Sunday, January 6, 2019

हविष्यविधि पटलः

अथ हविष्यविधि पटलः
अथातः संप्रवक्ष्यामि हविष्यविधिमुत्तमम् ।  
नीवारञ्चैव गोधूमं यवं वेणुसमुद्भवम् ॥   १०-१ ॥
प्रधानतण्डुलं प्रोक्तन्नैवेद्यस्य शिवस्य तु ।  
अलाभे चोक्तबीजानामथवा शालितण्डुलैः ॥   १०-२ ॥
श्वेतशाली महाशाली रक्तशाली तथैव च ।  
कृष्णशाली हेमशाली शालायश्च तथान्यकाः ॥   १०-३ ॥
शालयोर्व्रीहहयोर्वाथ तण्डुलार्थं प्रगृह्य च ।  
वर्णगन्धरसैरुष्टास्त्वयोग्यास्तण्डुलास्तथा ॥   १०-४ ॥
चातुर्वर्णोत्भवानारी पतिपुत्रवतीमता ।  
तेषामेक तमे जाता अन्या वा कृतमङ्गला ॥   १०-५ ॥ प्. ४९)
सा तण्डुलक्रियायास्तु युक्ताभक्तिसमन्विता ।  
आदित्यरश्मि सन्तप्ता धान्यं प्रक्षिप्युलूखले ॥   १०-६ ॥
प्राङ्मुखोदुङ्मुखो वापि कुट्टने मुसलेन तु ।  
तुषान् व्यपोह्य शूर्पेण कंबुकाञ्च कणान्त्यजेत् ॥ १०-७ ॥  
अखण्डान् तण्डुलान् ग्राह्य श्वेतवर्णांस्तु निर्मलान् ।  
द्विगुञ्जं माषकं विद्याद्धरणं माषविंशतिः ॥   १०-८ ॥
धरणाष्टौ पलञ्चैव पलंमुष्टिरिहोच्यते ।  
चतुर्मुष्टिस्तथा पादं प्रस्थं पादचतुष्ककम् ॥   १०-९ ॥
आढकन्तच्चतुष्कं स्याद् द्रोणन्तस्य चतुष्ककम् ।  
तवधामार्गमुद्दिश्य नैवेद्यन् तत् प्रकल्पयेत् ॥   १०-१० ॥
प्रातः साये तथा भ्यर्च्य मध्याह्ने च निवेदनम् ।  
प्रस्थद्वयन्तु तत् काले पाचयित्वा निवेदयेत् ॥   १०-११ ॥
एकदीपं द्विकाले च रात्रौ दीपद्वयन्त्विह ।  
एवमुक्तप्रमाणेन क्षुद्रमध्याधमाधमम् ॥   १०-१२ ॥
प्रातः काले च मध्याह्ने द्विप्रस्थन्तण्डुलं हविः ।  
साये संख्यान्तमभ्यर्च्य दीपं प्राग्द्विगुणं भवेत् ॥  १०-१३ ॥
प्रस्थद्वयं त्रिकालेषु प्रत्येकञ्च निवेदयेत् ।  
दीपञ्चैव चतुःप्रोक्ता सायेतु द्विगुणं तथा ॥   १०-१४ ॥
अधमन्त्रयकञ्चैव वाद्यध्वनिसमन्वितम् ।  
स्नाने भोजनके याने प्रच्छन्नपटमार्जने ॥   १०-१५ ॥
बलिदानेप्युषः काले वाद्यघोषन्तु कारयेत् ।  
मध्यमस्याधमे प्रोक्तं मध्याह्ने त्वाढकं हविः ॥   १०-१६ ॥
प्रस्थद्वयं द्विकाले च दीपं विंशतिकं भवेत् ।  
मध्यत्रये तु मतिमान् वाद्यध्वनि समायुतम् ॥   १०-१७ ॥
त्रिकालं बलिलिङ्गे च बलिदानन्नयेत् ततः ।  
