॥
रक्तायामेव तस्यैव जातोमाल्यस्य बन्धकः ।  
पीतायामपिजातोसौ सामुद्रः पश्यजीवकः ॥   २-६२ ॥ प्. २४१)
मज्जाततस्तु विप्रायां श्रवणञ्च विधीयते ।  
रक्तायामेव सञ्जातः कर्मकार इति स्मृतः ॥   २-६३ ॥
अग्रस्त्रीपुष्कलयोश्च जातोरजक उच्यते ।  
चण्डालस्य तु विप्रायाञ्जातः श्वपच उच्यते ॥   २-६४ ॥
श्वमांसं भक्षणं तेषाम् श्मशाने तु निवासयेत् ।  
एवमादीनि भेदानि युक्तियुक्तानि योजयेत् ॥   २-६५ ॥
इह तस्माच्च भेदानि वक्तुं वर्षशतैर्न हि ।  
समासोक्त्या तु भेदानि चोक्तं दीक्षार्भकान् श्रुणु ( च्शृणु) ॥   २-६६ ॥
ब्राह्मणाक्षत्रिया वैश्याः शूद्राश्चैव प्रकीर्तिताः ।  
एतेषां चातुर्वर्णानामाचार्यत्वं नियोजयेत् ॥   २-६७ ॥
सतु संस्कारमन्येषां कुर्यात् तद्देशिकोत्तमः ।  
अनुलोमाश्च षट्प्रोक्ताः प्रतिलोमास्त्रय स्मृताः ॥   २-६८ ॥
सूतश्च मागधश्चैव आयोगावसृतीयकः ।  
अन्तरालश्च सर्वे च दीक्षाकर्मणियोजिताः ॥   २-६९ ॥
व्रात्यस्सर्वे तु संयोज्यास्सर्वकर्मबहिष्कृताः ।  
जातिभेदं मयाप्रोक्तं मण्डलञ्च ततः श्रुणु ॥   २-७० ॥
इति जातिभेदविधिपटलो द्वितीयः

No comments:

Post a Comment