Sunday, January 6, 2019

शास्ता स्थापनविधिपटलः,सुप्रभेदागमः


अथ शास्ता स्थापनविधिपटलः
अथातः संप्रवक्ष्यामि शास्ता स्थापनमुत्तमम् ।  
शास्ता सर्वस्य लोकस्य तस्माच्छास्तेति चोच्यते ॥   ५३-१ ॥
तस्योक्तञ्च स्वरूपञ्च स्थापनञ्च श्रुणुष्व हि ।  
समुद्रमथने काले परिग्रह्यामृतं तथा ॥   ५३-२ ॥
हरिर्बभूवस्त्रीरूपा मोहीनीनामनामतः ।  
तन्मोहिनीमहंदृष्ट्वा सङ्गतोस्मि कदाचन ॥   ५३-३ ॥
जातस्तदा महाशास्ता मेद्ध्याहाम्रवतीश्वराः ।  
द्विनेत्रं द्विभुजं कृत्वा सर्वाभरणभूषितम् ॥   ५३-४ ॥
श्यामवर्णयुतं तेषां शुक्लयज्ञोपवीतिनम् ।  
श्वानकुक्कुटमेषाद्यैः क्रिडन्तं सर्वसिद्धिदम् ॥   ५३-५ ॥
मदनावर्णनी देवौ पीतौरससमन्वितौ ।  
सर्वाभरणसंयुक्तौ पार्श्वयोर्विन्यसेत् ततः ॥   ५३-६ ॥
वामे दमनकं न्यस्त्वा ते द्वेषं विकृतं स्मृतम् ।  
द्विभूजं दक्षिणेहस्ते चक्रदण्डमथेश्वरम् ॥   ५३-७ ॥
फलपल्लवहस्तञ्च कुञ्चितां घ्रिकरं द्वयम् ।  
भूताकारं बृहत्कुक्षिं निलालकविभूषितम् ॥   ५३-८ ॥
शास्तुश्च लक्षणं प्रोक्तं स्थापनं श्रुणु तत्वतः ।  
प्रासादे नै-ऋते भागे ग्रामादीनाञ्च नै-ऋते ॥   ५३-९ ॥
अष्टदिक्षु च पूर्वादि तत्ग्रामस्य पराङ्मुखम् ।  
प्रासादं कारयेद्धिमान् गजपृष्ठं विशेषतः ॥   ५३-१० ॥
अथवामण्डलं वापि कर्तव्यं प्रतिमां ततः ।  
भद्रासने त्वधासीनं तथा वीरासनं तु वा ॥   ५३-११ ॥
मृद्दारुशैललोहैश्च कारयेच्छास्त्रवित्तमः ।  
शैलस्थापनवच्छेषं मन्त्रध्यानमथोक्तवत् ॥   ५३-१२ ॥
तस्मादाद्याक्षरेणैव मूलमन्त्रप्रयोगवत् ।  
अग्निमध्ये तु तद्रूपं ध्यात्वा होमन्तु मन्त्रवित् ॥   ५३-१३ ॥ प्. २२२)
तद्रूपभावनाविष्टा स्थापनादिसमाचरेत् ।  
तद्रूपं कौतुकं स्थाप्यमूलबेरस्य चाग्रतः ॥   ५३-१४ ॥
लोहादीनि तथा कार्यं मृच्छिलादीनि कारयेत् ।  
अर्चयित्वाथ विधिना हविष्यन्तु निवेदयेत् ॥   ५३-१५ ॥
शास्तुः संस्थापनं ह्येवं जीर्णोद्धारविधिं श्रुणु ।  
इति शास्तास्थापनविधिपटलस्त्रिपञ्चाशत्तमः

No comments:

Post a Comment