Sunday, January 6, 2019

विभवनिश्चय पटलः

अथ विभवनिश्चय पटलः
अथातः संप्रवक्ष्यामि विभवस्य विनिश्चयम् ।  
साम्रतं हारकञ्चैव द्विविधं मार्गमुच्यते ॥   २४-१ ॥
शिवं साम्रमिति प्रोक्तमन्येषां हारकं स्मृतम् ।  
अशक्तः साम्रतं कर्तुं हारकेणसमारभेत् ॥   २४-२ ॥
समाप्ति पूर्वं यत् कर्मसाम्रतं ह्यभिधीयते ।  
पश्चात् कर्मसमाप्तिः स्यात् हारकं मार्गमुच्यते ॥   २४-३ ॥
नवधा कल्पयेद् विद्वान् यज्ञोपस्करमादरात् ।  
आदिशैवांस्तपोयुक्तां विधिज्ञान् मन्त्रसंयुतान् ॥   २४-४ ॥
शिवव्रतधरान्मुख्यान् शैववेद विशारदान् ।  
यस्मिन् सञ्जायते भक्तिस्तस्मिन्नाहूयशास्त्रतः ॥   २४-५ ॥ प्. ११८)
सर्वशास्त्राश्रितं शास्त्रं सर्वज्ञानेषु दुर्ल्लभम् ।  
सर्वपूजा क्रियायुक्तं तन्त्रं सर्वार्थसाधनम् ॥   २४-६ ॥
इदं शास्त्रं परं दिव्यं तमसामिव भास्करः ।  
तस्माच्छैवमिदं श्रेष्ठं रत्नानामिव भास्करः ॥   २४-७ ॥
शैवरत्नमतं दिव्यं शैवशास्त्रार्थ पारगाः ।  
जङ्गमा इवमूर्तिस्थाः शिवस्येव विशेषतः ॥   २४-८ ॥
नमस्कृत्वा यथा न्यायं पप्रच्छेत् सविधानतः ।  
अनुज्ञाप्य स्वदेशस्थान् भक्तियुक्तान् दृढवृतान् ॥   २४-९ ॥
यूयं दासाः शिवेमुख्या युष्माकमिहमुख्यतः ।  
भक्तस्य मम दासस्य युष्मद् भक्तिपरस्य च ॥   २४-१० ॥
अनुमान्यो भवद्भिश्च पूजा संप्रतिग्रह्यताम् ।  
अहं दीक्षां करीष्यामि येषु यज्ञपरं परम् ॥   २४-११ ॥
समाप्यताञ्च युष्माभिर्दीर्घ सत्रं विशिष्यते ।  
अरिष्टानाञ्च शान्त्यर्थं यूयमेव प्रगृह्यताम् ॥   २४-१२ ॥
तत् पुनर्महदत्यन्तं युष्माकं प्रक्षिपाम्यहम् ।  
शतमष्टोत्तरं वापि आदिशैवान् प्रगृह्य च ॥   २४-१३ ॥
एतदेवञ्च कर्तव्यं मयायज्ञसमाप्तिकम् ।  
युष्मच्छासनमार्गेण प्रयताम विशेषतः ॥   २४-१४ ॥
हविषामध्यमे तावदर्चनाभोगमेव तु ।  
गन्धपुष्पार्थमेतावद् धूपस्य च तथैव च ॥   २४-१५ ॥
स्नपनार्थं तथा चैव उत्सवार्थं तथैव च ।  
एतावत् परिचाराणामुद्भूतिकसमन्वितम् ॥   २४-१६ ॥
प्रायच्छित्तार्थमेतावत् कृत्तिकादीपकाय वै ।  
आश्रायणार्थमेतावत् प्रभूतहविरत्थकम् ॥   २४-१७ ॥
न्यूनातिरिक्त वस्त्वेश्च सर्वेषाङ्गुरवे तथा ।  
तन्त्र संरक्षकस्यैव एतावल्लेखकस्य च ॥   २४-१८ ॥
श्रोतॄणाञ्चैव वक्तुश्च दैवज्ञस्य तथैव हि ।  
शुश्रूषकाणामेतावत् भोगमेतावदेवतु ॥   २४-१९ ॥ प्. ११९)
शैवातिथ्यर्थमेतावत् भक्तानामपि चैव हि ।  
वाद्यकानां हि वै तावत् तथा वै तक्षकस्य तु ॥   २४-२० ॥
यथार्हकं तथा स्मृत्वा स्मृत्वा चैव तु कारयेत् ।  
इति सञ्चिन्त्य सर्वस्वं परिकल्प्य यथा क्रमम् ॥   २४-२१ ॥
भूमिभागेन वै ह्येषां भृत्त्यर्थं परिकल्पयेत् ।  
यद्यन्तरेभि ह्रियते तत् समाप्तिफलं भवेत् ॥   २४-२२ ॥
अक्षीणं कल्पयेत् तेषां यथा शुद्धां न भोजनम् ।  
अक्लेशवस्त्रा जीवन्ति नित्यं गन्धादिवासिताः ॥   २४-२३ ॥
ग्रहस्थान् स्थापयेद् धीमान् सर्वोपकरणानि तु ।  
सुपुष्टभोगङ्कृत्वा तु सुस्थिरं शासनान्वितम् ॥   २४-२४ ॥
कृतवानल्पभोगं यः क्लेशेन परिचारकान् ।  
सतमेव हि देवेशः क्लेशयत्य चलात्मकः ॥   २४-२५ ॥
न तिष्ठेद्यदि वा तिष्ठेत् नतमाढ्यं प्रकल्पयेत् ।  
स्वयत्नतः फलंदातुरदातुश्चाप्यफं व्रजेत् ॥   २४-२६ ॥
सहैकविंशत् पूर्वैस्तु स्वकुलैश्च तथानुजैः ।  
वित्तशाठ्येन यः कुर्यात् धर्मशाठ्येन वा नरः ॥   २४-२७ ॥
न तत्फलमवाप्नोति प्रलोभा क्रान्तमानसः ।  
तस्मात् त्रिभागं वित्तस्य जीवनार्थमथात्मनः ॥   २४-२८ ॥
भागद्वयञ्च धर्मार्थमनित्यं जीवितं यतः ।  
साधयित्वा च तत् पूर्णन्ताम्रपात्र तलेर्पितम् ॥   २४-२९ ॥
निश्चयं विभवस्योक्तं कर्षणं श्रुणु सुव्रत ।  

इति विभवनिश्चयपटलश्चतुर्विंशतितमः ॥   २४ ॥

No comments:

Post a Comment