Sunday, January 6, 2019

प्रायश्चित्तविधिपटलः पञ्चपञ्चाशत्तमः,सुप्रभेदागमः

अथातः संप्रवक्ष्यामि प्रायश्चित्तविधिक्रमम् ।  
प्राशब्दाख्यो विनाशस्तु प्रायश्चित्तमिति स्मृतम् ॥   ५५-१ ॥
अर्चनादिहुतान्तञ्च प्रायश्चित्तं वदाम्यहम् ।  
अर्चनाकालहीने तु शिवमन्त्रञ्जपेच्छतम् ॥   ५५-२ ॥
अर्चनाकालहीने तु सन्ध्याया द्विगुणं तथा ।  
एकाहेचाङ्गविच्छेदे हृन्मन्त्रेण शताहुतिः ॥   ५५-३ ॥
एकाहेचार्चहीनेन स्नपनं नवकुंभकैः ।  
द्विदिने त्रिदिने हीने पञ्चविंशतिकुंभकैः ॥   ५५-४ ॥
चतुर्त्था हेतु पञ्चाहे पूजाहीने तु संभवे ।  
पञ्चादौ दशके हीने स्नपनं शतकुंभकैः ॥   ५५-५ ॥ प्. २२५)
पूजाहीने तु मासान्तं त्रिशतैः कलशैः पुनः ।  
त्रिमासमर्चनाहीने सहस्रकलशैः क्रमात् ॥   ५५-६ ॥
षाण्मासोर्ध्वेऽर्चनाहीने संप्रोक्षणमथाचरेत् ।  
सन्ध्यायां बलिहीने तु रुद्रमन्त्रंशतं जपेत् ॥   ५५-७ ॥
द्विसन्ध्यं बलिहीने तु शताद्यर्धं जपेत् गुरुः ।  
त्रिसन्ध्यं बलिहीने च स्नपनं कारयेत् ततः ॥   ५५-८ ॥
द्वियहादि च मासान्तं बलिविच्छेदकर्मणि ।  
शिवाग्निं पूर्ववद् ध्यात्वा स्नपनन्तु शताष्टकम् ॥   ५५-९ ॥
बलिर्मासोर्ध्वहीने तु शिवागिं तत्र बुद्धिमान् ।  
सहस्राज्याहुतिञ्चाङ्गैः शिवे नैव तु देशिकः ॥   ५५-१० ॥
अष्टोतरशतैः कुंभैः स्नपनं कारयेत् बुधः ।  
नित्योत्सवं पुनः कुर्यात् पूर्ववच्च विशेषतः ॥   ५५-११ ॥
बलि भ्रमणकाले तु लिङ्गं पतितमेव वा ।  
स्फटितञ्चलितं भग्नं च्छिन्नं भिन्नन्तु संभवेत् ॥   ५५-१२ ॥
तत्रैव कारयेद्धोममथवालय मध्यमे ।  
पूर्ववत् बलिलिङ्गस्य कृत्वा तत्र प्रदक्षिणम् ॥   ५५-१३ ॥
अथवा पूर्ववत् कृत्वा भ्रमणान्ते हुतं क्रमात् ।  
मूलमन्त्रं जपेत् तत्र शतमष्टाक्षरं बुधः ॥   ५५-१४ ॥
अगम्यमितिगम्यं वा मूलमन्त्रंशतञ्जपेत् ।  
तत्काले दीपहीने तु स्थित्वा तत्र बलिं ततः ॥   ५५-१५ ॥
पुनर्दीपं समावाह्य कृत्वा शेषं प्रदक्षिणम् ।  
नैवेद्ये च वीहीने तु द्विगुणन्तु निवेदयेत् ॥   ५५-१६ ॥
हविर्द्रव्यविहीने तु द्विगुणेन तु बुद्धिमान् ।  
नित्यं द्रव्यविहीने तु तदान्ये द्विगुणञ्चरेत् ॥   ५५-१७ ॥
नित्याग्निकार्ये हीने तु हृन्मन्त्रेणशता हुतिः ।  
उत्सवे तु विशेषेण प्रायश्चित्तं ततः श्रुणु ॥   ५५-१८ ॥
ध्वजस्य ध्वजदण्डस्य घण्डायास्तु विशेषतः ।  
छिन्ने भिन्ने च पतिते चोरग्रस्तादि संभवे ॥   ५५-१९ ॥
कृत्वा तत् पूर्ववत् सर्वं पुनरुत्थापनं कुरु ।  
हृदयेनशतं हुत्वा स्नापयेत् पञ्चगव्यकैः ॥   ५५-२० ॥ प्. २२६)
यागकाले विहीने तु मूलमन्त्रेण होमयेत् ।  
होमद्रव्यविहीने तु हृदयेन शताहुतिः ॥   ५५-२१ ॥