मध्यमामध्यमं विद्यात् त्रिकालेष्वाढकं हविः ॥   १०-१८ ॥
अर्धयामे तदर्द्धञ्च चतुर्विंशति दीपकम् ।  
अर्द्धरात्रे तु या पूजार्धयाममिहोच्यते ॥   १०-१९ ॥
स्नानानि तु निवेद्यान्तं बलिहोमविवर्जितम् ।  
वामान्तं वाथ कुर्वीत स्नात्वा वर्जितपूजितम् ॥   १०-२० ॥ प्. ५०)
सायङ्कालस्य यामान्ते पूजायामान्तमुच्यते ।  
त्रिकालं च बलिः प्रोक्तं पुष्पार्घ्यन्तु क्रमेण तु ॥   १०-२१ ॥
वाद्यध्वनिसमायुक्तं शंखकाहलसंयुतम् ।  
मध्याह्ने नित्यहोमञ्च शिवमन्त्रसमन्वितं ॥   १०-२२ ॥
मध्यमस्योत्तमे चैव त्रिकालेस्वाढकत्रयम् ।  
आढकश्चार्धयामेतु दीपसप्ततिसंयुतम् ॥   १०-२३ ॥
त्रिकालं बलिरन्नं स्यात् द्विकालं होममाचरेत् ।  
सर्ववाद्यसमायुक्तं षट्काले च सुघोषयेत् ॥   १०-२४ ॥
षड्विधं यत्र कुर्वीत कालसङ्ख्या न विद्यते ।  
उत्तमस्याधमं ज्ञेयं द्रोणेनैव त्रिसन्धिषु ॥   १०-२५ ॥
द्रोणार्धमर्धयामे तु दीपमष्टशतं भवेत् ।  
त्रिकाले बलिरुक्तं स्यात् त्रिकालं होमसंयुतम् ॥  १०-२६ ॥
वादकानाञ्चतुर्विंशत् सर्ववाद्यसमन्वितम् ।  
गणिकाश्च चतुस्त्रिंशत् चतुर्विंशति वार्धकम् ॥   १०-२७ ॥
रूपयौवनयुक्ताभि स्त्रिकालं नृत्तमाचरेत् ।  
पञ्चाचार्यसमायुक्तं कालं यामसमन्वितम् ॥   १०-२८ ॥
उत्तमं मध्यमे तस्मिन् चतुर्वर्णं हविस्त्रिषु ।  
पायसादीन्विधाने तु प्रत्येकं द्रोणतण्डुलैः ॥   १०-२९ ॥
द्रोणे तु चोदनं कुर्यात् पाचयित्वा पृथक् पृथक् ।  
द्रोणान्न्यधार्धयामे तु दीपञ्चैव शतद्वयम् ॥   १०-३० ॥
त्रिकालं बलिहोमञ्च शीतारिधूपमुच्यते ।  
वाद्यकानां चतुस्त्रिंशत् पञ्चाशत् गणिकान्वितम् ॥   १०-३१ ॥
कालं यामन्तु तस्योक्तं नृत्तं कुर्यात् त्रिसन्धिषु ।  
घटिकाद्वेभवेत् स्नानं घटिकैकार्चनं भवेत् ॥   १०-३२ ॥
निवेद्यार्त्थं त्रिपादं स्याद्यात्रार्थन्तु त्रिपादकम् ।  
अतः परं त्रिघटिका शंखवाद्यादिशोभनैः ॥   १०-३३ ॥
शेषकाले महाहव्यं भक्ष्यादीनां निवेदनम् ।  
परिवेषं विनोदञ्च गेयमुक्तादिभिश्चरेत् ॥   १०-३४ ॥ प्. ५१)
अत्रार्धयामपूजान्ते कुर्यात् कवाटबन्धनम् ।  
अन्यकालेन कर्तव्यं कवाटस्य तु बन्धनम् ॥   १०-३५ ॥
उत्तमान्मध्यमं प्रोक्तं उत्तमोत्तममध्यमे ।  
