Sunday, January 6, 2019

आधाराधेय विधिपटलस्तृतीयः ३ ,सुप्रभेदागमः

अथ आधाराधेयविधिपटलः
अथातः संप्रवक्ष्यामि आधाराधेयलक्षणम् ।  
आधारं स्थानमित्युक्तमाधेयमधि दैवतम् ॥   ३-१ ॥
आधाराधेय संबन्धाद्योगमित्यभिधीयते ।  
योगं बहुविधं वत्स आधाराणां बहुत्वतः ॥   ३-२ ॥
योगिनां योगमित्युक्तं ज्ञानिनां ज्ञानमेव च ।  
वक्ष्येहमधुनायोगं संक्षेपान्नतु विस्तरात् ॥   ३-३ ॥ प्. ३०७)
योगिनां साधकं पूर्वं मच्छृणुष्व हि साधके ।  
प्रथमञ्चासनञ्चैव द्वितीयं योगपट्टिका ॥   ३-४ ॥
तृतीयमक्षमाला च वेणुदण्डञ्चतुर्थकम् ।  
कमण्डदॄ विजानीयात् पञ्चमन्तु विशेषतः ॥   ३-५ ॥
तेषान्तु लक्षणं वक्ष्ये चासनं कूर्मवत् कृतम् ।  
खादिरोदेवदारू च मधुको बिल्व एव च ॥   ३-६ ॥
अथवा याज्ञिकै वृक्षैः कृत्वा कूर्मासनं तथा ।  
पादोनं वा तदर्द्धं वा त्रिविधं त्वासनं तथा ॥   ३-७ ॥
दर्पणोदरसङ्काशमधस्तादवदं तथा ।  
आसनं त्वेवमाख्यातं योगाभ्यासे विनायक ॥   ३-८ ॥
व्याघ्राजीनं तु प्रधमा कृष्णाजिनं द्वितीयकाः ।  
अथवा तन्तुना कार्या त्रिविधायोगपट्टिका ॥   ३-९ ॥
विस्तारन्त्र्यङ्गुलं प्रोक्तं नमानमुपवीतवत् ।  
जपमालाशिरोमाला हृंमाला बाहुमालका ॥   ३-१० ॥
कर्णपृष्ठात् तु नाभ्यन्ता उरोमाला इति स्मृताः ।  
शिरोमाला तु तन्नाहा भुजमालाभुजासमा ॥   ३-११ ॥
जपमालां समानेन संख्यामात्रं श्रुणुष्व हि ।  
पञ्चविंशति रुद्राक्षैर्मोक्षार्त्थिनाञ्जपं स्मृतम् ॥   ३-१२ ॥
षड्विंशति शिवार्थञ्च ज्ञानार्थं शत्रुनाशनम् ।  
सप्तविंशति इत्यर्थं पुष्ट्यर्थमष्टविंशतिः ॥   ३-१३ ॥
त्रिंशज्जयार्थिनां कार्यं दशपञ्चाभिचारकः ।  
जपमालासमाख्याता जपमालाविधिं श्रुणु ॥   ३-१४ ॥
प्रणवं सर्वमन्त्रेषु सर्वमुच्चार्यते यतः ।  
प्रणवं संप्रवक्ष्यामि संक्षेपान्न तु विस्तरात् ॥   ३-१५ ॥
अकारञ्च उकारञ्च मकारं बिन्दुरूपकम् ।  
अकारं ब्रह्मदैवत्यमुकारं विष्णु दैवतम् ॥   ३-१६ ॥
मकारं रुद्र दैवत्यं बिन्दोरीश्वर एव हि ।  
नादं सदाशिवं प्रोक्तमित्येते अधिदेवताः ॥   ३-१७ ॥ प्. ३०८)
अकारं तु हृदिस्थानं उकारं कर्णदेशकम् ।  
तादॄमध्यं मकारं स्यात् बिन्दोश्चैव ललाटकम् ॥   ३-१८ ॥
तस्योपरि च नादस्य स्थानं ह्येवं प्रकीर्तितम् ।  
अकारादि त्रयोवर्णास्त्वनुस्वार विसर्गकौ ॥   ३-१९ ॥
पञ्चवर्णाः प्रशस्यन्ते अकाराक्षर संभवाः ।  
******** उकाराह्यापि संभवा ॥  २०॥
कादिभामक्षिकारेता यकारान्यस्तु बिन्दुके ।  
