Sunday, January 6, 2019

ग्रामादिलक्षण पटलः

अथ ग्रामादिलक्षण पटलः
अथातः संप्रवक्ष्यामि ग्रामादीनान्तु लक्षणम् ।  
देवानां पूजनार्थन्तु ग्रामादिविन्यसेत् क्रमात् ॥   २३-१ ॥
ग्रामञ्च नगरञ्चैव पत्तनं खर्पटं परम् ।  
खेटकं कुटिकञ्चैव शिबिरं राजधानिकम् ॥   २३-२ ॥
सेनामुखं दशैतानि कीर्तितानि क्रमेण वै ।  
विप्राणाञ्च ससत्यानां वासोग्राम इति स्मृतम् ॥   २३-३ ॥
स एव विप्रमुख्यानामग्रहार इति स्मृतम् ।  
अनेकजातिसंबाधं नानाशिल्पजनैर्युतम् ॥   २३-४ ॥
क्रयविक्रयकैः कीर्णं सर्वदेवैस्समायुतम् ।  
नगरं त्वितिविख्यातं पत्तनं श्रुणु सांप्रतम् ॥   २३-५ ॥ प्. ११२)
दीपान्तरगतद्रव्यं विक्रयक्रयकैर्युतम् ।  
पत्तनं त्वब्धितीरे तु तयोर्मिश्रन्तु खर्पटम् ॥   २३-६ ॥
क्रयविक्रयकैर्युक्त नानाजातिसमायुतम् ।  
तन्तु वायैस्समायुक्तं तत्पुरं त्वितिसंस्मृतम् ॥   २३-७ ॥
शूद्रैरधिष्ठितं यत्तत् खेटकं त्वितिकीर्तितम् ।  
तेषां समान्तरे येषां वा संकुटिकमुच्यते ॥   २३-८ ॥
राजसेना च मूनान्तु निवेशं शिबिरं स्मृतम् ।  
चतुरङ्गसमाकीर्णं नृपभूतिसमायुतम् ॥   २३-९ ॥
राजवेश्मसमायुक्तं राजधानीति चोच्यते ।  
सर्वजातिसमाकीर्णं नृपवेश्मसमायुतम् ॥   २३-१० ॥
बहुरक्षासमायुक्तं सेनामुखमिति स्मृतम् ।  
ग्रामद्वादश साहस्रैर्दशसाहस्रकैरथ ॥   २३-११ ॥
सहस्राष्टकसङ्ख्भिः कर्तव्यञ्चोत्तमत्रयम् ।  
सप्तषट्पञ्चसाहस्रैर्मध्यमत्रयमेव हि ॥   २३-१२ ॥
चतुस्त्रिद्विसहस्रैस्तु कन्यसत्रयमाश्रयेत् ।  
एवं नवविधं प्रोक्तमथक्षुद्राणि चोच्यते ॥   २३-१३ ॥
सहस्रमर्धमर्धञ्च क्षुद्रेषु वरमुच्यते ।  
द्विशतं त्वर्धमर्धञ्च क्षुद्रमध्यममेव च ॥   २३-१४ ॥
चत्वारिंशदथत्रिंशद्विंशत् क्षुद्रावरं स्मृतम् ।  
अष्टादशविधन्तेषु यथा शक्तन्तु कारयेत् ॥   २३-१५ ॥
विद्याचारगुणैर्युक्तान् पत्न्यग्नि गुरुपुत्रकान् ।  
दरिद्रां वेदशास्त्रज्ञानाहू या भ्यर्चयेत् क्रमात् ॥   २३-१६ ॥
विप्रनामादिकं गोत्रैस्ताम्र पत्रतलेर्पयेत् ।  
ग्रामबीजां विनिच्छित्य तथा प्रत्यकरेणुना ॥   २३-१७ ॥
प्रमाणैर्निश्चितं भूमिं दद्यादुदकपूर्वकम् ।  
एवमेव कृते पश्चात् ग्रामविन्यासमारभेत् ॥   २३-१८ ॥
भूमिं समतलङ्कृत्वा खातकर्षणसंयुतम् ।  
पञ्चसाहस्र दण्डेन कल्पयेदुत्तमस्य तु ॥   २३-१९ ॥
सहस्रदण्डमानेन मध्यमस्य तु बुद्धिमान् ।  
तदर्धदण्डमानेन कर्तव्यं त्वधमस्य तु ॥   २३-२० ॥ प्. ११३)
वृत्तं वा चतुरश्रं वा पूर्वायाममथापि वा ।  
