Sunday, January 6, 2019

विघ्नेशस्थापनविधिपटलः,सुप्रभेदागमः

अथ विघ्नेशस्थापनविधिपटलः
अथातः संप्रवक्ष्यामि विघ्नेशस्थापनं परम् ।  
आदौ त्वहमुमासार्धं क्रीडार्थं हिमवद्वने ॥   ४३-१ ॥
करेणुश्च गजेन्द्रेण संभोगमकरोत्ततः ।  
यदृच्छया तु तन्दृष्ट्वा तदा कारमगामहम् ॥   ४३-२ ॥
करेण्वराकृतिञ्चोमां तदा क्रीडमहं भृशम् ।  
तस्यान्तु गर्भमदधात् तस्मिन्काले तपोभवेत् ॥   ४३-३ ॥
महेश्वरसहस्रांशाद् दशांशं तत्तद्रूपकम् ।  
एकोनविंशत्यर्णेन भान्तं वह्निसमायुतम् ॥   ४३-४ ॥
मनुस्त्रयो दशान्तञ्च बिन्दुनादसमन्वितम् ।  
मूलमन्त्रमिदं ख्यातं विघ्नेशस्य महात्मनः ॥   ४३-५ ॥
द्वितीयस्य तृतीयेन एकमात्रस्वरान्वितम् ।  
ब्रह्मजज्ञन्तु विख्यातं षडंगं दीपसंयुतम् ॥   ४३-६ ॥
अङ्गान्ते सविसर्गोत्र शेषस्तु स्वरसंयुतम् ।  
आखुध्वजाय विद्महे इत्युक्त्वा तत्तदागुरुः ॥   ४३-७ ॥ प्. २०७)
दन्तिहस्ताय धीमहे तन्नोदन्तिः प्रचोदयात् ।  
फलदक्षिणहस्ते तु वामहस्ते स्वश्रुङ्गकम् ॥   ४३-८ ॥
पाशाङ्कुशोर्ध्व हस्ते तु गजहस्ते तु लड्डुकम् ।  
करण्डमकुटं प्रोक्तं सर्वाभरणभूषितम् ॥   ४३-९ ॥
शिरश्चक्रप्रभां कृत्वा पद्मपीठोपपरि स्थितम् ।  
डाडिमी पुष्पसंकाशं सर्वाभरणभूषितम् ॥   ४३-१० ॥
आसनं स्थानकं वापि कारयेद् विघ्ननायकम् ।  
पञ्चतालप्रमाणेनमानेनोक्त प्रमाणकम् ॥   ४३-११ ॥
तन्मानं नवधा कृत्वा मुखमानं द्विभागतः ।  
मेढ्रतन्तु चतुर्भागमुलूकातमिति स्मृतम् ॥   ४३-१२ ॥
जान्वन्तमेकभागेन नलकान्तं तदा भवेत् ।  
चरणञ्चानुकर्णञ्च भागेनैकेन बुद्धिमान् ॥   ४३-१३ ॥
वाग्वायाम द्विभागन्तु मणिबन्धान्तकं यथा ।  
हस्तायामाष्टतालैक हीनं तस्य प्रकोष्टकम् ॥   ४३-१४ ॥
हस्तादप्यर्धमायामं गजहस्तस्य कीर्तितम् ।  
कर्णोत्तुङ्गन्तथैकांशं तत्पादोनं सुविस्मृतम् ॥   ४३-१५ ॥
कर्णतारोर्ध्वमानेन दन्तायाममिहोच्यते ।  
नवाङ्गुलानि सर्वं तत्पूर्वोक्तेन प्रमाणतः ॥   ४३-१६ ॥
एवन्तु कथितं प्रोक्तं स्थापनञ्च श्रुणुष्व हि ।  
कृत्वालयं तु पूर्वोक्तं प्रथमञ्चाथ बुद्धिमान् ॥   ४३-१७ ॥
प्रासादस्याग्रतः कुर्यात् मण्डपञ्चतुरश्रकम् ।  
सर्वलक्षणसंयुक्ता वेदिका तस्य मध्यमे ॥   ४३-१८ ॥
विस्तारस्य त्रिभागैकं वेदिविस्तारमात्र वै ।  
जानुमात्रन्तमुत्सेधं कुण्डानि परितः क्रमात् ॥   ४३-१९ ॥
रत्नन्यासं ततः कृत्वा जले चैवाधिवासयेत् ।  
नेत्राणि नेत्रमन्त्रेण मोचयेत् तु यथा विधि ॥   ४३-२० ॥
वस्त्रैरास्तीर्यशयनं शाययेच्छयनोपरि ।  
सर्वलक्षणसंयुक्तं सूत्रेणैव तु वेष्टितम् ॥   ४३-२१ ॥
सकूर्चं सापिधानाञ्च सवस्त्रंवारिपूरितम् ।  
सहिरण्यं न्यसेत् कुंभं गन्धपुष्पादिनार्चयेत् ॥   ४३-२२ ॥ प्. २०८)
तद्रूपं मूलमन्त्रेण प्रत्यङ्गमंगसंयुतम् ।  
ध्यात्वा कुम्भे तु विन्यस्य स्वापमुद्रां प्रदर्शयेत् ॥   ४३-२३ ॥
आवृतान् कलशानष्टौ लोकपालादिकान् क्रमात् ।  
पच्छाद्धोमन्तु कर्तव्यं नवपञ्चत्रयैककम् ॥   ४३-२४ ॥
समिदाज्यं चरुंलाजान् सकूर्चं सर्षपं तथा ।  
लड्डुकं गुलखण्डञ्च फलंक्षीरं तथैव च ॥   ४३-२५ ॥
शिवाग्निं पूर्ववद्ध्यात्वा गणेशं वह्निमध्यमे ।  
विघ्नगायत्रि मन्त्रेण सर्वद्रव्याणिहोमयेत् ॥   ४३-२६ ॥
स्पर्शाहुतिं ततः कृत्वा तन्मन्त्रेणैव देशिकः ।  
पूर्णाहुतिं ततो हुत्वा मूलमन्त्रं समुच्चरेत् ॥   ४३-२७ ॥
कलशस्थं यथा तत्वं प्रतिमायां तु विन्यसेत् ।  
कलशैस्नाप्य विघ्नेशं गन्धपुष्पादिभिस्सह ॥   ४३-२८ ॥
गुलोदनं तु हविषं फलयुक्तं निवेदयेत् ।  
कर्तव्यमुत्सवं तन्त्र कर्मवित्तानुसारतः ॥   ४३-२९ ॥
त वै तत्स्थापनं प्रोक्तं स्कन्दस्य स्थापनं श्रुणु ।  
इति गणेशस्थापनविधिपटलस्त्रिचत्वारिंशत्तमः

No comments:

Post a Comment