Sunday, January 6, 2019

अङ्गुली लक्षणविधि पटलः

अथ अङ्गुली लक्षणविधि पटलः
अथातः संप्रवक्ष्यामि अङ्गुलीनान्तु लक्षणम् ।  
मानाङ्गुलन्तु प्रथमं मात्राङ्गुलं द्वितीयकम् ॥   ३०-१ ॥
देहलब्ध प्रमाणन्तु तृतीयमङ्गुलं स्मृतम् ।  
यस्मात् परमणुर्नास्ति परमाणुस्तदुच्यते ॥   ३०-२ ॥
परमाणुरधश्चैवापि च केशाग्र एव च ।  
रीक्षायूकाय वास्तत्र क्रमशोऽष्टगुणैर्मतम् ॥   ३०-३ ॥
मानाङ्गुलमिति प्रोक्तं ततो मात्राङ्गुलं श्रुणु ।  
आचार्य दक्षिणे हस्ते मध्यमाङ्गुलिमध्यमे ॥   ३०-४ ॥
पर्वमात्राङ्गुलं ज्ञेयं देहलब्धाङ्गुलं श्रुणु ।  
प्रतिमायास्तथोत्सेधे कालगण्येन भाजिते ॥   ३०-५ ॥
तेष्वेकं भागवन्मानं देहलब्धाङ्गुलं स्मृतम् ।  
प्रासादमण्डपांश्चैव प्राकारान् गोपुरानपि ॥   ३०-६ ॥
ग्रामाध्वक्षेत्र गण्येषु मानाङ्गुलविधानतः ।  
आचार्यदक्षाङ्गुलिभिर्मितेर्व्यासमिधादिकैः ॥   ३०-७ ॥
कूर्चे पवित्रके चैव सृवे सृक्भिरथान्यकैः ।  
यागे प्रयोजितानीह मात्राङ्गुलिविधिश्चरेत् ॥   ३०-८ ॥
अथमानाङ्गुलैर्वापि कारयेद्यागकर्मणि ।  
देहलब्धाङ्गुले नैव प्रतिमाङ्कारयेत् बुधः ॥   ३०-९ ॥
एकाङ्गुलस्य संज्ञा स्यात् बैन्दुमोक्षोक्तमात्रकम् ।  
कलाकोलक पद्माक्षि चाश्विनीद्व्यङ्गुलस्य तु ॥   ३०-१० ॥
रुद्राक्षाग्निगुणाश्चैव शूलविद्या त्रियङ्गुलम् ।  
युगभागञ्च वेदञ्च तुरीयं चतुरङ्गुलम् ॥   ३०-११ ॥
रुद्राननेन्द्रियं भूत बाणं पञ्चाङ्गुलस्य तु ।  
कर्माङ्गमयनञ्चैव रसश्चैव षडङ्गुलम् ॥   ३०-१२ ॥
पातालमुनिधातूंश्च चाब्धिं सप्ताङ्गुलस्य तु ।  
वसुलोकेशमूर्तिश्च ततोऽष्टाङ्गुलसंज्ञकाः ॥   ३०-१३ ॥
द्वारं सूत्रं ग्रहं शक्तिर्नवाङ्गुलमिति स्मृतम् ।  
दिशानाड्यायुधञ्चैव प्रादुर्भावं दशाङ्गुलम् ॥   ३०-१४ ॥ प्. १३९)
त्रिषु विष्कूश्च विंशश्च गतित्रिंशतिरुच्यते ।  
त्रिजगत् चत्वारिंशत् पञ्चाशच्छक्वरीति च ॥   ३०-१५ ॥
अतिशक्वरिश्च षष्टिस्तु यष्टिसप्ततिरुच्यते ।  
अत्यष्ट्यशीतिकं विद्धि नवती धृतिरेव च ॥   ३०-१६ ॥
अतिधृतिः शताङ्गुल्यमिति संज्ञा प्रकीर्तिताः ।  
एकं दशं शतञ्चैव सहस्रमयुतं पुनः ॥   ३०-१७ ॥
नियुतं प्रयुतञ्चैव कोटिञ्चैव यथार्बुदम् ।  
बृन्दं खर्वं निखर्वञ्च शंखं पद्ममतः परम् ॥   ३०-१८ ॥
समुद्रमध्यन्ताराख्यं पराख्यमपरं तथा ।  
परार्धमेवमाख्यातं दशवृत्त्युत्तरोत्तरम् ॥   ३०-१९ ॥
एवमेतानि चोक्तानि सङ्ख्या स्थानानिविंशतिः ।  
कालं यमं त्रिभागञ्च षट्कलाश्च वितस्तिकम् ॥   ३०-२० ॥
