Sunday, January 6, 2019

वृताचारविधिपटलः,सुप्रभेदागमः

अथ वृताचारविधिपटलः
अथातः संप्रवक्ष्यामि संक्षेपाद् वृत्तमुत्तमम् ।  
वृतं हि द्विविधं प्रोक्तं सामान्यञ्च विशेषतः ॥   ६-१ ॥
ब्रह्मचारीग्रहस्थश्च वानप्रस्थश्च भिक्षुकः ।  
चतुराश्रममेवं हि सामान्यं विधिचोदितम् ॥   ६-२ ॥
चतुर्णां गोचराणान्तु सममेतच्छिवागमे ।  
ब्रह्मचारी द्विधा ज्ञेया भौतिकोनैष्ठिकस्तथा ॥   ६-३ ॥
शेषान् क्रमात् तु सप्राप्तो ब्रह्मचारी तु भौतिकः ।  
मरणान्तं ब्रह्मचर्यं पालनं नैष्ठिकस्य तु ॥   ६-४ ॥
शिखीमुण्डी जटीवापी सकौपीनस्समेखलः ।  
सदण्डीसोपवीतश्च भस्मरुद्राक्षसंयुतः ॥   ६-५ ॥
त्रिस्नायि च जित क्रोधः सुयमस्सत्यभाषणः ।  
एककालन्तु भैक्षाशि वसेन्नित्यं गुरोर्ग्रहे ॥   ६-६ ॥
वर्ज्यं तत्गन्धमाल्यादि दर्पणं पादुकं तथा ।  
हरिद्रमञ्जनञ्चैव तांबूलं लवणं तथा ॥   ६-७ ॥
शिखा वृतेश्वरं यागङ्कृत्वाचार्यपरिग्रहे ।  
ब्रह्मचारी वृतं ह्येवं ग्रहस्थानां वृतं श्रुणु ॥   ६-८ ॥
गृहिणी संग्रहं कृत्वा विवाहं विधिना तथा ।  
अभ्यागता तिथिंश्चैव यथा शक्तिः सुपूजनम् ॥   ६-९ ॥
देवाग्नि गुरुपूजा च ग्रहेधर्मञ्च नित्यशः ।  
शिवागमोक्त षट्कर्म श्रद्धाभक्त्या तु वर्धयेत् ॥   ६-१० ॥
शिखी वा बद्धकेशीवा शुक्लयज्ञोपवीतकम् ।  
स्वर्णरजत ताम्रैश्च स्फटिकैश्चापि भूषयेत् ॥   ६-११ ॥
सुदारान् संग्रहं नित्यं ऋतुकाले विशेषतः ।  
चन्दनादीनिमाल्यानि त्वलंकृत्य शुभे ग्रहे ॥   ६-१२ ॥
ग्रहस्थानं वृतं ह्येतद्वानप्रस्थाश्रमं श्रुणु ।  
अपत्नीकस्सपत्नीको द्विविधं शिवभाषणे ॥   ६-१३ ॥
वने संवासिको नित्यं शाकमूलादिभक्षयेत् ।  
ग्रहस्थस्य वृतं यद्वत् सपत्नीकस्तथैव तु ॥   ६-१४ ॥ प्. २६८)
सपत्निकवृतं प्रोक्तमपत्निकवृतं श्रुणु ।  
ब्रह्मचर्यञ्चरेन्नित्यं प्रतिग्रहविवर्जितम् ॥   ६-१५ ॥
सुभूमौ वान्ति?ने वापि कुशे वा शयनेऽथवा ।  
सर्वेषु हेद्रियार्थेषु सप्त?मन्तु विवर्जयेत् ॥   ६-१६ ॥
कृत्वा स्नानं त्रिकालेषु देवाग्नि गुरुपूजनम् ।  
वनेषु वासयेन्नित्यं फलमूलादिभक्षणम् ॥   ६-१७ ॥
अपत्निकवृतमिदं यतिनाञ्च वृतं श्रुणु ।  
आत्मानं शिववद्दृष्ट्वा सर्वकर्मसमर्प्य च ॥   ६-१८ ॥
सुशिष्ये स्वाधिकारञ्च स्वयं दीक्षा विवर्जितः ।  
सर्वाणि चान्यरूपाणि ममत्वं हि सुभावितम् ॥   ६-१९ ॥
समत्वं सुखदुःखेषु सर्वारंभ विवर्जितम् ।  
काञ्चनं कोष्टवत् स्मृत्वा प्रियाप्रिय समंभवेत् ॥   ६-२० ॥
स बाह्याभ्यन्तरं शौचा ग्रामान्तेषु निवासनम् ।  
य निवृत्तिरियं प्रोक्तं श्रुणु वैशेषिकां वृतान् ॥   ६-२१ ॥
