ॐ
शिवमयम्
सुप्रभेदम्
अथ चर्यापादे-शैवोत्पत्तिविधिपटलः ॥ प्. २३१) ॥
अथातः संप्रवक्ष्यामि चर्यापादविधिक्रमम् ।
तस्य पादस्य पूर्वे तु शैवानामुद्भवं श्रुणु ॥ १-१ ॥
शैवं पाशुपतं सोमं लाकुलन्तु चतुर्विधम् ।
एतच्चतुर्विधं शास्त्रं भेदाभावमिति स्मृतम् ॥ १-२ ॥
चतुर्विधेषु शास्त्रेषु यो भक्त्यदीक्षितः क्रमात् ।
त्रयाणाञ्चास्त्रनाम्ना तु प्रोच्यते सकलावधि ॥ १-३ ॥
चतुर्थे तु स्थितानां तु निष्कले कलवर्जितम् ।
शैवे तु वर्तते पुंसां शैवाश्चेति प्रकीर्तिताः ॥ १-४ ॥
पाशुपतादिशास्त्रेषु तथा नामान्युदीरिताः ।
त्रिषु शास्त्रेषु भेदानि भिद्यन्ते स्वस्वमार्गकैः ॥ १-५ ॥
इदानीं शैवभेदानि वक्ष्यंते तु समासतः ।
शास्त्रं चतुर्विधं ज्ञेयं वामदक्षिणमिश्रकम् ॥ १-६ ॥
सिद्धान्तेन समायुक्तं चतुर्थैवं प्रकीर्तितम् ।
वामादिशास्त्रभेदेषु ये दीक्षां वर्तते क्रमात् ॥ १-७ ॥
वामी च दक्षिणीमिश्रीसिद्धान्तीति च कीर्तिताः ।
वामं हि शांभवं शादे दक्षिणं भैरवात्मकम् ॥ १-८ ॥
मिश्रं यामलमित्युक्तं सप्तमातृप्रधानकम् ।
सिद्धान्तं शुद्धशैवन्तु केवलं शांभवस्तथा ॥ १-९ ॥
सिद्धान्तं सर्वसारं हि तत्त्वशुद्धं शिवं स्मृतम् ।
वामं च दक्षिणञ्चैव तद्वयोर्मिश्रकन्तु हि ॥ १-१० ॥
शैवबाह्यास्समाख्याता ते तु शैवेऽप्यपूजिताः ।
कामिकादिप्रभेदेन चाष्टाविंशतिसंहिता ॥ १-११ ॥ प्. २३२)
शुद्धं शैवान्तसिद्धान्तं तेषां भेदोपभेदकैः ।
सिद्धान्तं मिश्रमित्युक्तं नवयामलसंज्ञकम् ॥ १-१२ ॥
वामाचारस्तु वै पञ्चदक्षिणेऽपि तथैव च ।
द्वयोर्मिश्रं च गुरवः पञ्चपञ्चैव चोदिताः ॥ १-१३ ॥
सिद्धान्तं मिश्रशैवानां पञ्चानां लक्षणं श्रुणु ।
आचार्यः साधकश्चैव समयि पुत्रकस्तथा ॥ १-१४ ॥
चित्रकेटक इत्युक्तो मातृयज्ञेषु पूजितः ।
शुद्धशैवाख्य सिद्धान्तं दीक्षयादीक्षितः क्रमात् ॥ १-१५ ॥
साधकादि चतुष्काणामाचार्यस्त्वधिप स्मृतः ।
मातॄणां स्थापनं पूजा तासां वह्नेस्तु तर्पणम् ॥ १-१६ ॥
स्नपनोत्सवशान्त्यादिस्त्वाचार्येणैव कारयेत् ।
तम्मिश्रोक्तानि कर्माणि कुर्यात्तैः साधकादिभिः ॥ १-१७ ॥
शिवाग्रजान्वयो भूत्वा आचार्यादि चतुष्ककाः ।
उक्तः पारशिवञ्चैव चित्रकेटकनामतः ॥ १-१८ ॥
समासमिश्रशैवानां यथा तथ्यं श्रुणूद्भवम् ।
अनादि शैवाः प्रथमं महाशैवा द्वितीयकम् ॥ १-१९ ॥
आदिशैवास्त्रितीयं चतुर्थञ्चनुशैवकाः ।
पञ्चमेऽन्तरशैवास्तु शैवाः पञ्चविधा स्मृताः ॥ १-२० ॥
शक्तिमूर्तीविशक्ती च नादो बिन्दुरिति स्मृतम् ।
सदाशिवेश्वरश्चैव षट्स्थाने ये च संस्थिताः ॥ १-२१ ॥
अनादिशैवा इमे प्रोक्ता महाशैवास्ततः श्रुणु ।
अनन्तादिशिखण्ड्यन्तास्तथा मन्त्रमहेश्वराः ॥ १-२२ ॥
मायाद्यवनिपर्यन्तं रुद्रा ये च महाबलाः ।
अनन्तेश्वर शिष्यास्ते दैत्याश्च ऋषयस्तथा ॥ १-२३ ॥
ब्रह्मविष्णादि देवास्तु यक्षोरक्षगणैस्सह ।
