Sunday, January 6, 2019

कालचक्रविधिपटलः,सुप्रभेदागमः

अथ कालचक्रविधिपटलः
अथातः संप्रवक्ष्यामि कालचक्रस्यलक्षणम् ।  
कालञ्च कुरुते यस्मात् कालमेवमुदाहृतम् ॥   २-१ ॥
प्राणीनाञ्चैव देवानां विनाशोत्पत्तिकारणम् ।  
अमूर्तिं कालमाख्याता दृष्वादष्टन्तु लक्षणम् ॥   २-२ ॥
त्रिविधं कालमाख्यातं शिवेन परिभाषितम् ।  
सृष्टिकालं स्थितिकालं संहारञ्चेति कीर्तितम् ॥   २-३ ॥
शिवाद्यवनि पर्यन्तं सृष्टिरेवमुदाहृतम् ।  
या स्थितिस्सर्वभूतानां शिवाद्यानन्तक स्थितम् ॥   २-४ ॥
पृथिव्यादि शिवान्ताये लयङ्गच्छेत् परापरम् ।  
तदा संहारमेवोक्तं त्रिविधं कालनिर्णयम् ॥   २-५ ॥
त्रिषुकालेषु वर्तन्तेतीतानां गमं ततः ।  
वर्तमानाख्यकं कालमुच्यते वै पृथक् पृथक् ॥   २-६ ॥ प्. ३०२)
यदा शेषं समाप्तन्तु तदा तीतमिति स्मृतम् ।  
सापेक्षकञ्च यत्काले तदा नागतमुच्यते ॥   २-७ ॥
असमाप्तं यदारब्धं वर्तमानमुदाहृतम् ।  
तत्कालमव बोद्धव्यं देवादीनामुदाहृतम् ॥   २-८ ॥
युगपत् सृष्टि संहारौ स्थितिकाले निवर्तते ।  
केचित् कालात् सृजन्त्येव केचित् कालात् भ्रमन्ति च ॥   २-९ ॥
मनुष्य पितृदेवानां कालसंख्यान्ततः श्रुणु ।  
कालञ्च द्विविधं प्रोक्तं स्थूलं सूक्ष्मन्तथैव च ॥   २-१० ॥
मौक्तिकं (मौकिकं) स्थूलमाख्यातं योगिनां सूक्ष्ममेव च ।  
स्थूलञ्च द्विविधंवत्स चंद्रादित्यस्य चारणम् ॥   २-११ ॥
चंद्रस्य वर्तनाकालोमनुष्याणां प्रकीर्तितम् ।  
सूर्यस्य वर्तनाकालो देवानान्तु प्रकीर्तितम् ॥   २-१२ ॥
कालचक्रे तु वर्तन्ते भास्करादि ग्रहास्थथा ।  
द्वादशारयुते चक्रे मेषाद्याराशयोरवेः ॥   २-१३ ॥
पट्टिकायाञ्च नाभौ च मध्ये वायुः प्रकीर्तिताः ।  
मेरुमूर्ध्निगतञ्चक्रं ब्रह्माण्डे संव्यवस्थितम् ॥   २-१४ ॥
कुलालचक्रवन्नित्यं भ्रामस्तत्रैव देवताः ।  
मेरुं प्रदक्षिणं कृत्वा नक्षत्राणि ग्रहाणि च ॥   २-१५ ॥
सूर्योदयास्तमायान्तमहरेवविदुर्बुधाः ।  
अस्तमयादुदयान्तं निशा चैवमुदाहृतम् ॥   २-१६ ॥
अहर्निशिद्वयोपेतमहोरात्रमिति स्मृतम् ।  
दिवाप्रातरहञ्चैव प्रोक्तः पर्यायवाचकाः ॥   २-१७ ॥
शर्वरीरजनीसायं निशिनक्तन्तु रात्रिकम् ।  
हायादि देवतानान्तु पितृणां प्रातरादिकम् ॥   २-१८ ॥
मनुष्याणामहोरात्रमितिशास्त्रेसु निश्चितम् ।  
मनुष्याणां हितार्थाय सर्वसंपत्कराय च ॥   २-१९ ॥
पूर्वाह्ने चैव मध्याह्ने चापराह्नेर्धयामके ।  
तस्मात् सर्वप्रयत्नेन चतुःसन्धिषु पूजयेत् ॥   २-२० ॥
यामं प्रतिविशेषेण पूजयेदष्टसन्धिषु ।  
यामार्धं सन्धिरित्युक्तमहोरात्रन्तु पूजयेत् ॥   २-२१ ॥ प्. ३०३)
