Sunday, January 6, 2019

प्रासादवास्तु लक्षणपटलः

अथ प्रासादवास्तु लक्षणपटलः
अथातः संप्रवक्ष्यामि प्रासादवास्तु लक्षणम् ।  
मूलस्थानन्तु संशोध्य वास्तु रूपं प्रकल्पयेत् ॥   २७-१ ॥
पुण्याहं वाचयित्वा तु प्रोक्षयित्वा शिवाम्भसा ।  
पुष्पादिभिरथाभ्यर्च्य वास्तु देवान् स्वनामकैः ॥   २७-२ ॥
यदङ्गं संस्पृशेत् कर्ता पूजान्ते तन्निरीक्षयेत् ।  
तत्रैव वास्तु देहेपि ब्रूयाच्छल्यं यथार्थतः ॥   २७-३ ॥
शिरस्पर्शात् तु तत्रैव अस्थिशल्यङ्करद्वयात् ।  
हस्तमात्रे मुखस्पर्शात् काष्ठपृष्ठे गलेद्धृवम् ॥   २७-४ ॥
कण्ठस्पर्शे गलेत्वस्थि त्रिकरे शृंखलं विदुः ।  
त्रिभिर्हस्तैरुरस्पर्शात् भवेच्छल्यन्तु शृंखलम् ॥   २७-५ ॥ प्. १२८)
करस्पर्शात् करान्ते तु खट्गापातं समादिशेत् ।  
बाहुसंस्पर्शनात् कर्तुरङ्गारस्तु त्रिहस्ततः ॥   २७-६ ॥
अश्वपादं विनिर्दिष्टङ्गुल्फे पदप्रमाणतः ।  
कणकं पादसंस्पर्शात् सवितस्तिप्रमाणतः ॥   २७-७ ॥
कनिष्ठाङ्गुष्ठयोः स्पर्शात् कराद्धेकां शमुच्यते ।  
लोहशल्यं कटिस्पर्शात् तत् करद्वयमानतः ॥   २७-८ ॥
जानुसंस्पर्शनाद्धस्तेनापितोपस्करं तथा ।  
भुमिष्ठं शल्यमुद्वास्य तत् प्रदेशं खनेत् ततः ॥   २७-९ ॥
यावत् प्रासादविस्तारं तत् समं वा तदर्द्धकम् ।  
अर्धाधिकमथाध्यर्धं खात्वा प्रासादमानतः ॥   २७-१० ॥
अवटस्य चतुर्थांशन्त्र्यंशं वा वादॄकैः समम् ।  
अश्वेभपादमुसलैर्मुत्गरैस्तु घनं कृतम् ॥   २७-११ ॥
समं कृत्वा ततः पश्चात् प्रोक्षयित्वा शिवास्त्रतः ।  
पञ्चगव्येन संसिच्य पवमानमुदीरयन् ॥   २७-१२ ॥
वास्तु विन्यासमार्गन्तु दशसूत्रेण देशिकः ।  
एकाशीति पदं वास्तु सर्वसंपत्करन्नृणाम् ॥   २७-१३ ॥
असुराणां हितार्थन्तु शुक्रः कृत्वा महातपः ।  
महातपसिसंभूतो भूताकारोमहाबलः ॥   २७-१४ ॥
अप्रयुक्तस्ततो भूतो देवैर्युद्धं प्रवर्तते ।  
नहतेस्त्रादिभिर्ज्ञात्वा देवैः सुनिहितः कृतम् ॥   २७-१५ ॥
भूम्यामथोमुखस्तत्र * * * * *  संस्थिताः ।
वंशौद्वौ तत्र विज्ञेयौ चतुष्कोणेषु संस्थितौ ॥   २७-१६ ॥
पार्श्ववं शोर्ध्वपाशाश्च त्वष्टौ चैव प्रकीर्तिताः ।  
पूत्वोत्तरमुखारज्जुरूर्ध्वं वंशमिति स्मृतम् ॥   २७-१७ ॥