दक्षिणायतमेवाथ कल्पयेत् तन्त्रवित्तमः ॥   २३-२१ ॥
तन्मध्ये नै-ऋतेभागे दण्डमानेन विस्तृतम् ।  
शङ्कुमण्डलमास्तीर्य मध्ये शङ्कुं स लक्षणम् ॥   २३-२२ ॥
खदिरञ्चन्दनं वापि सालयाज्ञकवृक्षजम् ।  
द्वादशाङ्गुलमुत्सेधं नाहङ्कृत्वा तदर्धतः ॥   २३-२३ ॥
मूलात् षोडश हीनाग्रं सुदृढमृजुमव्रणम् ।  
शङ्कुप्रमाणाद् द्विगुणं त्रिगुणं मण्डलत्रयम् ॥   २३-२४ ॥
ब्रह्माणं मनसाध्यात्वा शङ्कुण्डलमध्यमे ।  
न्यस्त्वाच्छायाग्रपतनं दृष्ट्वा संलक्ष्यसुचिना ॥   २३-२५ ॥
पूर्वाह्णे वा पराह्णे वा सूत्रं तत्र प्रसारयेत् ।  
एवं पाचीन्तु सङ्कल्प्य मत्स्ये नोदीचिकंबुधः ॥   २३-२६ ॥
एकाशीति पदन्तत्र सूत्रमानेन कल्पयेत् ।  
तत्रस्थ देवान् सङ्कल्प्य गन्धपुष्पादिभिः क्रमात् ॥   २३-२७ ॥
ईशानश्चाथफर्जन्यो जयन्तश्च महेन्द्रकः ।  
आदित्यस्सत्य अभ्रंशा वन्तरिक्षश्च पूर्वगाः ॥   २३-२८ ॥
अग्निः पूषा च वितथोग्रहक्षतयमौ तथा ।  
गन्धर्वो भृंगराजस्तु मृगश्चिव तु दक्षिणे ॥   २३-२९ ॥
नि-ऋतिद्वौ वारिकश्चैव सुग्रीवं पुष्पदन्तकः ।  
वरुणश्चासुरः शोषः पापयक्ष्मा च पश्चिमे ॥   २३-३० ॥
वायुर्नागस्तथा मुख्यो भल्लाटः सोम एव च ।  
ऋगोदध्ययनश्चैव द्वात्रिंशत् बाह्यदेवताः ॥   २३-३१ ॥
मरीचिको विवस्वांश्च मित्रश्च पृथिवीतरः ।  
आपश्चैवापवत्सश्च सविता सावित्र एव च ॥   २३-३२ ॥
इन्द्र इन्द्र जयश्चैव रुद्रोरुद्र जयस्तथा ।  
१२*********** कल्पयेत् ॥
तत् समंद्वा * * * * * * * * * * * *? ।  
***************** तद्वामुक्तपदेषुवै ॥
तदर्धं क्षुद्रविधिना दक्षिणोत्तरमार्गतः ।  
ग्रहारंभस्य पूर्वे तु देवानामालयं पृथक् ॥   २३-३५ ॥ प्. ११४)
श्रीवत्सन्नाभिवर्तञ्च पार्श्वयुक्तन्तु पद्मकम् ।  
नन्द्यावर्तञ्च भद्रञ्च स्वस्तिकञ्च प्रकीर्णकम् ॥   २३-३६ ॥
ग्रामा ग्रहारयोर्न्यासमेवं प्रोक्तं विशेषतः ।  
कुम्भवेदिक सिंहाख्या स्त्रिधासेना निवेशनम् ॥   २३-३७ ॥
दण्डकन् त्वितिविख्यातं नागरादिप्रकल्पयेत् ।  
वीधयः प्राङ्मुखस्तिस्रस्सप्तपञ्च उदङ्मुखाः ॥   २३-३८ ॥
अष्टद्वारन्तु विन्यासं श्रीवत्सन्तु प्रगद्यते ।  
ता एव विधयः प्रोक्ता नाभियुक्तञ्च मध्यमे ॥   २३-३९ ॥
पार्श्वयो राजवीधी च नाभिवर्तस्य चोच्यते ।  
अनाभिः पूर्ववत् प्रोक्तं पार्श्वयुक्तमिति स्मृतम् ॥   २३-४० ॥
अष्टद्वारसमायुक्तं प्राङ्मुखं पञ्चवीधिकाः ।  
शेषाणि पूर्ववत् कृत्वा नन्द्यावर्तमुदाहृतम् ॥   २३-४१ ॥
द्वारवीधिं यदिप्रोक्ष्यद्रुममध्यम संस्पृशेत् ।  