शिवलिङ्गात् तथा ज्योतिः सावित्री चेति गोचरा ।  
शिवदेह समुत्भूतं गोचरं तुलमुच्यते ॥   ६-२२ ॥
काश्यपादि ऋषिणान्तु शिवगोचरसंज्ञकम् ।  
भारद्वाजमुनिनान्तु ज्योतिर्गोचरसंज्ञकम् ॥   ६-२३ ॥
गौतमादि ऋषिणान्तु नाम सावित्रगोचरः ।  
आत्रेयादि ऋषिणान्तु प्रोक्तञ्च व्योमगोचरः ॥   ६-२४ ॥
तेषां वै शुद्धशैवानां वृत्तिवैशेषिकान् श्रुणु ।  
चतुर्णां गोचराणान्तु प्रजापत्यादि कर्मतः ॥   ६-२५ ॥
प्राजापत्यादिकं पूर्वं महिपालं द्वितीयकम् ।  
कपोतं हि तृतीयं वै चतुर्थं ग्रन्धिकं स्मृतम् ॥   ६-२६ ॥
ब्रह्मचर्यादिभिक्षान्तं प्राजापत्यादिक त्विह ।  
शिवगोचरसंज्ञानां वृत्तिभेदाः प्रकीर्तिताः ॥   ६-२७ ॥
धृतराष्ट्र वृतं पूर्वं बल?वृत्तिद्वितीयकम् ।  
अंसगोपालकश्चैव ज्योतिर्गोचर वृत्तिका ॥   ६-२८ ॥ प्. २६९)
प्रथमन्तुदिकं प्रोक्तं द्वितीयं ममांकुरं तथा ।  
तृतीयङ्कुलितं प्रोक्तं सावित्री नामगोचरे ॥   ६-२९ ॥
चतुर्गोचर संज्ञन्तु प्रोक्तं भेदानि मे श्रुणु ।  
स्वाद्ध्यायङ्कुरु शुश्रूषा संयमस्सत्यवाचकम् ॥   ६-३० ॥
प्राजापत्यवृतञ्चैव ब्रह्मचारि सदाचरेत् ।  
शान्त्यादिकर्मकुशला मारणादि सुपेशका ॥   ६-३१ ॥
रक्षकान्तु महिसर्वां महिपालवृतात् तु वै ।  
पततिर्णकणान् भूमौ भक्षयित कपोतवत् ॥   ६-३२ ॥
कपोत जीविताये च कपोतास्तु प्रकीर्तिताः ।  
सत्ग्रन्ध सतताव्यासन्धनमात्मानमेव हि ॥   ६-३३ ॥
त्यजन्ति देवतानां हि ग्रन्धिकास्तेप्युदाहृताः ।  
समुद्रे वा नदीतीरे कुटिं कृत्वा निवासयेत् ॥   ६-३४ ॥
ब्रह्मचारि वृतं ह्येते कुटिकान्तं तथा मताः ।  
क्षेमारामेसुतीर्थे वा तत्पत्नी सहजीवनः ॥   ६-३५ ॥
सदोत्साह समायुक्ता वेतालास्ते भवन्ति वै ।  
दिव्यतीर्थार्क पत्राशी पद्महोमपरायणः ॥   ६-३६ ॥
पानप्रस्थाश्रमं कृत्वा पद्म चण्डे प्रकीर्ताः ।  
वैदिकाचार विज्ञान ज्ञानयोगसमन्विताः ॥   ६-३७ ॥
अष्टात्विर्गुलि?काभिस्तु भुक्त्वा देशविपत्य वै ।  
आशनं गुलिकामात्रं गुलिकान्ते महावृताः ॥   ६-३८ ॥
शरीरदण्डनं कृत्वा वीरासन रतस्सदा ।  
वृतैश्च दण्डन अस्मात् तेनैव दण्डनं स्मृतम् ॥   ६-३९ ॥
कार्यो गुरु ग्रहेवासः त्रिकाल स्नाधिभक्ष्य भुक् ।  
रक्षयेत् ब्रह्मचर्यन्तु प्रोक्तं ब्रह्मोदहवृतम् ॥   ६-४० ॥
स्वदारार्चिः शुद्धचेतस्त्वयाचित धनान्वितः ।  
चरन्ति कुटिके यस्मात् ते कुटीचारकास्त्विह ॥   ६-४१ ॥
चरन्ति संसवद्ये च निर्मले कलसं श्रये ।  
वने स्मवासिता नित्यं हंसास्ते तु प्रकीर्तिताः ॥   ६-४२ ॥
ग्रामैकरात्रि न्यायेन पर्यान् प्रधिनिमिमतम्? ।  
वृता वैशेषिकाः प्रोक्ता गोचराणामिदं वृतम् ॥   ६-४३ ॥ प्. २७०)