उत्तमोत्तममुद्दिश्य हविष्यक्रममुच्यते ॥   १०-३६ ॥
पायसादीनि पक्वानि पञ्चद्रोणेन वै पृथक् ।  
तदर्द्धमर्द्धयामे तु दीपं पञ्चशतं भवेत् ॥   १०-३७ ॥
त्रिकालं बलिहोमञ्च पञ्चाशद्वाद्यसंयुतम् ।  
तण्डुलात् त्रिगुणं क्षीरं कदलीफलसंयुतम् ॥   १०-३८ ॥
मुद्गभिन्नञ्चतुर्थाशं यथा शत्यागुलान्वितम् ।  
पायसान्नमिदं प्रोक्तं कृसरान्नन्ततः श्रुणु ॥   १०-३९ ॥
तण्डुलस्य चतुर्थांशं प्रक्षिप्यतिलचूर्णकम् ।  
तच्चतुर्थांश शमाज्यन्तु पाचयित्वा यथा विधि ॥   १०-४० ॥
कृसरान्नमिदं प्रोक्तं गुलान्नमधुनोच्यते ।  
तण्डुलात् द्विगुणं क्षीरं तदर्धांशंगुलं क्षिपेत् ॥   १०-४१ ॥
गुलार्धं प्रक्षिपेदाज्यं गुलान्नमिदमुच्यते ।  
तण्डुलस्य चतुर्धांशं मुद्गजन्तत्र बुद्धिमान् ॥   १०-४२ ॥
नालिकेरफलैः सूक्ष्मैर्मुद्गस्यार्धं सुनिक्षिपेत् ।  
महाहविरथो वक्ष्ये वसुद्रोणाधमाधमम् ॥   १०-४३ ॥
द्विगुणं मध्यमं प्रोक्तं त्रिगुणञ्चोत्तमोत्तमम् ।  
चतुःपञ्चषट्गुणितं मध्यमत्रितयं तथा ॥   १०-४४ ॥
सप्ताष्ट नवगुणितमेतदुत्तमकन्त्रयम् ।  
उपदंशं ततो वक्ष्ये श्रुणु तत्त्वङ्गजानन ॥   १०-४५ ॥
द्वात्रिंशदंशमेव स्यात् सर्पिस्तत्र परिग्रहेत् ।  
षोडशांशन्तु गुल्माषं दद्ध्यष्टांशन्तु संग्रहेत् ॥   १०-४६ ॥
कदलीपनसाम्राञ्च परिपक्वान् समर्चयेत् ।  
तरुणाश्चोपदं शास्युः श्रुणु वक्ष्योपदंशकान् ॥   १०-४७ ॥
कदली चैव कुश्माण्डोर्वारुकञ्च पटोलिका ।  
कोशातकी चरूपुष्पं वेत्राग्रंलिकुचं तथा ॥   १०-४८ ॥
प्रस्थस्य त्रिफलञ्चैव स्तुषित्वा देशिकोत्तमः ।  
वल्लीशूलं तथान्त्रान्तं सर्वान्य न्यासमं तथा ॥   १०-४९ ॥ प्. ५२)
अलाबुन्नालिकेरञ्च सूरणंकारवल्लिका ।  
अन्ये रसयुताः शुद्धाः कन्दमूलफलास्तथा ॥   १०-५० ॥
कटुकाश्च तथा म्लाश्चतिक्ताश्च मधुरास्तथा ।  
तथा लाभो पदंशाञ्च पचेल्लवणसंयुतम् ॥   १०-५१ ॥
प्रक्षालनं ततः कृत्वा सत्कृत्वोद्भिस्तु तण्डुलान् ।  
बीजमुख्येन मन्त्रेणशोधयित्वा विशेषतः ॥   १०-५२ ॥
अर्धाधिकयुतन्तोयं तण्डुलस्य प्रमाणतः ।  
चुल्लिमध्ये न्यसेदग्निं स्वबीजेन तु चार्चयेत् ॥   १०-५३ ॥
तस्योपरि तथा पात्रं काष्ठैरग्निं प्रदीपयेत् ।  