भद्रकं नामनामेति स्वस्तिकञ्च ततः श्रुणु ॥   २३-४२ ॥
तिर्यग्वीधिरयुग्माश्च प्राङ्मुखाश्चतुरत्थ्यया ।  
स्वस्तिकञ्च इति प्रोक्तं पद्मकञ्च ततः श्रुणु ॥   २३-४३ ॥
नाभिमङ्गलवीधीभ्यामयुग्माः क्षुद्रविधयः ।  
परिवेष्टिञ्च तद्वारमेतत् पद्मकमुच्यते ॥   २३-४४ ॥
तथा स्वस्तिकवत् कृत्वा कोणमध्ये च द्वारकौ ।  
एतत् तु कर्णिका पद्मं पद्मावर्तमथश्रुणु ॥   २३-४५ ॥
पद्मवत् प्रोतरत्थ्यान्तं पद्मावर्तमिति स्मृतम् ।  
स्वमध्ये नाभियुक्तन्तु तद्युक्ता चान्तवीधिका ॥   २३-४६ ॥
प्रकीर्णकमिति प्रोक्तं कुम्भकञ्च ततः श्रुणु ।  
आवृतञ्चोक्तरत्थ्या च कुम्भकञ्चेति कथ्यते ॥   २३-४७ ॥
पञ्च * * * * * * * * * * * * * *? ।
********** कल्पयेत् यत्तरस्य ॥  
सहस्रदण्डमानेन मध्यमस्य तु बुद्धिमान् ।  
तदर्धदण्डमानेन कर्तव्यं त्वधमस्य तु ॥   २३-४९ ॥ प्. ११५)
यथेष्टायतरत्थ्येक द्वारद्वयसमन्वितम् ।  
तद्दण्डकमिति प्रोक्तमेतत् ग्रामादिनामतः ॥   २३-५० ॥
नाभिप्रोक्तं दण्डछेदं सूत्रछेदं न कारयेत् ।  
सगर्भा सर्व-ऋद्धिः स्यादगर्भा सर्वनाशिनी ॥   २३-५१ ॥
तस्मादादौ प्रकर्तव्या सगर्भा पृथिवी ततः ।  
शतद्वयपलैस्ताम्रैस्तदर्धैर्वा तदर्धकैः ॥   २३-५२ ॥
पलैः फेला प्रकर्तव्या हस्तमात्रप्रमाणतः ।  
नवकोष्ठसमायुक्तं सपिधाना समादृढा ॥   २३-५३ ॥
रत्नबीज सम्रध्या तु लोहकन्दानि चैव हि ।  
फेलामध्ये यथा न्यस्त्वा सुमुहूर्ते तु विन्यसेत् ॥   २३-५४ ॥
ग्राममध्ये सभास्थाने द्वारदक्षिणपार्श्वके ।  
देवालये तथा रामे तटाकस्य तु तीरके ॥   २३-५५ ॥
एवं गर्भं सुविन्यस्य ग्रहश्रेणी समारभेत् ।  
त्रिदण्डं पञ्चदण्डं वा सप्तदण्डाधमत्रयम् ॥   २३-५६ ॥
नवैकादशदशकं मध्यमत्रितयं विदुः ।  
दशपञ्चाधिकं सप्तदशचैकोनविंशतिः ॥   २३-५७ ॥
उत्तम त्रितयद्वत्र एषामेक तमंबुधः ।  
विस्ताराभद्विगुणाधिक्यं दण्डैकमधिकं यथा ॥   २३-५८ ॥
विस्तारादर्द्धमायामं द्विगुणं त्रिगुणायतम् ।  
पुरुषस्यप्रधानं हि वासं दक्षिणमुच्यते ॥   २३-५९ ॥
उत्तरेरङ्गमेवं स्यात् स्त्रीणाञ्चेद्विपरीतकम् ।  
ईशे महासनं प्रोक्तं मांहेन्द्रे द्वारवेशनम् ॥   २३-६० ॥
नै-ऋते कल्पयेद् धान्यं फर्ज्जन्येजलनिर्गमम् ।  
विधेरभिमुखद्वारं ग्रहाणां तद्विधीयते ॥   २३-६१ ॥
सप्तविंशति दण्डं वा महावीधि प्रमाणतः ।  
तत् समन्द्वारमाख्यातं तद्वास्तूक्त पदेषु वै ॥   २३-६२ ॥
तदर्धं क्षुद्र विधिना दक्षिणोत्तरमार्गतः ।  
