Sunday, January 6, 2019

कर्षण पटलः

अथ कर्षण पटलः
अथातः संप्रवक्ष्यामि प्रासादार्थन्तु कर्षणम् ।  
सुमुहूर्ते सुलग्ने च देशिकः शिल्पिभिस्सह ॥   २५-१ ॥
उत्तरायणकाले तु कर्षणादीन् समारभेत् ।  
शिशिरश्च वसन्तश्च ग्रीष्म प्रावृट् तथैव च ॥   २५-२ ॥
शरच्चैव तु हेमन्तो ऋतवः षट्प्रकीर्तिताः ।  
तपस्तपस्य शिशिरस्तौ मासौमाखफाल्गुनौ ॥   २५-३ ॥
वसन्तश्चैत्र वैशाखौमासौ तौमधुमाधवौ ।  
ज्येष्ठाषाढाव्रतु ग्रीस्मोमासौ शुक्लशुचिस्मितौ ॥   २५-४ ॥
प्रावृट्च्छ्रावण भाद्राख्यौ नभोनभस्य संज्ञितौ ।  
मासौ शरदिषोर्जौ तु तावाश्वयुजकार्तिकौ ॥   २५-५ ॥
सहः सहस्यौ हेमन्तौ मार्गपुष्यौ तु तौ स्मृतौ ।  
दक्षिणं शर्वरी ज्ञेया देवानामुत्तरोत्तमौ ॥   २५-६ ॥
दिनौतदुत्तरायणे दक्षिणे त्वरिते मतम् ।  
मार्गशीर्षं तथा षाढं प्रोष्ठं माखंविवर्जयेत् ॥   २५-७ ॥
सर्वे मासाग्रहीतव्याः शिवेन परिभाषिताः ।  
तत्रापि सर्वमासेषु वसन्तश्रेष्ठ उच्यते ॥   २५-८ ॥
श्रेष्ठं मध्यममेवोक्तं अधमं दक्षिणायनम् ।  
नक्षत्रपक्षवाराश्च पूर्वमेव सुभाषिताः ॥   २५-९ ॥
कृत्तिका वह्निदैवत्यं रोहिणी च प्रजापतिः ।  
मृगशीर्षः सोमदेवत्यमार्द्रायान्तु शिवं स्मृतम् ॥   २५-१० ॥
पुनर्वसोस्त्वदित्याश्च तिष्यस्य च बृहस्पतिः ।  
आश्लेषस्य हिनागः स्यान्मखस्य पितरस्तथा ॥   २५-११ ॥
भोगो हि फाल्गुने चैव ह्यर्यमोत्तर फाल्गुनः ।  
हस्तं सावित्रमित्युक्तं सर्वकार्येषु पूजितम् ॥   २५-१२ ॥
त्वष्टा चैव तु चित्ताया स्वातेर्वै वायुदैवतम् ।  
इन्द्राग्नी च विशाख्यस्य त्वनूराधस्यमिश्रकम् ॥   २५-१३ ॥
ज्योष्ठायाश्चैव चेन्द्रस्तु मूलस्य नि-ऋतिस्तथा ।  
पूर्वाषाढांभ इत्युक्ता स्थपनेष्वहितं त्विदम् ॥   २५-१४ ॥ प्. १२१)
विश्वे देवोत्तराषाढं ब्रह्मात्माभिजितस्तथा ।  
श्रवणस्य हरिश्चैव श्रविष्ठावसवस्तथा ॥   २५-१५ ॥
वरुण श्शतभिषजस्त्वजः प्रोष्ठपदस्य तु ।  
उत्तरप्रोष्ठ पादस्य त्वहिर्बुद्ध्निश्च कीर्तितम् ॥   २५-१६ ॥
पूषा चैव तु रेवत्याश्चाश्विन्याश्वयुजस्तथा ।  
यमश्चैव भरण्याश्च दिनानामधिदैवताः ॥   २५-१७ ॥
तिष्यश्रवणहस्तार्द्रामैत्रादित्यमखास्तथा ।  
प्राजापत्याश्वयुक् स्वाति सौम्यपौष्ण्यत्रिरुत्तराः ॥   २५-१८ ॥
