Sunday, January 6, 2019

क्षेत्रेशस्थापनविधिपटलः,सुप्रभेदागमः

क्षेत्रेशस्थापनविधिपटलः
अथातः संप्रवक्ष्यामि क्षेत्रेशस्य विधिक्रमम् ।  
ईश्वरस्यायुतांशेन क्षेत्रपालोद्भवं तथा ॥   ५०-१ ॥
ग्रामादावैशदिग्भागे लोकरक्षार्थकारणम् ।  
प्रासादं प्रतिमां तत्र पूर्वोक्तविधिना तथा ॥   ५०-२ ॥
द्वारन्तु पश्चिमे मुख्यं दक्षिणे मध्यमं स्मृतम् ।  
कन्यसञ्चेन्द्रदिक् द्वारं प्रतिमालक्षणं ततः ॥   ५०-३ ॥ प्. २१८)
चतुर्भुजं त्रिणेत्रं वा षट्भुजञ्चाष्टहस्तकम् ।  
सुदंष्ट्रं भैरवाकारं कृष्णवर्णं दिगंबरम् ॥   ५०-४ ॥
सर्पयज्ञोपवीतञ्च शिरोमालाकरोटिकम् ।  
ऊर्ध्वकेशं सुवृत्ताक्षं नागाभरणभूषितम् ॥   ५०-५ ॥
त्रिशूलं दक्षिणेहस्ते वामहस्ते कपालकम् ।  
खट्गञ्च दक्षिणेहस्ते वामहस्ते तु खेटकम् ॥   ५०-६ ॥
एवं चतुर्भुजं विद्धि षत्भूजञ्च ततः श्रुणु ।  
नागञ्च दक्षिणेपाणौ तोमरं वामहस्तके ॥   ५०-७ ॥
प्रागुक्तायुधसंयुक्तं षट्भूजं त्विति कीर्तितम् ।  
शूलं डमरुखट्वांगं दक्षिणे वामहस्तके ॥   ५०-८ ॥
एवमष्टभुजं प्रोक्तं षट्भुजायुधसन्निभम् ।  
जलस्थापनवत् कृत्वा रत्नन्यासादि पूर्वकम् ॥   ५०-९ ॥
क्षेत्रपालं स्वमन्त्रेण प्रतिष्ठां सम्यगाचरेत् ।  
क्षेत्रपालाधिकं प्रोक्तं शूलस्थापनकं श्रुणु ॥   ५०-१० ॥
इति क्षेत्रेशस्थापनविधिपटलः पञ्चाशत्तमः ॥   ५० ॥

No comments:

Post a Comment