बलिप्रदानवेलायां शुनानीतेतिरिक्तके ।  
हृन्मन्त्रेण शतं हुत्वा सर्वशान्तिनिमित्तकः ॥   ५५-२२ ॥
शूलास्त्रं पतितं वापि आयुधञ्चाष्टमङ्गलम् ।  
शूलस्य स्नपनं तत्र अन्येषाञ्च शताहुतिः ॥   ५५-२३ ॥
प्रतिमां प्रतिमां वापि स्पृष्टां वै चान्त्यपायिभिः ।  
कृत्वा तु स्नपनन्तत्र मूलमन्त्रेण हूयते ॥   ५५-२४ ॥
प्रमादात् भिन्नच्छिन्नादि संभवे पूर्ववत् कुरु ।  
सर्वेष्वङ्गेषु हीनञ्चेत् पुनरङ्गं नियोजयेत् ॥   ५५-२५ ॥
कण्ठोर्ध्व हीनं बिंबन्तु जीर्णोद्धारन्तु कारयेत् ।  
तिथिवारमुहूर्तानि निरपेक्षेण बुद्धिमान् ॥   ५५-२६ ॥
अधिवासनादिकार्याणि सद्य एव समाचरेत् ।  
प्रतिष्ठाप्य विशेषेण प्रायश्चित्तं श्रुणुष्वहि ॥   ५५-२७ ॥
स्नपने कालहीने तु शिरसा तु शताहुतिः ।  
स्नपन द्रव्यहीने तु शिखया तु तदर्धतः ॥   ५५-२८ ॥
सुषिरं पतितं भिन्नं भेदनञ्छेदनं हि वा ।  
व्यपोह्यकलशन्तत्तु पूर्ववत् कल्पयेत् बुधः ॥   ५५-२९ ॥
अस्पृश्य स्पर्शने वापि श्वानकाकादि स्पर्शिते ।  
अन्यं कलशमादाय मन्त्रतो येन पूरयेत् ॥   ५५-३० ॥
हृदयेन शतंहुत्वा स्नपनं तत्र पूर्ववत् ।  
करुणालय हीनश्चेत् कृत्वा तत्पूर्ववत् बुधः ॥   ५५-३१ ॥
तरुणं लिङ्गपीठे वा च्छिन्नभिन्नादि संश्रिते ।  
तल्लिङ्गन्तु जले त्यक्त्वा लिङ्गं संस्थाप्य पूर्ववत् ॥   ५५-३२ ॥
पतितञ्चलितं लिङ्गं पूर्ववत् स्थापयेत् क्रमात् ।  
मूललिङ्गे च विघ्नेश वक्ष्येहमधुना श्रुणु ॥   ५५-३३ ॥
लिङ्गन्तु स्फटितं भिन्नं जीर्णञ्छेद्यन्तथैव च ।  
ईदृग्लिङ्गन्ततस्त्यक्त्वा स्थापयेत् तु नवीकृतम् ॥   ५५-३४ ॥
चलितं पतितं वापि नदिस्रोतेन पातितम् ।  
गजेनोत्थापितं वापि चोरैरुन्मत्तकैरपि ॥   ५५-३५ ॥ प्. २२७)
तल्लिङ्गं तत्र संस्थाप्य पूर्ववच्छेषमाचरेत् ।  
गंभीरे च महालिङ्गे स्रोतसा चलिते सत् ॥   ५५-३६ ॥
अन्यस्यां प्रतिमायां वा शतदण्डात् तु योजयेत् ।  
मूललिङ्गमदृश्यञ्चेन् नवलिङ्गन्तु पूर्ववत् ॥   ५५-३७ ॥
एवं वै पिण्डिकायास्तु तथान्यप्रतिमासु च ।  
प्रतिष्ठालयहीने तु मूलेनैवशताहुतिः ॥   ५५-३८ ॥
क्रियाहीने यथा शास्त्रं मूलेनैव समाचरेत् ।  
क्रियायां मन्त्रहीने तु शिखया तु शताहुतिः ॥   ५५-३९ ॥
द्रव्यहीने तु विघ्नेश सहस्राहुति वर्मणा ।  
क्रियातिरिक्ते सर्वत्र न्यूनेमूलं शतञ्जपेत् ॥   ५५-४० ॥
काकश्वानखरोष्ट्रैश्च मत्तोन्मत्तैश्च दूषयेत् ।  
स्पर्शाहुतिञ्च कुर्वीत पुण्याहन्तु विशेषतः ॥   ५५-४१ ॥
हुत्वा तु शिवमन्त्रेण सहस्रं वा शतं हि वा ।  
चण्डालाद्यैस्तु परितः संस्पृष्टं वा समीपगम् ॥   ५५-४२ ॥
संप्रोक्षणं प्रतिष्ठाञ्च कुर्वीत स्नपनं पुनः ।  