द्वितीया च तृतीया च पञ्चमी षष्ठ सप्तमी ।  
दशम्येकादशी चैव प्रतिपच्च त्रयोदशी ॥   २५-१९ ॥
पौर्णमासी च तिथयः शुक्लपक्षे विशेषतः ।  
राशयश्चरवर्ज्यास्तु शेषाग्राह्याधनुर्विना ॥   २५-२० ॥
बुधः शुक्रेन्दु जीवश्च वाराश्रेष्ठास्तु नेतराः ।  
द्रेक्काणांशकहोराश्च एकादर्शनमिष्यते ॥   २५-२१ ॥
त्यक्त्वा सोमोदयं तत्र चान्येषामुदयं शुभम् ।  
व्याधि पीडां करोत्यत्र क्रूरैर्जुष्टदिनं त्विह ॥   २५-२२ ॥
सोमसूर्यौ च भुञ्जाश्च त्रिषष्ठाय स्थिताः शुभाः ।  
त एव लग्नगाः कुर्यार्व्याधिशोक भयानि तु ॥   २५-२३ ॥
अष्टमस्थाग्रहास्सर्वे कर्तुः कुर्वन्ति दुस्थितम् ।  
एकादश गतास्सर्वे क्षेमारोग्यसमृद्धिदाः ॥   २५-२४ ॥
भयकृत् भार्गवः प्रोक्तस्सट्सप्तदशम स्थितः ।  
नवद्विसप्त पञ्चस्थो गुरुः शोभनकृत् तथा ॥   २५-२५ ॥
सोमोति सौख्यकृत् प्रोक्तो द्वितीये पञ्चमेपि च ।  
रविवारः शुभोयुक्तः पौष्णहस्तत्रिरुत्तरैः ॥   २५-२६ ॥
सौरिवारः शुभः प्रोक्तस्वातीरोहिणी योगतः ।  
बुधयुक्ता द्वितीया च गुरुः षष्ठिसमायुतः ॥   २५-२७ ॥
इन्दुरेकादशी युक्तः प्राणपीडां करोति हि ।  
पौष्णस्तु सप्तमीयुक्त प्रजान्दहति वह्निवत् ॥   २५-२८ ॥ प्. १२२)
अशुभः सोमवारस्तु उत्तराषाढसंयुतः ।  
विष्ठिस्त्रणान्त नक्षत्रखण्डांश्च गुलिकांस्त्यजेत् ॥   २५-२९ ॥
दुर्दिने च दिशादाहे भूकंपे चण्डमारुते ।  
अशनिध्वनिसंयुक्त दिवसे चाशुभं स्मृतम् ॥   २५-३० ॥
संक्रान्तौ ग्रहणे चैव अयने विषुवे तथा ।  
उत्सवे शान्तिकाले वा षडशीतिमुखेपि च ॥   २५-३१ ॥
यदिमोहेन कुर्याच्चेत् कर्तुर्वै वस्तुनाशनम् ।  
एवं परीक्ष्य बध्नियात् यदीश्चेच्छ्रियमात्मनः ॥   २५-३२ ॥
पर्वतेषु च रम्येषु ग्रामे च नगरेथवा ।  
इन्द्रेशाने त्वथेशाने सोमेशानेऽथवा पुनः ॥   २५-३३ ॥
यस्मिं देशेमनोज्ञे तु तत्र प्रासादमारभेत् ।  
अथभूमिं परिक्ष्यादौ कर्षणन्तदनन्तरम् ॥   २५-३४ ॥
श्वेतारक्ता तथा पीता कृष्णाभू ब्राह्मणादयः ।  
मोक्षदा ब्राह्मणी भूमिर्जयदाक्षत्रिया तथा ॥   २५-३५ ॥
वैश्या भूमिस्तु धनदावृषला पुत्रदायिका ।  
ऊषरां क्रिमिभिर्जुष्टां वल्मीकायां विवर्जयेत् ॥   २५-३६ ॥
जानुमात्रं खनेत्भूमिं तन्मृदापूर्यचावटम् ।  