अन्ते वृतेश्वरं यागं कृत्वा तद्वृतमोक्षणम् ।  
वृतं वृतेश्वरं यागं समासाच्छृणु तत्वतः ॥   ६-४४ ॥
चतुरश्रमण्डलङ्कृत्वा गोमयेनानुलिप्य वै ।  
पञ्चपद्मं लिवेत्तत्र मध्ये श्वेताब्जमुच्यते ॥   ६-४५ ॥
पूर्वाब्जं पीतवर्णन्तु कृष्णवर्णन्तु दक्षिणे ।  
पाण्डरं पश्चिमे भागे रविवर्णमथोत्तरे ॥   ६-४६ ॥
ईशानं मध्यपत्त्रे तु पूर्वाब्जे पुरुषं तथा ।  
अघोरं दक्षिणे पद्मे सद्यं पश्चिमपंकजे ॥   ६-४७ ॥
सौम्येब्जे वामदेवन्तु ईशानादिसुपूज्य वै ।  
तत्तन्मन्त्रेण गन्धाद्यैः पूजयेत् सुसमाहितः ॥   ६-४८ ॥
तत्तन्मन्त्रजपं कृत्वा शतं वार्द्धार्धमेव वा ।  
व्रतेश्वरं नमस्कृत्वा व्रतपूर्णेच्छया पुनः ॥   ६-४९ ॥
व्रतमीशस्य विज्ञाप्य पूर्वाह्ने तु विसर्जयेत् ।  
स्नपनन्तु ततः कृत्वा देवदेवं विशेषतः ॥   ६-५० ॥
प्रणम्य वृतनाथन्तु वृतशुद्ध्यन्तु श्रावयेत् ।  
व्रतेशपूजनं ह्येवं वृतसिद्धिकराय वै ॥   ६-५१ ॥
तदभावे जलेलिङ्गे प्रक्षेपणविधिं श्रुणु ।  
नद्यां वापि तटाके वा तीरे समतले शुभे ॥   ६-५२ ॥
अन्नमृत्गोमयाद्यैसु लिङ्गं कृत्वा विशेषतः ।  
संपूज्य वृतशुद्ध्यन्तु संग्राह्य विधिवत् ततः ॥   ६-५३ ॥
व्योमव्यापि शिवेनैव तल्लिङ्गन्तु जलेक्षिपेत् ।  
स्नपनं वर्जयित्वा तु चान्यत् सर्वं समानकम् ॥   ६-५४ ॥
प्रोक्तं वृतेश्वरं यागं समाचारविधिं श्रुणु ।  
प्रणवं सर्ववर्णाख्यं शिवं सर्वमयं विभुम् ॥   ६-५५ ॥
ऋषिस्सनत्कुमारस्तु ओंकारः शुक्लवर्णकम् ।  
गायत्रीच्छन्द इत्युक्तं तस्य वै शिवतत्वजः ॥   ६-५६ ॥
ओमित्येकाक्षरं ब्रह्मवदन्ते सर्वयोगिनः ।  
प्रणवन्तु समासोक्ता ततः पञ्चाक्षरं श्रुणु ॥   ६-५७ ॥
वाचकस्सतुविज्ञेयस्तद्वाच्यस्तु शिवं स्मृतम् ।  
जपं भुक्तिप्रदं शस्तन्तल्लयोमुनिरिष्यते ॥   ६-५८ ॥ प्. २७१)
ऋषिच्छन्दोवर्ण तत्वदेवतास्तु श्रुणु क्रमात् ।  
काश्यपः कौशिकश्चैव भारद्वाजश्च गौतमः ॥   ६-५९ ॥
आत्रेयास्तु नारदादिमुनयः क्रमश स्मृताः ।  
अनुष्टुप्चत्रिजगती * * * * * * * * ॥   ६-६० ॥
छन्दांसि सर्वमाख्यातं वर्णान्येव मम श्रुणु ।  
रक्तं कृष्णं तथा श्यामं पीतं स्फटिकसन्निभम् ॥   ६-६१ ॥
पृथिव्यादीनि तत्वानि तेषां तत्वं प्रकीर्तितम् ।  
सद्यादि पञ्चब्रह्माणि तेषां देवाः प्रकीर्तिताः ॥   ६-६२ ॥
प्रणवेन समायुक्तं जपकाले तथा चरेत् ।  
तथा षडक्षरं प्रोक्तं त्रिशूलास्तु न तत्समम् ॥   ६-६३ ॥
जपञ्चतुर्विधं प्रोक्तं सर्वेषां जपकांक्षिणाम् ।  
मानसञ्चैव कण्ठे तु ह्युपांशु व्यक्तमेव च ॥   ६-६४ ॥
व्यक्तं दशगुणोपांशु तस्मात् कण्ठोष्ठकं शतम् ।  