शिरोमर्माणितान्याहुः कोणपार्श्वे तथाष्टसु ।  
सूत्राणीह सिराज्ञेया तत्सन्धौ सन्धिरुच्यते ॥   २७-१८ ॥
पदे चैक तु षट्भागे तत् तत् षट्कस्तु चोच्यते ।  
पदे चतुर्थभागन्तु तच्चतुष्कमितिरीतम् ॥   २७-१९ ॥ प्. १२९)
रज्वग्रसंस्थितं यत् तत् केवलं मर्म उच्यते ।  
वास्तु मध्ये भवेत् पद्मं पदमेकाष्टभाजितम् ॥   २७-२० ॥
कोणात् त्रिशूलं स्यात् पादं पादार्धं करसंपुटम् ।  
एषान्तु पीडने दोषा बहवः परिकीर्तिताः ॥   २७-२१ ॥
सिराश्च सीरं मर्माणि नश्यन्ति स्थान वासिनः ।  
मित्रनाशन्तु सन्धौ तु षट्के वैरंसमन्ततः ॥   २७-२२ ॥
चतुष्के वाहनक्षयं मरणं मर्मसु क्रमात् ।  
पद्मस्थाने विनाशन्तु त्रिशूले गर्भनाशनम् ॥   २७-२३ ॥
गोधनस्य विनाशं स्यात् करसंपुटपीडने ।  
वास्तु देवां यथा स्थाप्य ईशानादी न शेषतः ॥   २७-२४ ॥
ईशानश्चाथ पर्जन्यो जयन्तोथमहेन्द्रकः ।  
आदित्यस्सत्यकं शावन्तरिक्षश्च पूर्वगाः ॥   २७-२५ ॥
अग्निः पूषा च वितथो ग्रहक्षतयमौ तथा ।  
गन्धर्वो भृङ्गराजश्च मृगश्चैव तु दक्षिणे ॥   २७-२६ ॥
नि-ऋतिर्दौ वारिकश्चैव सुग्रीवः पुष्पदन्तकः ।  
वारुणो रोगशोषौ च पापयक्ष्मा च पश्चिमे ॥   २७-२७ ॥
वायुर्नागस्तथा मुख्यो भल्लाटः सोम एव च ।  
ऋगोदितिर्दिदिश्चैव द्वात्रिंशत् बाह्यदेवताः ॥   २७-२८ ॥
एकमेकं पदं भुक्त्वा श्मशानाद्याः सुसंस्थिताः ।  
ब्रह्मा नवपदान् भुंक्ते वास्तु मध्ये विशेषतः ॥   २७-२९ ॥
समरीकस्तथैन्द्रे तु विवस्वांश्चैव दक्षिणे ।  
मित्रश्च पश्चिमे भागे ह्युत्तरे पृथिवीधरः ॥   २७-३० ॥
ब्रह्मणश्च चतुर्दिक्षु स्थिताः षट्पदभोगिनः ।  
आपश्चैवा पवत्सश्च ऐशान्न्यां दिशिसंस्थितौ ॥   २७-३१ ॥
शुनासीरश्च सावित्र आग्नेय्यां दिशिसंश्थितौ ।  
इंद्र इंद्र जयश्चैव नै-ऋत्यां दिऽसिसंस्थितौ ॥   २७-३२ ॥
रुद्र रुद्र जयौवायौ चतुष्कोणे प्रकीर्तिताः ।  
एते द्विपदभोक्तारो द्व्यर्धमेव पदस्मृतः ॥   २७-३३ ॥
चरकी च वितारी च पूतनापापराक्षसी ।  
ईशानादिषु कोणेषु बाह्यस्थाः पदवर्जिताः ॥   २७-३४ ॥ प्. १३०)
एवं विन्यस्य पूर्वे तु वास्तुदेहं प्रकल्पयेत् ।  
यत् किञ्चिद्वास्तु विन्यासं तत् सर्वं वास्तु रूपकम् ॥   २७-३५ ॥
ईशानेकन्तु विन्यस्त्वा वापौ नै-ऋतगोचरे ।  