ग्रहारंभस्य पूर्वे तु देवानामालयं पृथक् ॥   २३-६३ ॥ प्. ११६)
ईशाने चेश्वर स्थानं सोमेशानान्तरेऽथवा ।  
तथैन्द्राशान योर्मध्ये कल्पयेत् तु विचक्षणः ॥   २३-६४ ॥
सहस्रभूसुरादूर्ध्वे ब्रह्मेशो वायुदेशके ।  
पञ्चमूर्ति विधानेन स्थापयेद् वै जनार्दनम् ॥   २३-६५ ॥
ऐन्द्रे तु भास्करस्थानं महामोट्यास्तु पावके ।  
दुर्गस्थानन्तु याम्यायां महेशि तुश्च नै-ऋते ॥   २३-६६ ॥
विष्णु स्थानन्तु वारुण्यां सुब्रह्मण्यन्तु वायवे ।  
विनायक स मातृणां स्थानं सम्यक् तथोत्तरे ॥   २३-६७ ॥
प्राकार परिखाबाह्ये मातृणां स्थानमिष्यते ।  
तासां वै चोत्तरद्वारं ग्रामादीनां हिताय वै ॥   २३-६८ ॥
सूर्यस्य पश्चिमद्वारमन्येषां पूर्वतोमुखम् ।  
तटाकस्य तु तीरे तु ज्येष्ठा देवीं प्रकल्पयेत् ॥   २३-६९ ॥
बाह्ये चाभ्यन्तरेवापि देवागारं पृथक् पृथक् ।  
शिवस्य वास्तु बाह्ये तु प्रासादं प्रोक्तदेशके ॥   २३-७० ॥
सन्धिमर्मेषु वीध्यग्रे देवानामालयन्न हि ।  
ग्रामायामस्य पञ्चांशं परितः कल्पयेत् पृथक् ॥   २३-७१ ॥
पैशाचमिति विख्यातं तत्र देवालयं स्मृतम् ।  
शिवस्याराधनं नित्यं भुक्तिमुक्तिप्रदायकम् ॥   २३-७२ ॥
अन्येषां पूजनन्नित्यं ग्राम-ऋद्धिकरं भवेत् ।  
देवस्थानं विनायत्र एककालं न वासयेत् ॥   २३-७३ ॥
नित्यपूजाविहीने तु क्रुद्धं पीडां करोति हि ।  
तत् पूजकास्तु तत् पार्श्वे तस्यालयसमीपतः ॥   २३-७४ ॥
आवासं संप्रकल्प्यैव न्यसेयुर्निरुपद्रवाः ।  
ग्रामादीनान्तु परितः शूद्राणान्तु निवासकम् ॥   २३-७५ ॥
वारिजां पश्चिमेभागे अथवा दक्षिणे दिशि ।  
प्राच्याञ्चैव कुलालानां पश्चिमे वा विशेषतः ॥   २३-७६ ॥
पश्चिमे मांसवृत्तीनां वायव्येमत्स्यजीविनाम् ।  
दक्षिणे तैल वृत्तीनामुत्तरे पुष्पजीविनाम् ॥   २३-७७ ॥ प्. ११७)
आग्नेय्यां नापितानान्तु नै-ऋत्यान्तन्तु वायकान् ।  
परितः परिघातन्तत् बाह्ये चाप्यन्त्यजनान् पृथक् ॥   २३-७८ ॥
पूर्वे वा पश्चिमे वापि कर्मकारान् प्रकल्पयेत् ।  
कारुकाणान्ततो बाह्ये चण्डालानान्ततो बहिः ॥   २३-७९ ॥
ग्रामात् क्रोशमतिक्रम्य नगराणान्तदर्धतः ।  
ग्रामस्यैशान दिक्भागे श्मशानन्तु विधीयते ॥   २३-८० ॥
नद्यास्तीरेऽथवा सोमे कञ्चिद्दूरं समाश्रितम् ।  
चतुर्दिक्षु तटाकञ्च कोणे वापि प्रकल्पयेत् ॥   २३-८१ ॥
एवं समासतः प्रोक्तं ग्रामादीनान्तु लक्षणम् ।  
श्रुणुत्वमेव मनसा विभवस्य तु निश्चयम् ॥   २३-८२ ॥

इति ग्रामादिलक्षणपटलस्त्रयोविंशतितमः ॥   २३ ॥

No comments:

Post a Comment