षट्कोलकं मुखञ्चैव द्वादशाङ्गुलसंज्ञकम् ।  
अङ्गुष्ठ तर्जनीयुक्तं प्रादेशमिति कीर्तितम् ॥   ३०-२१ ॥
मध्यमाङ्गुष्ठ संयुक्तं तालमानमिति स्मृतम् ।  
अङ्गुष्ठानामिकायुक्तं वितस्तिरिति चोच्यते ॥   ३०-२२ ॥
कनिष्ठाङ्गुष्ठयोर्युक्तं गोकर्णमिति संज्ञिकम् ।  
प्रादेशश्च वितस्तिश्च गोकर्णश्च इमे त्रयः ॥   ३०-२३ ॥
यज्ञादिके प्रयोक्तव्याः प्रासादादौ नमापयेत् ।  
रत्निः संवृतमुष्टिः स्यादरत्निः प्रसृताङ्गुलिः ॥   ३०-२४ ॥
किष्कुश्च प्राजापत्यश्च धनुर्मुष्टिधनु ग्रहौ ।  
अङ्गुलेस्तु चतुर्विंशत् किष्कुरित्युच्यते बुधैः ॥   ३०-२५ ॥
पञ्चविंशतिभिश्चैव प्राजापत्यमुदाहृतम् ।  
षड्विंशतिधनुर्मुष्टिस्सप्तविंशद्धनुग्रहः ॥   ३०-२६ ॥
किष्कुस्तादि चत्वारिमानाङ्गुलवशात्तम ।  
एभिर्हस्त प्रमाणैस्तु प्रासादादीनि कारयेत् ॥   ३०-२७ ॥
शयनञ्चासनञ्चैव किष्कुमानवशात् कुरु ।  
लिङ्गञ्च पिण्डिकाञ्चैव प्रासादं गोपुरं तथा ॥   ३०-२८ ॥ प्. १४०)
प्राकारमण्डपञ्चैव प्राजापत्यकरेण तु ।  
धनुग्रहश्चतुष्कं यद्दण्डमानं प्रकीर्तितम् ॥   ३०-२९ ॥
सहस्रदण्डमानेन क्रोशमात्रं विधीयते ।  
गव्यूतिर्द्विगुणं ज्ञेयं तद्विगुणन्तु घातकम् ॥   ३०-३० ॥
घातकस्य चतुष्कन्तु योजनापरिकीर्तिता ।  
प्रतिमायास्तदुत्सेधं तालदण्डेन भाजयेत् ॥   ३०-३१ ॥
चतुर्विंशच्छतञ्चैव उत्तमं दशतालकम् ।  
विंशच्छतञ्च मध्यन्तु कन्यसं षोडशाधिकम् ॥   ३०-३२ ॥
द्वादशाधिकमेवं यत् नवतालोत्तमं भवेत् ।  
अष्टौशतञ्चतुःशतं मध्यमं कन्यसं तथा ॥   ३०-३३ ॥
शतं षण्णवतिश्चैव नवत्युत्तरकरद्वयम् ।  
अष्टतालमिदं प्रोक्तं त्रिविधं पूर्वपद्धति ॥   ३०-३४ ॥
इत्येवं भागहीनं स्यादेक तालान्तमेव हि ।  
तयोदशार्द्धं मुखज्येष्ठन्तयोदशन्तु मध्यमम् ॥   ३०-३५ ॥
तत्द्वादशार्धमधममुत्तमं दशतालके ।  
नवतालोत्तमे चैव मुखं वै द्वादशाङ्गुलम् ॥   ३०-३६ ॥
अर्धार्धाङ्गुल हीनेन मध्यमाधममुच्यते ।  
त्रिविधादशतालेन त्रिमूर्तीनान्तु कीर्तिता ॥   ३०-३७ ॥
त्रिविधं नवतालेन देवानां योषितामपि ।  
अष्टतालेन मर्त्यानां सप्ततालेन रक्षसाम् ॥   ३०-३८ ॥
षट्तालेन तु गन्धर्वान् पञ्चतालो गणाधिपः ।  
वामनस्य तथैवस्याच्चतुस्तालास्तु भूतकाः ॥   ३०-३९ ॥
त्रितालं किन्नराणान्तु मत्स्यानान्तु द्वितालकम् ।  
अणुजानान्तथैकं स्यात् पिशाचानान्तु विंशतिः ॥   ३०-४० ॥
अङ्गुल्यस्सम्यगाख्याताः प्रासादलक्षण श्रुणु ।  

इति अङ्गुलीलक्षणविधिपटलस्त्रिंशत्तमः ॥   ३०

No comments:

Post a Comment