Sunday, January 6, 2019

वृषभस्थापनविधिपटलः,सुप्रभेदागमः

अथ वृषभस्थापनविधिपटलः
अथातः संप्रवक्ष्यामि वृषभस्थापनं परम् ।  
अन्तरावरणे देवाभिद्यते शिवशासने ॥   ४०-१ ॥
तेषु देवा स्थिते तस्मात् परिवारस्यवस्थता ।  
वृषभस्य सहस्रांशाभिद्यन्ते मूर्तयस्तदा ॥   ४०-२ ॥
त्रिविधं स्थापनं प्रोक्तं शैलं लोहंसुधामयम् ।  
लोहजं स्थानकेकार्यं शयने वा विशेषतः ॥   ४०-३ ॥
शिलासुता प्रकर्तव्यं शयने तु विचक्षण ।  
त्रिविधं तत्र कर्तव्यं सर्वसंपत्करं नृणाम् ॥   ४०-४ ॥
लोहजेन तु विघ्नेश कृतञ्चेदुत्तमं सृतम् ।  
शैलञ्चमध्यमं प्रोक्तं सुधाया चाधमं भवेत् ॥   ४०-५ ॥
वृषभस्य तदुत्सेधं द्वारमानेन वै श्रुणु ।  
द्वारोत्सेधञ्चतुर्थांशमर्धपादोनकं तथा ॥   ४०-६ ॥
समं वा द्विगुणं वापि त्रिगुणं वा विशेषतः ।  
तत्काले वृषभायामं द्विसप्तत्यङ्गुलं स्मृतम् ॥   ४०-७ ॥
चतुर्भागमुखं तत्र त्रिभागं नासिका तथा ।  
द्व्यङ्गुलन्तु तथा नेत्र मन्त्रः पादसुविस्तरम् ॥   ४०-८ ॥ प्. २०२)
श्रुङ्गायामं द्विभागन्तु तन्मूलं भागविस्तरम् ।  
तीक्ष्णाग्रौ तु प्रकर्तव्यौ चानुपूर्वात् क्रमेण तु ॥   ४०-९ ॥
कर्णायामं दशांगुल्यं तद्विस्तारं तदर्धता ।  
कला तु कर्णमूलं हि तदन्तश्च तदेव तु ॥   ४०-१० ॥
त्रिभागं नेत्रयोर्मध्ये तद्वच्छ्रंगौ तु मध्यमम् ।  
अक्षिकर्णान्तरं भागं कर्णाच्छृङ्गान्तरं तथा ॥   ४०-११ ॥
द्व्यङ्गुलं नासिकाद्वारे तद्वक्रं भागमानतः ।  
जिह्वासौ दन्तपङ्ती च यथा युक्त्या च कारयेत् ॥   ४०-१२ ॥
अष्टादशाङ्गुलञ्चोरु तन्नाहं त्रिगुणं तथा ।  
जंघादशाङ्गुला ज्ञेया तदूर्ध्वे तु चतुष्कला ॥   ४०-१३ ॥
षडङ्गुलं ततः पादं तदर्धंखुरमुच्यते ।  
जंघायाः पश्चिमं पादं कलोर्ध्वन्तु कलाधिकम् ॥   ४०-१४ ॥
पुच्छं स्यादग्रमूलान्तञ्चतुरङ्गुलविस्तृतम् ।  
मध्यमं द्व्यङ्गुलन्तारमग्रमेकाङ्गुलं स्मृतम् ॥   ४०-१५ ॥
वृषणौ द्विकलायामौ विस्तारं स्याच्चद्व्यङ्गुलम् ।  
वृषस्यलक्षणं प्रोक्तं स्थापनं तस्य वै श्रुणु ॥   ४०-१६ ॥
लोह * * * * ञ्चैव विनाशैलेसुधामये ।  
जलाधिवासं शयनं सुधायाञ्च न कारयेत् ॥   ४०-१७ ॥
नेत्रेणमोचयं नेत्रं शयन * * * * * ।  
दिक्पालकलशानष्टौ लोकपालाधिपास्ततः ॥   ४०-१८ ॥
वृषकुंभन्तु तन्मध्ये वृषभंगौस्समावृतम् ।  
घण्डमालारवोपेतं श्वेतवर्ण महाद्युतिम् ॥   ४०-१९ ॥
******** तत्रमूलमन्त्रेन देशिकः ।
नवपञ्चत्रयं वापि एकाग्निमथवा पुनः ॥   ४०-२० ॥
शिवाग्निं पूर्ववत् कृत्वा मध्येचाहूयतद्वृषम् ।  
पूर्वोक्तमूलमन्त्रेण हुत्वा तत्र शताहुतिम् ॥   ४०-२१ ॥
शिवाङ्गैः शैवमन्त्रेण हृदयादीनिसंस्पृशेत् ।  
प्रभाते विमले तत्र पूर्णां हुत्वास्त्रमन्त्रतः ॥   ४०-२२ ॥ प्. २०३)
* * स्वनाममन्त्रेण कलशैरभिषेचयेत् ।  
वृषगायत्रि मन्त्रेण मध्यकुंभेनदेशिकः ॥   ४०-२३ ॥
गन्धपुष्पादिनायष्ट्वा मुत्गान्नं दापयेत् ततः ।  
वृषयागं ततः कृत्वा नवसप्ताहपञ्च वा ॥   ४०-२४ ॥
त्रयाहैकाह्नमेवाथ उत्सवं विधिचोदितम् ।  
प्रदक्षिणे वृषंपूर्वं कुर्यादन्यानि तत्समम् ॥   ४०-२५ ॥
वृषयागमिदं ख्यातं वह्नेः संस्थापनं श्रुणु ।  
इति वृषभस्थापनविधिपटल चत्वारिंशत्तमः ॥   ४० ॥

No comments:

Post a Comment