अथ कुण्डलक्षण पटलः
अथातः संप्रवक्ष्यामि कुण्डलक्षणमुत्तमम् ।
प्रतिष्ठाद्युत्सवे काले मण्डपङ्कारयेत् बुधः ॥ १२-१ ॥
प्रासादपुरतोभागे प्रतिष्ठायां विशेषतः ।
ईशाने पार्श्वके चैन्द्रे कल्पयेत् तु विशेषतः ॥ १२-२ ॥
महानसेन्यधाग्नेय्यां नित्याग्न्यायतनं बुधः ।
अनुक्तेषु च येज्ञेषु उक्तदेशे विधीयते ॥ १२-३ ॥
उत्तमन्दशहस्तं स्यान्मध्यमं नवहस्तकम् ।
अधमं सप्तहस्तं स्यान्मण्डपं त्रिविधं मतम् ॥ १२-४ ॥
षोडशस्तंभसंयुक्तं द्वादशस्तंभमेव वा ।
दिशश्च विदिशश्चैव नच्छिद्रं व्योमसंपदम् ॥ १२-५ ॥
चतुर्द्वारसमायुक्तञ्चतुस्तोरणभूषितम् ।
स्थलन्तालसमुत्सेधमथवा च षडङ्गुलम् ॥ १२-६ ॥
दर्भमालाभिरावेष्ट्य पुष्पामालोपशोभितम् ।
वितानैरूर्ध्वमाच्छाद्यमुक्तादामैरलङ्कृतम् ॥ १२-७ ॥
तत् त्रिभागैक भागेन वेदिं मध्ये प्रकल्पयेत् ।
हस्तमात्रसमुत्सेधं दर्पणोदरसन्निभम् ॥ १२-८ ॥
तत् पूर्वे चतुरश्रं स्यादाग्नेय्यान्तु भगाकृतिः ।
अर्धचन्द्रस्तु याम्यायां नै-ऋत्यान्तु त्रिकोणकः ॥ १२-९ ॥
वारुण्यां वर्त्तुलं कुण्डं षट्कोणञ्चैव वायवे ।
उत्तरे पद्मकुण्डन्तु ऐशान्न्यामष्टकोणकम् ॥ १२-१० ॥ प्. ५९)
ऐन्द्रशाङ्करयोर्मध्ये वृत्तकुण्डन्तु कारयेत् ।
नित्यहोमाग्नि कुण्डन्तु हस्तमात्रप्रमाणतः ॥ १२-११ ॥
शतार्धाहुति कुण्डस्यमुष्टिमात्रप्रमाणतः ।
रत्निः स्याच्छतसङ्ख्यायास्सहस्रे करसंहितम् ॥ १२-१२ ॥
द्विकरं दशसाहस्रे चतुर्हस्तन्तु लक्षके ।
षट्करं दशलक्षे तु कोट्याहुत्यष्टहस्तकम् ॥ १२-१३ ॥
कुण्डविस्तारमाख्यातं कुट्यूर्ध्वेऽष्टकरं मतम् ।
अनुक्तमानाहुतयश्चोक्त कुण्डेषु होमयेत् ॥ १२-१४ ॥
चतुरश्रस्यकुण्डस्य लक्षणं श्रुणु सांप्रतम् ।
प्राङ्मुखानि त्रिसूत्राणि उदङ्मुखानि तथैव च ॥ १२-१५ ॥
एवं विन्यस्यमानेस्याच्चतुरश्रञ्चतुष्पदम् ।
योन्यादि सर्वकुण्डानि चतुरश्रोद्भवानि हि ॥ १२-१६ ॥
कोणे ग्राह्या चतुर्थांशं तद्भागेन तु वर्तयेत् ।
क्षेत्रस्यार्धावधिर्यावत् तथान्यं भ्रमयेत् क्रमात् ॥ १२-१७ ॥
कर्णायामस्य सप्तांशं पूर्वायादिशिविन्यसेत् ।
तस्माच्च पादयेत् सूत्रौ भवेदश्वत्थ पत्रवत् ॥ १२-१८ ॥
दशभाग कृतं क्षेत्रं द्विभागन्तु व्यपोह्य च ।
मध्येऽष्टांशं परिग्राह्य भ्रामयेदर्धचन्द्रवत् ॥ १२-१९ ॥
पञ्चभाग कृतं क्षेत्रं द्विभागौ पार्श्वयोर्न्यसेत् ।
तेनमानेन सूत्रेण द्विसूत्रञ्चाग्रसंयुतम् ॥ १२-२० ॥