जाताना देशकारान्यास्त्वेते पञ्चाशति स्मृताः ॥   ३-२१ ॥
प्रणवं सर्ववर्णाख्यं सर्वदेवमयं विदुः ।  
ऋषिस्सनत्कुमारस्तु ओंकारः शुक्लवर्णकः ॥   ३-२२ ॥
गायत्रीच्छन्द इत्युक्तं तस्य वै शिवतत्वकः ।  
ओमित्येकाक्षरं * * * * * * * * वा हिनाम् ॥   ३-२३ ॥
प्रणवन्तु समास्योक्ता स्मृतपञ्चाक्षरं श्रुणु ।  
नमःशिवाय पञ्चार्णमेतत् पञ्चाक्षरं स्मृतम् ॥   ३-२४ ॥
वाचिकायस्तु विज्ञेयस्तद्वाच्यस्य शिवः स्मृतः ।  
जपं शक्तिप्रदंशस्तं मल्लयोमुक्तिरिष्यते ॥   ३-२५ ॥
ऋषिच्छन्दोवर्णतत्वा देवतास्तु श्रुणु क्रमात् ।  
काश्यपः कौशिकश्चैव भारद्वाजस्तु गौतमः ॥   ३-२६ ॥
आत्रेयस्तु न कारादि मुनयः क्रमशस्तथा ।  
अनुष्टुप् त्रिष्टुप् ब्रहति जगत्यति जगत्यपि ॥   ३-२७ ॥
च्छन्दांसिहि समाख्याता वर्णाद्यैश्चक्रमाच्छृणु ।  
रक्तं कृष्णन्तथा श्यामं पीतं स्फटिकसन्निभम् ॥   ३-२८ ॥
पृथिव्यादीनि तत्वानि तेषां तत्वं प्रकीर्तितम् ।  
सद्यादि पञ्चवक्त्राणि तेषां देवाः प्रकीर्तिताः ॥   ३-२९ ॥
प्रणवेन समायुक्तं जपकाले तथोच्यते ।  
तदा षडक्षरं प्रोक्तं स्त्रीशूद्रादैस्तु वर्जितम् ॥   ३-३० ॥
जपञ्चतुर्विधं प्रोक्तं सर्वेषां जपकांक्षिणाम् ।  
मानसञ्चैव कण्ठेष्यमुपांशु व्यक्तमेव च ॥   ३-३१ ॥ प्. ३०९)
व्यक्तंदशगुणोपांशुस्तस्मात् कण्ठेष्यकं शतम् ।  
सहस्रं मानसं तस्मादङ्गुल्यादि जपं श्रुणु ॥   ३-३२ ॥
अङ्गुल्या जपसंख्यातु तुल्या एकफलं तथा ।  
पर्वणाष्टगुणं प्रोक्तं दीपेशतगुणाधिकम् ॥   ३-३३ ॥
शतसङ्ख्याकुशग्रन्धी प्रवालैस्तु सहस्रकम् ।  
मणिभिर्दशसाहस्रं मौक्तिकैर्ल्लक्षमुच्यते ॥   ३-३४ ॥
पद्माक्षैः कोटिगुणितं रुद्राक्षैस्तु न विद्यते ।  
रुद्राक्षैस्तु ततोत्पत्तिं श्रुणुत्वं वक्ष्यतेऽधुना ॥   ३-३५ ॥
दिव्यवर्षसहस्रन्तु चक्षुरुन्मीलितं मया ।  
मुञ्चन्ति मम नेत्राणि श्रितरुद्राक्षमुच्यते ॥   ३-३६ ॥
एकवक्त्रं शिवः साक्षादनन्तन्धारणे फलम् ।  
सन्धार्यमृयते यस्तु सयाति परमाङ्गतिम् ॥   ३-३७ ॥
द्विवक्त्रं शक्तिरित्युक्तं त्रिवक्त्रं नादमेव च ।  
चतुर्वक्त्रन्तु बिन्दु स्यात् पञ्चवक्त्रं सदाशिवम् ॥   ३-३८ ॥
षड्वक्त्रमीश्वरं प्रोक्तं रुद्रस्सप्तमुखं स्मृतम् ।  
अष्टवक्त्रं स्मृतो विष्णुर्नववक्त्रञ्चतुर्मुखम् ॥   ३-३९ ॥
नववक्त्रैकवक्त्रान्तं फलं शतगुणोत्तरम् ।  
हस्ते कर्णेशिखेकण्ठे सन्धार्यं सहभस्मना ॥   ३-४० ॥
सर्वपापात् प्रमुच्यन्ते शिवसायुज्यमाप्नुयात् ।  