सहस्रं मानसं तस्मादंगुल्यादि जपं श्रुणु ॥   ६-६५ ॥
अङ्गुल्या जपसंख्या तु तुल्या एकफलं तथा ।  
रेखायाष्टगुणं प्रोक्तं जीवैर्दशगुणान्वितम् ॥   ६-६६ ॥
सन्ध्याकाले कुशग्रन्धिः प्रवालैस्तु सहस्रकम् ।  
मणिभिर्दशसाहस्रं मौक्तिकं लक्षमुच्यते ॥   ६-६७ ॥
पद्माक्षैः कोटिगुणितं रुद्राक्षैस्तु न विद्यते ।  
रुद्राक्षस्य ततोत्पत्तिं श्रुणुत्वं वक्ष्यतेऽधुना ॥   ६-६८ ॥
दिव्यवर्षसहस्रन्तु चक्षुरुन्मिलितं मया ।  
मुञ्चन्ति मम नेत्राभ्यामश्रु रुद्राक्षमुच्यते ॥   ६-६९ ॥
एकवक्त्रं शिवं साक्षादनन्तं धारणात् फलम् ।  
सन्धार्य मृयते यस्तु सयाति परमांगतिम् ॥   ६-७० ॥
द्विवक्त्रं शक्तिरित्युक्तं त्रिवक्त्रं नादमुच्यते ।  
चतुर्वक्त्रन्तु बिन्दुस्यात् पञ्चवक्त्रं सदाशिवम् ॥   ६-७१ ॥
षड्वक्त्रमीश्वरं प्रोक्तं रुद्रस्सप्तमुखं स्मृताः ।  
अष्टवक्त्रं तथा विष्णुर्नववक्त्रञ्चतुर्मुखम् ॥   ६-७२ ॥ प्. २७२)
नववक्त्रैक वक्त्रान्तं फलन्दशगुणोत्तरम् ।  
हस्ते कण्ठे शिखाकर्णे सन्धार्यसहभस्मना ॥   ६-७३ ॥
सर्वपापात् प्रमुच्यन्ते शिवसायुज्यमाप्नुयात् ।  
दर्शनं पापनाशस्तु स्पर्शनं सर्वसिद्धिदम् ॥   ६-७४ ॥
प्रागुक्तं धारणात् पुण्यं सर्वसिद्धिफलप्रदम् ।  
रुद्राक्षन्धारणात् पुण्यं रुद्राक्षन्धारयेत् सदा ॥   ६-७५ ॥
प्रयाणकाले रुद्राक्षं भक्षयित्वा मृतन्तु ये ।  
ते रुद्र पदमाप्नोति पुनर्जन्म न विद्यते ॥   ६-७६ ॥
तस्मात् सर्वप्रयत्नेन जपं रुद्राक्षकैस्सदा ।  
जपकालञ्च शेषञ्च वक्ष्यते तु समासतः ॥   ६-७७ ॥
पूर्वाह्णे चैव मध्याह्णे चापराह्णेर्धरात्रिके ।  
चतुष्कालं त्रिकालं वा तद्देशञ्च श्रुणुष्व हि ॥   ६-७८ ॥
नदीतटाकतीरे वा गोष्ठे वाप्यालयेऽपि वा ।  
वने वाथगिरौ देशे पुण्यस्थाने ग्रहे यजेत् ॥   ६-७९ ॥
दृष्टे दूरेपिमाने तु नमस्कृत्वास्तु भक्तितः ।  
पथिश्रान्ते विमानन्तु यदा दृष्टेनमस्कृते ॥   ६-८० ॥
पूर्वं शान्तं तदर्धाय प्रदक्षिणन्तु कारयेत् ।  
लिङ्गदर्शनकाले तु पुष्पं कृत्वा प्रणम्य च ॥   ६-८१ ॥
रिक्तपाणिर्नगन्तव्यो देवदेवस्य सन्निधौ ।  
पत्रपुष्पफलैर्वापि न शून्यं मस्तकं तथा ॥   ६-८२ ॥
भस्मयुक्ते यदा दृष्टे लिङ्गमुद्रान्तु दर्शयेत् ।  
शिवचिन्हधराश्चैव भक्तियुक्तास्तदन्वगाः ॥   ६-८३ ॥
पंकमग्नं पशुं दृष्ट्वा तदुत्थाप्याथगच्छति ।  
पैशुन्यञ्च शिवेत्यक्त्वा सर्वप्राणिदया परः ॥   ६-८४ ॥
अदीक्षितजनं स्पृष्ट्वा पापयुक्तांस्तु वर्जयेत् ।  
जपं समासतः प्रोक्तं पवित्रारोहणं श्रुणु ॥   ६-८५ ॥
इति वृताचारविधि पटलः षष्ठः ॥   ६ ॥

No comments:

Post a Comment