तत्र सूत्रत्रयं कृत्वा तत् त्रिकोणमिहोच्यते ।
अष्टादशकृतं क्षेत्रमेकभागं बहिर्न्यसेत् ॥ १२-२१ ॥
तस्मान्मध्यं गृहीत्वैव भ्राम्यतद्वर्तुलं स्मृतम् ।
तत् क्षेत्रमष्टधा कृत्वा भागैकं पार्श्वयोर्बहिः ॥ १२-२२ ॥
तयोर्मध्यं गृहीत्वार्धं सूत्रेणैव पुरा तथा ।
षट्सूत्रं परितः कृत्वा षट्कोणन्तद्भवेदिह ॥ १२-२३ ॥
वर्तुलं पूर्ववत् कृत्वा मध्यमेकर्न्निकान्न्यसेत् ।
षोडशंदलसंयुक्तं दलाग्रं दर्शयेद् बहिः ॥ १२-२४ ॥
पद्मकुण्डमिदं प्रोक्तं सर्वकामार्थसाधनम् ।
चतुर्विंशति भागैकं बाह्ये दिक्षु व्यवस्थितम् ॥ १२-२५ ॥ प्. ६०)
मध्यात् कोणं गृहीत्वा तु अष्टसूत्रं समर्पयेत् ।
अष्टकोणमिदं प्रोक्तमितिशास्त्रस्य निश्चयः ॥ १२-२६ ॥
यावन्मात्रन्तु विस्तारन्तावद् घातप्रमाणकम् ।
कुण्डस्ययाद्रशं रूपन्तादृशि मेखला भवेत् ॥ १२-२७ ॥
त्रिमेखलन्तु कर्तव्यमेकमेखलमेव वा ।
चतुरङ्गुलमुत्सेधं विस्तारं तत् प्रमाणतः ॥ १२-२८ ॥
एकमेखलमेवं स्यात् त्रिमेखलमथ श्रुणु ।
चतुरङ्गुलं भवेदूर्ध्वं मध्यमन्त्र्यङ्गुलं भवेत् ॥ १२-२९ ॥
अधस्तात् द्व्यङ्गुलं प्रोक्तं विस्तारोत्सेधमेव हि ।
अश्वत्थ पत्रवद्योनि मेखलोपरिविन्न्यसेत् ॥ १२-३० ॥
एकाङ्गुलन्तदुत्सेधं विस्तारञ्चतुरङ्गुलम् ।
सप्ताङ्गुलन्तु दैर्घ्यं स्यादेकाङ्गुलन्तु नालकम् ॥ १२-३१ ॥
कुण्डानां लक्षणं प्रोक्तं स्थण्डिलञ्चेत् तु पूर्ववत् ।
चतुरङ्गुलमुत्सेधं दर्पणोदरसन्निभम् ॥ १२-३२ ॥
एकाङ्गुलन्तदुत्सेधमष्टाङ्गुल सुविस्तृतम् ।
प्रणिता स्थानमेवं स्यात् ब्रह्मस्थानं तथा भवेत् ॥ १२-३३ ॥
चतुरश्रं प्रणिताया ब्रह्मणे पद्ममेव च ।
विना वा केवलं स्थाप्य स्थलमात्रे यजेदुभौ ॥ १२-३४ ॥
सिकतैस्थण्डिलञ्चेत् तु स्यात् कुर्याद् धस्तमात्रकम् ।
हस्तमात्रस्य कुण्डस्य लक्षणं कीर्तितं क्रमात् ॥ १२-३५ ॥
द्विहस्तादीनिकुण्डानि कृत्वैवं मेखलादिकान् ।
अङ्गुलाङ्गुलवृद्ध्या तु विस्तारोत्सेधतस्समान् ॥ १२-३६ ॥
समन्तात् सुसमान् कृत्वा ह्योष्ठ कुण्डस्य चापरि ।
एकाङ्गुलेन हस्तस्यान्मेखलायाः सुमध्यमे ॥ १२-३७ ॥
अङ्गुलाङ्गुल वृध्यातु मानाधिक्येषु कारयेत् ।
अथवाङ्गुलिभिः षट्भिश्चतुर्भिश्चाष्ट हस्तके ॥ १२-३८ ॥
कुण्डानां लक्षणं प्रोक्तं नित्योत्सवमथ श्रुणु ।
इति कुण्डलक्षण पटलोद्वादशः ॥ १२ ॥
No comments:
Post a Comment