दर्शनं पापनाशन्तु स्पर्शनं सर्वसिद्धिदम् ॥   ३-४१ ॥
सर्वाङ्गधारणात् पुण्यं रुद्राक्षं धारयेत् सदा ।  
प्रयाणकाले रुद्राक्षं भक्षयित्वा मृयन्ति ये ॥   ३-४२ ॥
ते रुद्र पदमाप्नोति पुनर्जन्म न विद्यते ।  
तस्मात् सर्वप्रयत्नेन जप्यं रुद्राक्षकैस्सदा ॥   ३-४३ ॥
जपकालञ्च देशञ्च वक्ष्यते तु समासतः ।  
पूर्वाह्ने चैव मध्याह्ने चापराह्नेर्धरात्रिके ॥   ३-४४ ॥ प्. ३१०)
चतुष्कालं त्रिकालं वा तद्देशन्तु ततः श्रुणु ।  
नदीतटाकतीरे वा गोष्ठे देवालयेपि वा ॥   ३-४५ ॥
वने वाथ गिरौ देशे पुण्यस्थाने ग्रहे जपेत् ।  
देशमेवं समाख्यातं जपसंख्यां ततः श्रुणु ॥   ३-४६ ॥
सहस्रं वा तदर्धं वा तदर्धं वा शताष्टकम् ।  
जपेन् नित्यं सदायोगी सर्वपापविनाशकृत् ॥   ३-४७ ॥
सयाति जपमात्रेण शिवलोकमथाक्षयम् ।  
जपसंख्या विधिप्रोक्तो वेणुदण्डविधिं श्रुणु ॥   ३-४८ ॥
विप्राणान्तु शिरोत्सेधं क्षत्रियाणां ललाटके ।  
वैश्यानां नासिकोत्सेधं शूद्रादीनान्तु वर्जयेत् ॥   ३-४९ ॥
वेणुदण्डमृजुं स्निग्धं वक्रकोटरवर्जितम् ।  
दण्डस्यैव विधिः प्रोक्ता कमण्डदॄविधिं श्रुणु ॥   ३-५० ॥
पूरितञ्चाढकैः श्रेष्ठं मध्यं त्रिप्रस्थपूरितम् ।  
द्विप्रस्थपूर्णमधमं मानमेवं कमण्डलोः ॥   ३-५१ ॥
सौवर्णं रजतं वापि ताम्रं वा मृण्मयं तु वा ।  
यदुक्तं शिल्पशास्त्रेषु तत्तदुक्ता तु कारयेत् ॥   ३-५२ ॥
शैवाना साधनं प्रोक्तं पञ्चधा समुदाहृतम् ।  
योगाष्टकांगौ वक्ष्यामि श्रुणुष्वेकाग्र मानसः ॥   ३-५३ ॥
यमनियमासनञ्च प्राणायामं ततः परम् ।  
प्रत्याहारञ्च ध्यानञ्च धारणा च समाधिकम् ॥   ३-५४ ॥
अष्टाङ्गमिति विज्ञेयं योगिनां योगसाधनम् ।  
अहिंसा सत्यमस्तेयं ब्रह्मचर्यपरिग्रहम् ॥   ३-५५ ॥
यमन्तु पञ्चधा प्रोक्तं नियञ्च ततः श्रुणु ।  
शौच सन्तोषकात्तच्च तपःस्वध्यायमेव च ॥   ३-५६ ॥
ईश्वर प्रणिधानञ्च नियमं पञ्चधा स्मृतम् ।  
गोमुखं स्वस्तिकञ्चैव पद्मञ्चैवार्धचन्द्रकम् ॥   ३-५७ ॥
वीरयोगासनञ्चैव षड्विधश्चासनं स्मृतम् ।  
वामजानूपनिन्यस्य दक्षिणञ्जानुमण्डलम् ॥   ३-५८ ॥ प्. ३११)
द्वयोः पादतले चैव न्यसेत् द्वौपृष्ठ पार्श्वयोः ।  
एवं कृत्वा तु सुस्निग्धं गोमुखीलक्षणान्वितम् ॥   ३-५९ ॥
ऊरूपार्श्वे तलौ न्यस्त्वा जंघामघ्नन्तु स्वस्तिकम् ।  
ऊरूपरितले न्यस्त्वा पद्मासनमिहोच्यते ॥   ३-६० ॥
गुल्फत्रयं समं कृत्वा तलेगुह्ये च विन्यसेत् ।  
अर्द्धचन्द्रं समाख्यातं वीरासनं ततः श्रुणु ॥   ३-६१ ॥