अग्निवाय्वोश्च दिक्भागे जानुकूर्परसंस्थितौ ॥   २७-३६ ॥
लिङ्गमिन्द्र पदेन्यस्त्वा पादौ नै-ऋति विन्यसेत् ।  
मरीचिश्चोदरस्थाने स्तनौ विन्यस्य बुद्धिमान् ॥   २७-३७ ॥
विवस्वति च मित्रे च विन्यसे अकुक्षिपार्श्वके ।  
ऊरुहस्त तलौ चैव साविते स्थापयेत् ततः ॥   २७-३८ ॥
ऊरुप्रकोष्ठ मध्ये च पादौ सवितरि न्यसेत् ।  
रुद्ररुद्रजयौ चैव विन्यसेत् पूर्ववच्छुभम् ॥   २७-३९ ॥
महेन्द्राद्यन्तरिक्षान्ता बाहुमध्ये स्थिता स्मृताः ।  
सुजानुकूर्परे चैव ह्यग्नौ विन्यस्य बुद्धिमान् ॥   २७-४० ॥
पूषादिमृगपर्यन्तञ्जंघाञ्च विनिवेशयेत् ।  
दौवारिपापयक्ष्मान्ते चान्यजंघा विनिश्चिताः ॥   २७-४१ ॥
वायौ कूर्परजानूच्चं ऋगान्तं बाहु संस्थितम् ।  
शेते त्वधोमुखो वास्तु देवः प्राच्यभुवं प्रति ॥   २७-४२ ॥
उग्रः सुभीषणो यस्मात् तस्मात् पूज्यं क्रियार्थिभिः ।  
पुण्याहं वाचयित्वा तु प्रोक्षयेत् पञ्चगव्यकैः ॥   २७-४३ ॥
गन्धपुष्पादिभिर्धूपैर्वास्तु देवान् प्रपूजयेत् ।  
ईशानं पूजयेत् पूर्वं घृतेनाक्षतमिश्रितम् ॥   २७-४४ ॥
पर्जन्याय विशेषेण दद्यान्निलोत्पलादिकम् ।  
जयन्तस्य पताकान्तु नीलवर्णां विशेषतः ॥   २७-४५ ॥
महेन्द्रस्य तु रत्नानि भास्करस्य वितानकम् ।  
गोधूममण्डकान् सत्ये दद्यान्मत्स्यंभ्रशस्य तु ॥   २७-४६ ॥
दद्यात् तु शाकुनं मांसमन्तरिक्षाय देशिकः ।  
अग्नये तु स्रवं दद्याल्लाजं पूष्णे तथैव च ॥   २७-४७ ॥
क्षीरान्नं वितथस्योक्तं मध्वन्नं हि ग्रहक्ष्ते ।  
मांसोदनं यमस्याथ गन्धं गन्धर्वकस्य तु ॥   २७-४८ ॥
भृंगे तु शाकुनाजिह्वा मृगेयवतिलस्तथा ।  
कृसरं त्वथपित्रे तु दन्तकाष्ठञ्च दौव्रके ॥   २७-४९ ॥ प्. १३१)
यावन्त्वथ च सुग्रीवे कुशान्वै पुष्पदन्तके ।  
दवापद्मन्तु वरुणे रोगस्यमधु चैव हि ॥   २७-५० ॥
घृतोदनन्तु शोषस्य यवान्वैपापयक्ष्मणि ।  
घ्ताक्तमण्डकं दद्याद्रोगाय तु विशेषतः ॥   २७-५१ ॥
नागपुष्पाणि नागाय मुख्यस्यापूपमुच्यते ।  
मुद्गान्नञ्चैव भल्लाटे पायसं मधुसोमके ॥   २७-५२ ॥
ऋगस्यैव तु शालूकं लोहितान्यदितौ तथा ।  
पूरिकाञ्च दितौ दद्यात् क्रमेणोक्तं बलिक्रमम् ॥   २७-५३ ॥
पयोदधिकुशांश्चैव हरिद्रान्नं गुलान्नकम् ।  