महाशैवास्तु विख्याता आदिशैवान् श्रुणुष्व हि ॥ १-२४ ॥
अनुशैवा स्मृता ह्येते यक्षरक्षोरगैस्सह ।
ब्राह्मणादि चतुर्वर्णा काश्यपादि समुद्भवाः ॥ १-२५ ॥ प्. २३३)
परमेश्वरप्रसादेन अधिकारे नियोजिताः ।
शिवधर्मप्रकाशाय सर्वेषां बोधनाय च ॥ १-२६ ॥
स्थापना प्रोक्षणादीक्षा विधिना कृत्यकारणात् ।
ऋषीणां मूर्तिमास्थानि शिवेन परमात्मना ॥ १-२७ ॥
अनुग्रहीताश्च ये सर्वे शैवास्त्वेवान्तर स्मृताः ।
शिवज्ञानयुतास्सर्वे शिवधर्मपरायणाः ॥ १-२८ ॥
आचार्याः शिवशास्त्रज्ञा मोक्षज्ञाः शिववत् भुवि ।
शिववत् चिन्तयेत् सर्वे इति शास्त्रस्य निश्चयः ॥ १-२९ ॥
गोचरं गोत्रसूत्रौ च संक्षेपेण वदाम्यहम् ।
गोचरं शिवचिन्हं हि गोत्रं स्वमुनिवर्गकम् ॥ १-३० ॥
सूत्रमाचारमेवं हि शैवानामुच्यते क्रमात् ।
शिवः शिखा तथा ज्योतिः सावित्री व्योमगोचराः ॥ १-३१ ॥
एतानि पञ्चनामानि शैवानां शिवशासने ।
गोचरं कुलमित्युक्तं तच्चिन्हञ्चातुर्वर्णिनाम् ॥ १-३२ ॥
काश्यप कौशिकश्चैव भारद्वाजोथ गौतमः ।
आत्रेयः पञ्चधा ज्ञेयाः संप्रोक्तामुनयस्त्विह ॥ १-३३ ॥
काश्यपादिमुनीनान्तु शिवगोचरमुच्यते ।
काश्यपोनमुचिश्चैव मनुजोमनुभस्सह ॥ १-३४ ॥
विश्वामित्रश्च वाल्मीकः पुलस्त्यः पुलहः क्रतुः ।
सनत्कुमारो मेधावी सवक्क्रश्च पराशरः ॥ १-३५ ॥
सनंदनस्सदीर्घश्च सनकश्च सनातनः ।
एतेषां ऋषिवर्गाणां गोचरं शिवगोचरः ॥ १-३६ ॥
कौशिकादिमुनिनान्तु शिखागोचरमुच्यते ।
कौशिकः कुशिकश्चैव प्राजापतिस्तु पञ्चमः ॥ १-३७ ॥
शद्ध्यायन्तं तथा भूमि सनन्तः खद्यपूरणः ।
शाण्डिल्योजनकश्चैव सुवर्णस्थाण्डिरेव च ॥ १-३८ ॥
शंखस्थूलो ऋतुश्चैव वीरजोरोमहर्षणः ।
सर्वे तेषामृषीणाञ्च शिखागोचरमुच्यते ॥ १-३९ ॥
मुनीनां भारद्वाजादि ज्योतिर्गोचरमुच्यते ।
भारद्वाजोवसिष्ठश्च मार्कण्डस्थण्डिलो गुरुः ॥ १-४० ॥
२३४, २३५ मिस्सिङ पगे ॥ प्. २३६)
स्थापनं प्रोक्षणं दीक्षा विधिनाकृत्यकारणात् ।
ये शिवं निर्मितायेन शिवेन परमात्मना ॥ १-४१ ॥
सशैव ब्रह्मवक्त्रे च मर्त्यलोकं व्रजेत् क्रमात् ।
काश्यपादीनि नामानि ऋषिरूपैश्च कीर्तिताः ॥ १-४२ ॥
आदौ शिवस्त्वमस्तीति आदिशैव उदीरितः ।
शिवेन दीक्षिताश्चैते ते शिवब्राह्मणा स्मृताः ॥ १-४३ ॥
सर्वोत्तमाः पराचार्याः विप्रोत्तमाः शिवोत्तमाः ।
द्विजोत्तमोत्तमाश्चैव शिवभेदाः शिवात्मकाः ॥ १-४४ ॥
एषां पर्यायनामानि संक्षेपात् कथितं तव ।
क्रिमिकीटपदंकेभ्यः पर्शपः प्राज्ञयाज्ञकाः ॥ १-४५ ॥
पशुभ्योपि नराः श्रेष्ठास्तेषु श्रेष्ठा द्विजास्तथा ।
द्विजातिष्वधिका विप्रा विप्रेषुक्रतु बुद्धयः ॥ १-४६ ॥
क्रतु बुद्धेषु कर्तव्यास्तेभ्यस्सन्यासयोधिकाः ।
सन्यासयोधिकात् श्रेष्ठास्तेषु शंकरपूजिताः ॥ १-४७ ॥
इति चर्यापादेशैवोत्पत्तिविधिपटलः प्रथमः ॥ १
No comments:
Post a Comment