द्विभुजं पतितं वामपादं दक्षिणतोपरि ।  
स्थिरं वीरासनं प्रोक्तं योगासनं ततः श्रुणु ॥   ३-६२ ॥
शरीरञ्जानु संबन्धं योगपट्टिकया वृतम् ।  
कूर्परौ चैव विन्यस्तं योगासनमिहोच्यते ॥   ३-६३ ॥
कृत्वा चैवैकमेतेषां ततो योगं समाचरेत् ।  
योगाभ्यासस्य पूर्वे तु प्राणायामत्रयं कुरु ॥   ३-६४ ॥
रेचकं पूरकञ्चैव कुंभकं योगमभ्यसेत् ।  
योगाभ्यासस्य पूर्वे तु प्राणायामत्रयं कुरु ॥   ३-६५ ॥
रेचकं पूरकञ्चैव कुंभकञ्च द्वितीयकम् ।  
रेचकं रविबिंबं स्यात् पूरकं चन्द्रमण्डलम् ॥   ३-६६ ॥
आग्नेयं कुंभकं ज्ञेयं सकायोद्ध्यान पूजयेत् ।  
रेचनाद्रेचकं प्रोक्तं पूरणात्पूरकं ततः ॥   ३-६७ ॥
कुंभकन्तु निरोधेन प्रणवेनाभ्यसेत्त्रयम् ।  
रेचकात् द्वादशं मात्रं तन्मात्रं पूरकं स्मृतम् ॥   ३-६८ ॥
कुंभकं द्वादशं मात्रमिहशास्त्रे तु निश्चितम् ।  
रेचकं ब्रह्मदैवत्यं पूरकं विष्णुदैवतम् ॥   ३-६९ ॥
कुंभकं रुद्रदैवद्यमधि देवास्त्रयं स्मृतम् ।  
रेचकं पूरकञ्चैव योगिनान्तु अहर्निशि ॥   ३-७० ॥
सूतकं प्रोतकं मुक्त्वा कुंभकेन तु पूरयेत् ।  
प्राणायामक्रमं प्रोक्तं प्रत्याहारं ततः श्रुणु ॥   ३-७१ ॥ प्. ३१२)
इन्द्रियाणीन्द्रियार्थेषु प्रतिस्थाने व्यवस्थितः ।  
यावत् तावत् स्थितीभूतः प्रत्याहारस्स उच्यते ॥   ३-७२ ॥
आधारेषु च संकल्प्य यथासनं स्वरूपकम् ।  
ध्यानमेवं विजानीयात् सर्वदुःखनिवारणम् ॥   ३-७३ ॥
आधारलक्षणं वक्ष्ये संक्षेपान्नतु विस्तरात् ।  
नाभेस्तु चतुरंगुल्य मधस्तादग्निमण्डलम् ॥   ३-७४ ॥
कदंबपुष्पवज्जुष्टं पत्रं जुष्टं त्रिकोणकम् ।  
मूलाधारमधः प्रोक्तं द्वितीयं नाभिमूलके ॥   ३-७५ ॥
भुजङ्गवलयाकारमष्टवर्तुलमेव च ।  
कुण्डलाख्या महानाडी भानुमण्डलमुच्यते ॥   ३-७६ ॥
नाभेरूर्ध्वन्तु यत्पद्मं चंद्रमण्डलमुच्यते ।  
हृदये कर्णमूलेतु तादॄमूले ललाटके ॥   ३-७७ ॥
मूर्ध्निस्थाने तु संकल्प्य ध्यायेत् पद्मकपुष्पवत् ।  
हृत् पद्मलक्षणं वक्ष्ये यथा वदनुपूर्वशः ॥   ३-७८ ॥
नाभौ तन्नालमूलन्तु ऊर्ध्वनालमधोमुखम् ।  
कदलीपुष्पवत् पद्ममष्टपत्रं सकर्णिकम् ॥   ३-७९ ॥
इहशास्त्रेन वा धारं हृत्पद्मेन समायुतम् ।  
आधारलक्षणं प्रोक्तमाधेयञ्च ततः श्रुणु ॥   ३-८० ॥
आधेयं यत्प्रयुक्तञ्च समाधीत्येवमिश्रितम् ।  
इडा च पिङ्गला चैव वीणादण्डस्य पार्श्वयोः ॥   ३-८१ ॥
सुषुम्ना मध्यगा तत्र मध्ये तु सुषिरं तथा ।  
जीवप्राणसमायुक्तास्तेषु मध्येषु सञ्चरेत् ॥   ३-८२ ॥
