Sunday, January 6, 2019

सपिण्डीकरणविधिपटलः,सुप्रभेदागमः

अथ सपिण्डीकरणविधिपटलः
अथातः संप्रवक्ष्यामि सपिण्डीकरणं परम् ।  
द्वादशाहे त्रिमासे वा षाण्मासे वत्सरेऽपि वा ॥   ११-१ ॥
तैलाभ्यञ्जनकादीनि पूर्ववत् परिकल्पयेत् ।  
देवेशमुद्धरेन्मध्ये वह्निशूर्पन्तु दक्षिणे ॥   ११-२ ॥
संपूज्यपूर्ववत् सर्वं निमित्तं भोजयेत् ततः ।  
पृथिव्यापस्तथा तेजोवायुराकाशमेव च ॥   ११-३ ॥
तेष्वेवं सर्वतत्वानि कल्पयित्वा विशेषतः ।  
पार्त्थिवादिषु पञ्चैव पञ्चपिण्डन्तु विन्यसेत् ॥   ११-४ ॥
तस्मादुपरिसादाख्यं पूजयेत् तु सदाशिवम् ।  
लिङ्गं कृत्वा विशेषेण द्वादशाङ्गुलदीर्घिकम् ॥   ११-५ ॥
अर्चनोक्तविधानेन तस्मिन् संपूजयेच्छिवम् ।  
तत्पिण्डं पूर्ववत् कृत्वा तत्वेतत्वे तु योजयेत् ॥   ११-६ ॥
पूर्वं संयोज्य सालोक्यं सामीप्यञ्च द्वितीयकम् ।  
त्रितीयञ्चैव सारूप्यं सायुज्यन्तु चतुर्थकम् ॥   ११-७ ॥
एवं ध्यात्वा तु यत् सम्यक् सपिण्डीकरणं भवेत् ।  
अष्टकाहोमकार्यं तु संक्षेपं श्रुणु सुवृत ॥   ११-८ ॥
माघे च प्रोष्ठमासे च सर्वेद्वौ तु विशेषतः ।  
सूर्ये च सूर्यपुत्रे च भूमिपुत्रे तथैव च ॥   ११-९ ॥
अष्टका कुरुते विद्वानस्य द्वारे तु वायदि ।  
शिवाग्निं पूर्ववद्धुत्वा पञ्चब्रह्मैः शतं हुनेत् ॥   ११-१० ॥
पञ्चषट्सङ्ख्यकान् शैवान् भोजयित्वा विशेषतः ।  
दक्षिणाञ्च यथा शक्त्या वस्त्रहेमपुरःसरम् ॥   ११-११ ॥
पर्वेपर्वेपराह्णे तु यथा शक्त्या तथा कुरु ।  
संप्रोक्तमष्टकाहोमं प्रायश्चित्तविधिं श्रुणु ॥   ११-१२ ॥
इति सपिण्डीकरणविधिपटल एकादशः ॥   ११ ॥

No comments:

Post a Comment