प्रासादे पतिते भिन्नेच्छिन्नेनष्टे तथैव च ॥   ५५-४३ ॥
बालालये शिवं नित्वा विमाने पूर्ववत् कृते ।  
विधिवत् प्रोक्षणं कृत्वा पश्चादुत्सवमारभेत् ॥   ५५-४४ ॥
गर्भगेहे स्थलेनिम्ने कलकाद्यैर्द्रवं पुनः ।  
तदन्ते वास्तुहोमञ्च पुण्याहं तत्र वाचयेत् ॥   ५५-४५ ॥
बलिपीठविनाशे तु स्थापयेत् बलिपीठकम् ।  
परिवारालये हीने पूर्ववत् परिकल्पयेत् ॥   ५५-४६ ॥
तत्बिंबे पतिते भिन्नेच्छिन्ने भेदे तु वर्जयेत् ।  
हुत्वा तु शिवमन्त्रेण कुर्यात् बिंबानि पूर्ववत् ॥   ५५-४७ ॥
प्रतिष्ठां कारयेत् प्राग्वत् स्वकीयेन विधानतः ।  
अथाद्भुतानां शान्तिन्तु वक्ष्ये दोषविनाशनम् ॥   ५५-४८ ॥
सर्वं विवर्णं संप्राप्ते प्रतिमारोदनेऽपि च ।  
ज्वरमारिसमुत्पन्ने रोगस्फोटादि संभवे ॥   ५५-४९ ॥
नवप्रासादपतने चैत्य वृक्षस्य पातने ।  
एवमादिसमुत्पन्ने ग्रामादीनाञ्च दोषकम् ॥   ५५-५० ॥ प्. २२८)
तद्दोषशमनार्थन्तु त्रिसप्ताहन्तु शान्तिकम् ।  
भूमिकंपेदिशान्दाहे प्रतिसूर्य प्रदर्शने ॥   ५५-५१ ॥
दिवानक्षत्रमुत्पन्ने रात्राविन्द्रधनु स्थिते ।  
दुर्भिक्षं शत्रुवर्धन्यां राजराष्ट्रभयंकरः ॥   ५५-५२ ॥
मासपूर्णं तथा शान्तिं कुर्याद्दोषनिवृत्तये ।  
प्रासादमण्डपाद्येषु वल्मीकं यत्र दृश्यते ॥   ५५-५३ ॥
रत्नकन्यासमुत्पन्ने प्रासादे मधुसंश्रिते ।  
प्रविष्टेपिपीलिकालूकौ प्रासादाभ्यन्तरे तथा ॥   ५५-५४ ॥
तत्प्रदेशं खनित्वा तु पूरयेच्छुद्धपांसुभिः ।  
पञ्चगव्येन संप्रोक्ष्य पुनःशान्तिन्तु कारयेत् ॥   ५५-५५ ॥
शान्तिं संक्षेपतो वक्ष्ये श्रुणु तत्वं गजानन ।  
हविषं द्विगुणं कृत्वा दीपैः पूष्पैर्विशेषतः ॥   ५५-५६ ॥
शीतकुंभन्तु विधिना शिवस्योर्ध्वन्निदापयेत् ।  
दिशाहोमन्ततः कृत्वा मूर्तिहोमं विशेषतः ॥   ५५-५७ ॥
चतुर्दिक्षु चतुर्वेदैः पूर्वमध्यापनं तथा ।  
यथावत् स्नपनन्नित्यं तथा वित्तानुसारतः ॥   ५५-५८ ॥
घृतं क्षीरं यथा शक्ति अभिषेकन्तु नित्यशः ।  
नालिकेरस्य सलिलैरभिषेकं समाचरेत् ॥   ५५-५९ ॥
तदन्ते रात्रिचूर्णन्तु लिङ्गमुद्वर्त्यशोधयेत् ।  
प्रभूतहविषं नित्यं तदन्ते द्विगुणं स्मृतम् ॥   ५५-६० ॥
एवं शान्तिस्तु तत्प्रोक्तं सर्वारिष्टविनाशनम् ।  
शान्तिरेवं कृतं यत्र धनधान्याभिवर्धनम् ॥   ५५-६१ ॥
अनुक्तानां तु सर्वेषां विदित्वा गुरुलाघवम् ।  
उक्तैरेवं प्रकारैस्तु प्रायश्चित्तानि कारयेत् ॥   ५५-६२ ॥
शान्तिहोमङ्गुरुः कुर्यात् शेषाणान्तु यथोक्ततः ।  
प्रायश्चित्तमिदं प्रोक्तं तत्राणां संकरं श्रुणु ॥   ५५-६३ ॥
इति प्रायश्चित्तविधिपटलः पञ्चपञ्चाशत्तमः

No comments:

Post a Comment