सञ्चरन्निह तत्काले आधारेषु व्यवस्थितम् ।  
संयुक्ते योगमाख्यातं योगी खगं समाश्रयेत् ॥   ३-८३ ॥
मूलाधारे ततस्त्वग्नि संयुक्ते योगमभ्यसेत् ।  
योगाभ्यासेन तद्योगी अग्निलोकन्तु संस्पृशेत् ॥   ३-८४ ॥
तदूर्ध्वे भास्करन्ध्यात्वा रविलोकमवाप्नुयात् ।  
एवं ध्यात्वा तदूर्ध्वे तु चंद्रलोकं स गच्छति ॥   ३-८५ ॥ प्. ३१३)
ब्रह्माणं हृदये स्मृत्वा ब्रह्मलोकमवाप्नुयात् ।  
विष्णुं ध्यात्वा तदूर्ध्वे तु कण्ठमूले व्यवस्थितम् ॥   ३-८६ ॥
पुरुषं व्यापयेद्योगी योगाभ्यासेन तत्गुणैः ।  
तादॄमूले स्मरेद्रुद्रं रुद्रलोकपदेच्छया ॥   ३-८७ ॥
पुरुषोपरिवेशान्तं व्यापकं स्वेन तेजसा ।  
ललाटे ईश्वरं ध्यात्वा तल्लोकं तदवाप्नुयात् ॥   ३-८८ ॥
सदाशिवन्तु शिरसि ध्यात्वा तत्रैव पूज्यते ।  
हृत्पद्ममध्यं गत्वा तु बिन्दुनादञ्च शक्ति च ॥   ३-८९ ॥
चतुरङ्गुलमात्रेण दीपाकारं विचिन्तयेत् ।  
चतुस्थानेषु संपूज्य तत्तत्स्थान स्वरूपकैः ॥   ३-९० ॥
शिरोपरिन्यसेत् ब्रह्ममव्ययं निष्कलान्वितम् ।  
तस्माद्योग समायुक्तो योगीयोगफलं लभेत् ॥   ३-९१ ॥
अणुमात्रं लभेद्यस्मादणिमेत्यभिधीयते ।  
सहस्रैर्वा यथा गत्वा मूलवर्णप्रदेशकम् ॥   ३-९२ ॥
स्वेच्छया लभते यस्मात् तस्मात् सा लघिमा स्मृता ।  
भूमौ मनो जपं कृत्वा पूज्यते शास्त्रवादिभिः ॥   ३-९३ ॥
सर्वत्र पूजितो यस्मात् तस्मात् सा महिमा भवेत् ।  
सर्वद्रव्याणि संप्राप्तिः प्राप्तिरेषामुदाहृता ॥   ३-९४ ॥
प्रकाम्येषु शरीरेषु प्रकाशन्तु प्रवेशिता ।  
सूर्यादिष्वनवाप्तत्वादीशत्वं समुदाहृतम् ॥   ३-९५ ॥
यदीशत्वन्तु तत्रैव तदीशित्वं विधीयते ।  
शिवसायुज्य सामर्थ्यात्तच्छिवत्वमिति स्मृतम् ॥   ३-९६ ॥
अणिमाद्यष्ट सिद्धिञ्च लभेद्योगी विशेषतः ।  
सालोक्यादि चतुर्थश्च प्राप्यते योगी लक्षणम् ॥   ३-९७ ॥ प्. ३१४)
सालोक्यञ्चैव सामीप्यं सा रूप्यं सा युज्यकं तथा ।  
ध्यानलोकन्तु संप्राप्य सा लोक्यन्तद्विधीयते ॥   ३-९८ ॥
तद्देवस्यं समीपत्वात् सामीप्यमिति चोच्यते ।  
तत्तद्रूपन्तु लब्ध्वा तत् सारूप्यमिति च स्मृतम् ॥   ३-९९ ॥
शिवे संयोजितं रूपं सायुज्यमिति कत्थ्यते ।  
योगं समासात् संप्रोक्तं ज्ञानपादं ततः श्रुणु ॥   ३-१०० ॥
तद्योगपादं क्रमशः प्रमाणैर्यत्प्रोक्तमत्रैव समासतस्तत् ।   
नाडी तु चक्रन्त्वथ कालचक्रमाधारयुक्तं पटलत्रयेण ॥   ३-१०१ ॥
इति आधाराधेय विधिपटलस्तृतीयः ॥   ३ ॥
इति सुप्रभेदेयोगपादस्समाप्तः

No comments:

Post a Comment