Sunday, January 6, 2019

प्रश्नविधिपटलः ,सुप्रभेदागमः

सुप्रभेदागमः
                       अथ क्रियापादे प्रश्नविधिपटलः ।

वृतम् ।  
देवैर्यक्षैस्सगन्धर्वै स्सिद्धविद्याधरैरपि ॥   १-१ ॥
ब्रह्मामृगाङ्कसूर्यैश्च लोकेशैरिहसंवृतम् ।  
दृष्ट्वा प्रणम्य देवेशं विघ्नेशोवाक्यमब्रवित् ॥   १-२ ॥
भगवन् देवदेवेश लोकनाथजगत्पते ।  
अनन्यमानसो भूत्वा शिवज्ञानं परं वद ॥   १-३ ॥
यदवाप्यनरास्सर्वे मुक्तिमायान्ति केवलाम् ।  
ज्ञानयोगक्रियाचर्याः पुराप्रोक्तास्सविस्तराः ॥   १-४ ॥
पुंसामनुग्रहार्थाय संक्षेपाद् वक्तुमर्हसि ।  
तन्त्राणामुद्भवं किञ्चित् मन्त्राणामुद्भवं कथम् ॥   १-५ ॥
किं शौचा चमनं देव स्नानं भस्मविधिः कथम् ।  
अर्चनाङ्गञ्च पूजा च मुद्राणां लक्षणं कथम् ॥   १-६ ॥
नैवेद्यं चाग्निकार्यश्च अग्निकुण्डबलिः कथम् ।  
उत्सवस्यविधिः कोवा स्नपनस्य विधिः कथम् ॥   १-७ ॥
शीतकुम्भं कथं देव नवनैवेद्य लक्षणम् ।  
कार्तिक्याङ्कृत्तिकादीपमाषाढे पूरकर्मकम् ॥   १-८ ॥
फलपाक विधानञ्च आचार्यस्य च लक्षणम् ।  
लक्षणं करणानाञ्च ग्रामादीनां कथं प्रभो ॥   १-९ ॥
विभव निश्चयं किं वा कर्षणस्य विधिः कथम् ।  
बालालयविधिः कोवा धामवास्तु विधि कथम् ॥   १-१० ॥
आद्येष्टकाविधानं किं गर्भन्यासविधिः कथम् ।  
अङ्गुलीनां विधानं किं कथं प्रासादलक्षणम् ॥   १-११ ॥
मूर्ध्नेऽष्टकाविधानं किं कथं वा लिङ्गलक्षणम् ।  
प्रतिमालक्षणं किं वा अङ्कुरार्पणलक्षणम् ॥   १-१२ ॥
लिङ्गसंस्थापनं किञ्च सकलस्थापनं कथम् ।  
शक्तिनां स्थापनं किं वा परिवारस्य लक्षणम् ॥   १-१३ ॥ प्. २)
अथाष्ट परिवाराणां स्थापनञ्च पृथक् पृथक् ।  
इन्द्रादीनां प्रतिष्ठा च आदित्यस्थापनं कथम् ॥   १-१४ ॥
क्षेत्रपालप्रतिष्ठा च शूलस्य स्थापनं कथम् ।  
अस्त्रराजप्रतिष्ठा च शास्तुश्च स्थापनं कथम् ॥   १-१५ ॥
जीर्णोद्धारविधिः किं वा प्रायश्चित्तविधिः कथम् ।  
तन्त्राणां सङ्करोपेतं क्रियापादे कथं प्रभो ॥   १-१६ ॥
चर्या पादे च शैवानामुद्भवञ्च कथं प्रभो ।  
जातिभेदविधानं किं मण्डलस्य कथं प्रभो ॥   १-१७ ॥
दीक्षामार्गं कथन्तेषां चर्यापादे व्यवस्थितम् ।  
आदिशैवानुशैवानां कथं वा शोडश क्रियाः ॥   १-१८ ॥
व्रताचाराः कथन्तेषां पवित्रारोहणं कथम् ।  
दीक्षितानां नृपाणाञ्च स्वर्णगर्भ तुलाकथम् ॥   १-१९ ॥
हिरण्यगर्भ तुलाभारं दहनस्य विधिः कथम् ।  
पितृयज्ञविधानं किं स पिण्डीकरणञ्च किम् ॥   १-२० ॥
अष्टकायाविधानञ्च प्रायश्चित्तविधिः कथम् ।  
नाडीचक्रं कथं योगे कालचक्रं तु कीदृशम् ॥   १-२१ ॥
आधाराधेयकं सर्वं योगपादे तु कीर्तितम् ।  
ज्ञानपादे महादेव शिवसृष्टिक्रमं कथम् ॥   १-२२ ॥
पशुसृष्टिश्चका देव षडध्वालक्षणं कथम् ।  
मया तु तानिप्रश्नानि प्रश्नान्यन्यान्यशेषतः ॥   १-२३ ॥
वक्तुमर्हसि मे देव अनुग्रह्योह्यहं प्रभो ।  
                                    श्रीभगवानुवाच
साधु साधु महाप्राज्ञ यत् त्वयापरिचोदितम् ॥   १-२४ ॥
शुद्धशैवमिदं तन्त्रं न देयं न प्रकाशितम् ।  
दीक्षितस्य सुधीरस्य शिवभक्तिपरस्य च ॥   १-२५ ॥
श्रवणीयं न चान्यत्र कथनं हि प्रशस्यते ।  
चतुष्पादयुतं तन्त्रं भुक्तिमुक्त्यर्थकारणम् ॥   १-२६ ॥
सारात् सारमिदं तन्त्रं सुप्रभेदं विनायक ।  
तवस्ते हादहं वक्ष्ये तत्सर्वं श्रूयतां क्रमात् ॥   १-२७ ॥ प्. ३)
शैवं पाशुपतं सोमं लाकुलञ्च चतुर्विधम् ।  
तेषु शैवं परं सौम्यं रौद्रं पाशुपतादिकम् ॥   १-२८ ॥
शैवं पुनश्चतुर्भेदं वामदक्षिणमेव च ।  
मिश्रञ्चैव तु सिद्धान्तं तेषु सिद्धान्तमुत्तमम् ॥   १-२९ ॥
अष्टाविंशति भेदेन सिद्धान्तं श्रुणु तत्वतम् ।  

इति प्रश्नविधिपटलः प्रथमः ॥   १ ॥

No comments:

Post a Comment