क्रिमिजुष्टैस्तथा काष्ठैर्विस्फुलिङ्गयुतेन च ॥   १०-५४ ॥
गन्धपुष्पादिनाभ्यर्च्य वस्त्रेणा वेष्टयेत् ततः ।  
पिपीलिकाश्रितैश्चैव काष्ठैरग्निन्नदीपयेत् ॥   १०-५५ ॥
अपक्वमतिपक्वञ्च परिम्लानञ्च वर्जयेत् ।  
पात्राणि च शरावाञ्च बाह्यशुद्धिं विशेषतः ॥   १०-५६ ॥
सर्वपात्रेषु तद्बाह्ये त्रिपुण्ड्रन्तु विचक्षणः ।  
हुङ्कारेण तु मन्त्रेण सर्वमुत्थापयेत् क्रमात् ॥   १०-५७ ॥
मुखं वस्त्रेण वाच्छाद्य पाचकस्तान् समुद्धरेत् ।  
अभ्युक्ष्यपरितोमार्गं छत्रपिञ्छसमायुतम् ॥   १०-५८ ॥
शङ्खध्वनिसमायुक्तमालयन्तु प्रवेशयेत् ।  
मण्डपस्योत्तरे भागे दक्षिणे वा निधाय च ॥   १०-५९ ॥
हविष्ये चोपदंशे च आज्ये नैवाभि हारयेत् ।  
सौवर्णं रजतन्ताम्रमधवा कदलीदलम् ॥   १०-६० ॥
शुद्धकांस्येन वा कार्यं पात्रं शतपलेन तु ।  
स्थलकापादरहिता त्रिपादीकार्यमस्थिता ॥   १०-६१ ॥
पीठोत्सौधा महाभद्राः शुद्धकांस्यमयास्समाः ।
दर्वीं हस्ते समादाय सप्रमाणां सलक्षणाम् ॥   १०-६२ ॥
तदाज्ये नाभिचर्यादौ पात्रमन्नेन पूरयेत् ।  
हविष्यस्य चतुर्भागं निवेद्यं स्यात् शिवस्य तु ॥   १०-६३ ॥
पूर्णचन्द्रमिवाकारं गुल्माषेन गुलेन च ।  
फलेनाज्येनदध्ना वा उपदंशैस्समावृतम् ॥   १०-६४ ॥ प्. ५३)
निवेदयेच्छिवायैवं हविष्यं सर्वसिद्धिदम् ।  
हृदयेन तु मन्त्रेण निवेद्य विधिपूर्वकम् ॥   १०-६५ ॥
चतुर्भागैकभागेन परिवारे बलिन्ददेत् ।  
चतुर्भागैकभागेन होमकर्मसमाचरेत् ॥   १०-६६ ॥
शेषांस्तु देशिकायैव दातव्यं भोजनं हितम् ।  
आचमनं हृदादत्वा चण्डेशाय निवेदयेत् ॥   १०-६७ ॥
तांबूलं दापयेत् पश्चात् पत्रस्यैकफलं तथा ।  
फलाच्चतुर्गुणं पत्रं तैलमिश्रं सचूर्णकम् ॥   १०-६८ ॥
तत्वान्यान्युपचाराणि हृदयेन तु दापयेत् ।  
सदाशिवस्य निर्माल्यं मनुष्याणां न भोजनम् ॥   १०-६९ ॥
पशूनाञ्च गजादीनां वा जले वाथ निक्षिपेत् ।  
अथवा वह्निनादाह्य भूमौ वा खनयेत् बुधः ॥   १०-७० ॥
सकलानान्तु नैवेद्यं परिचारकभोजनम् ।  
तदप्यं यजनैश्चैव भोजने त्वथदोषकृत् ॥   १०-७१ ॥
हविष्यलक्षणं प्रोक्तमग्निकार्य विधिं श्रुणु ।  

इति हविष्यविधि पटलोदशमः ॥   १० ॥

No comments:

Post a Comment