उत्तमात्वधिकाभूमिस्तत् समञ्चेत्तु मध्यमा ॥   २५-३७ ॥
न्यूनेवर्ज्या प्रयत्नेन तत्रस्थां देवतां न्यसेत् ।  
भूतप्रेत पिशाचानां बलिन्दत्वा विशेषतः ॥   २५-३८ ॥
एतत् तु देवदेवस्य स्थानं कर्तुं महीतले ।  
बलिं पूजाञ्च संग्राह्य शीघ्रं गच्छेद् यथा सुखम् ॥   २५-३९ ॥
एवमुक्त्वा ततो देवानुद्वास्याथ प्रकर्षणम् ।  
पिङ्गलौ पालितौ रक्तौ वृषौ वै नाङ्गहीनकौ ॥   २५-४० ॥
अन्यवर्णं न कर्तव्यं न बालौ न च वृत्तकौ ।  
हेमश्रुङ्गखुरौ न्यस्त्वा वृषमन्त्रेण पूजयेत् ॥   २५-४१ ॥
युगञ्च सहलं बध्वा याज्ञकैर्वृक्षसंभवैः ।  
शमिबिल्वञ्च खदिरो पनसस्तंबकस्तथा ॥   २५-४२ ॥ प्. १२३)
तक्षकेन तथा कृत्वा यन्त्रयित्वा सलोहकम् ।  
हलं युगेनसंबध्वा गोचर्मकृतरज्जुना ॥   २५-४३ ॥
आचार्यस्त्वादिशैवस्तु सकलीकृत विग्रहः ।  
पुण्याहं वाचयित्वा तु संप्रोक्ष्य पञ्चगव्यकैः ॥   २५-४४ ॥
कर्षयेच्छिवमन्त्रेण प्रागुदक् प्रणवां महीम् ।  
आचार्यं पूजयित्वा तु दद्यात् तु सहलौ वृषौ ॥   २५-४५ ॥
तिलसर्षपमुद्गांश्च शालीबीजांश्च वापयेत् ।  
पञ्चरात्र्यां त्वङ्कुरिता ग्राह्यान्या तु विवर्जिता ॥   २५-४६ ॥
तेषु पक्षेषु कालेषु गोगणानां निवेदयेत् ।  
एवं परीक्ष्य वसुधां संग्राह्यो देशिकोत्तमः ॥   २५-४७ ॥
विसृज्यमेष वृषभं गते सूर्ये दिने शुभे ।  
शङ्कुच्छाया गृहीतव्या मण्डलन्तत्र कारयेत् ॥   २५-४८ ॥
कृत्वा समतलं तत्र गोमयेनानुलिप्य च ।  
द्वादशाङ्गुलमायामं स्वायामन्नाहमेव तु ॥   २५-४९ ॥
सप्तांशमूर्ध्वनाहकम् ।  
शमीबिल्व पलाशैर्वा याज्ञिकैर्वा विशेषतः ॥   २५-५० ॥
शंकुन्न्यस्त्वा तु तन्मध्ये भ्रामयेन्मण्डलत्रयम् ।  
शंङ्कुच्छायाञ्च संलक्ष्य पूर्वाह्णे वा पराह्णके ॥   २५-५१ ॥
तन्मध्ये पातयेत् प्राचीं सूत्रमार्गेण देशिकः ।  
प्राचीसूत्रप्रमाणेन मत्स्यन्तत्र प्रकल्प्य च ॥   २५-५२ ॥
भवेत् सूत्रमुदक् चैवं संकल्प्य चतुरश्रकम् ।  
प्रासादमण्डपानाञ्च प्राकाराणाञ्च विस्तृतः ॥   २५-५३ ॥
सङ्ग्राह्य सुविशेषेण पुण्याहं वाचयेत् बुधः ।  
मूलस्थानं गृहीत्वा तु बालस्थानन्तु कारयेत् ॥   २५-५४ ॥
कर्षणाया विधिः प्रोक्तो बालस्थान विधिं श्रुणु ।  

इति कर्षणविधिपटलः पञ्चविंशतितमः ॥   २५ ॥

No comments:

Post a Comment