पक्वमांसञ्च शुद्धान्नं पक्वञ्च पिशितं तथा ॥   २७-५४ ॥
विदिक्ष्वा पादिदेवानां बलिंदद्यात् पृथक् पृथक् ।  
घृतान्नं रक्ताहारञ्च लड्डुकं माषमेव च ॥   २७-५५ ॥
समरीयकपूर्वेभ्यो दद्याद्दिक्षु विशेषतः ।  
तिलाक्षतयवांश्चैव पञ्चगव्यं कुशं तथा ॥   २७-५६ ॥
दातव्यञ्चरुणा तत्र ब्रह्मणे तु विशेषतः ।  
चरकी प्रभृतीनान्तु मांसं पक्वन्निवेदयेत् ॥   २७-५७ ॥
सर्वेषाञ्चैव शुद्धान्नं गुलाज्यन्धिसंयुतम् ।  
अलाभे सतिदातव्यं गन्धाद्यैश्च समन्वितम् ॥   २७-५८ ॥
सर्वेषामेव मन्त्रास्तु नामप्रणवसंयुताः ।  
पूजादीनां नमोन्तन्तु बलिः स्वाहान्तमुच्यते ॥   २७-५९ ॥
कृत्वैवं बलिदानान्ते पुण्याहन्तु विशेषतः ।  
संप्रोक्ष्य पञ्चगव्येन मूलमन्त्रमदीरयन् ॥   २७-६० ॥
वास्तुहोमन्ततः कृत्वा मध्ये चोत्तरपूर्वके ।  
आरंभस्यादि काले तु होमङ्कृत्वा विशेषतः ॥   २७-६१ ॥
स्थण्डिलन्तत्र कुर्वीत हस्तमात्रप्रमाणतः ।  
चतुरंगुलमुत्सेधं गन्धपुष्पं सदर्भयुक् ॥   २७-६२ ॥
शिवाग्निञ्जनयेत् तत्र पूर्वोक्तेन विधानतः ।  
अग्निमध्ये न्यसेद् वास्तुन् तत्रस्थैर्दैवतैर्युतम् ॥   २७-६३ ॥
आज्यादि द्रव्यमेवन्तु वास्तोर्वक्त्रे हुनेत् क्रमात् ।  
पार्थिवेन तु बीजेन सर्वद्रव्यैस्तु होमयेत् ॥   २७-६४ ॥ प्. १३२)
तत्रस्थ देवतानाम्ना स्वाहान्तेन तु होमयेत् ।  
एवं पृथक् शतं प्रोक्तं तदर्द्धं वा तदर्धकम् ॥   २७-६५ ॥
दशसङ्ख्याथवा तत्र प्रत्येकं द्रव्यमाचरेत् ।  
द्रव्यान्ते व्याहृतिं हुत्वा पूर्णाहुतिं शिवस्य तु ॥   २७-६६ ॥
वास्तु देवान् विसृज्याथ पश्चादग्निं विसर्जयेत् ।  
एवं प्रासादवास्तुञ्च संपूज्यसाधकोत्तमः ॥   २७-६७ ॥
बलिं दत्वाग्नि संपूज्य वास्तुकर्मसमारभेत् ।  
वास्तुकर्म यदा रब्धं वास्तुहोमं तदा चरेत् ॥   २७-६८ ॥
वास्तुहोमं विनायत्र कृतं वास्तुविनश्यति ।  
वाप्यादि होमपर्यन्तं तत्सर्वं समवेन तु ॥   २७-६९ ॥
चतुरायपदं कृत्वा माहेन्द्र द्वारकल्पनम् ।  
एतद् विशेषमेवन्तु ग्रह वास्तुविधिं प्रति ॥   २७-७० ॥
एवमेव तु संप्रोक्तं प्रासादवास्तुलक्षणम् ।  
आद्येष्टकाविधिं पश्चाच्छृणुष्वैकाग्रमानसः ॥   २७-७१ ॥

इति प्रासादवास्तुलक्षण पटलस्सप्तविंशतितमः ॥   २७ ॥

No comments:

Post a Comment