मनुष्याणां दिनं प्रोक्तं पञ्चपञ्चदशाहकः ।  
पक्षद्वयिशुक्लपक्षः कृष्णपक्षस्तथैव च ॥   २-२२ ॥
एकराशिगतौ यत्र चन्द्रादित्यौ सहैव तु ।  
तत्रामावास्याचेत्युक्तं तत्पक्षं शुक्लमुच्यते ॥   २-२३ ॥
सप्तराशिगतञ्चंद्रं तत्र पूर्णकलामतः ।  
पौर्णमासी ततः प्रोक्तः कृष्णः पञ्चदशाहकः ॥   २-२४ ॥
पक्षद्वयं तथा मासोमासाद्वादशवत्सरम् ।  
वर्षञ्चैवाब्द पर्याय वाचकाः परिकीर्तिताः ॥   २-२५ ॥
शताब्दन्तु मनुष्याणामायुष्यं समुदीरितम् ।  
मृगाणां सर्वजातीनां शताब्दायुः प्रकीर्तितम् ॥   २-२६ ॥
नराणाञ्चैव चायुष्यं शतञ्चैव प्रकीर्तितम् ।  
एवमुक्तं मनुष्याणां पितृकालं ततः श्रुणु ॥   २-२७ ॥
मनुष्याणामहोरात्रं पितृणां घटिका भवेत् ।  
त्रिंशत्घटिमहोरात्रं शुक्लपक्षन्तु वासरम् ॥   २-२८ ॥
निशिकृष्णं विजानीयात् पितृणां तदहर्न्निशम् ।  
पूर्वसन्धिरमावास्या मध्याह्नञ्चाष्टमी भवेत् ॥   २-२९ ॥
पौर्णमास्यपराह्णन्तु अष्टमीचार्धयामकम् ।  
दिवसैर्द्वादशैर्मासं मासैर्द्वादशवत्सरम् ॥   २-३० ॥
अमावास्यान्तु या पूजा पितॄणान्तु प्रसादद ।  
पितृकालमिदं प्रोक्तं मनुष्याणां हिताय वै ॥   २-३१ ॥
देवानां वक्ष्यते कालस्तुट्यादि प्रलयान्तकम् ।  
तुटिलवनिमेषाश्च काष्ठा चैव कला तथा ॥   २-३२ ॥
क्षणं मुहूर्तं घटिका सन्धिर्यामस्त्वहर्निशि ।  
दिवसः पक्षमासौ च ऋतुस्त्वयनवत्सराः ॥   २-३३ ॥
युगमन्वन्तरौ कल्पं महाकल्पप्रलयस्तथा ।  
तुट्यादिप्रलयान्तञ्च लक्षणं श्रुणु सांप्रतम् ॥   २-३४ ॥
स्वस्थान राक्षिकोन्मील उन्मीलन्तु निमेषकम् ।  
निमेषस्य चतुर्भागन्तुटीरेवमुदाहृतम् ॥   २-३५ ॥
तुटिद्वयलवं विद्धि लवद्वयनिमेषकम् ।  
निमिषोदश पञ्चैव काष्ठाः सा त्रिंशतिः कला ॥   २-३६ ॥ प्. ३०४)
कलार्धस्तु क्षणं प्रोक्तं क्षणद्वयं मुहूर्तकम् ।  
तदर्द्धं घटिका प्रोक्ता सर्वकार्यन्तया कृतम् ॥   २-३७ ॥
सत्रिपादत्रिघटिका सन्धिरित्युच्यते बुधैः ।  
सन्धिद्वयन्तथायाम चतुर्यामन्दिवा स्मृतम् ॥   २-३८ ॥
तदहर्मात्र विज्ञेय महोरात्रं दिनं स्मृतम् ।  
दिनपञ्चदशः पक्षो मासः पक्षद्वयं तथा ॥   २-३९ ॥
पूर्वपक्षोपरञ्चैव तौपक्षद्वयमुच्यते ।  
मासद्वयं ऋतुः प्रोक्तमयनं वै ऋतुस्त्रयम् ॥   २-४० ॥
अयनद्वयमब्दं हि अहोरात्रन्तु दैविकम् ।  
देवानान्तु दिवाप्रोक्तं मकरादि ऋतुस्त्रयम् ॥   २-४१ ॥
ऋतुस्त्रयं कुलीरादि निशि चैवमुदाहृतम् ।  
संक्रान्ति विषुवे चैव अयने च प्रकीर्तिताः ॥   २-४२ ॥
अन्यराशि गते भानौ राशिमध्ये तु संक्रमः ।  
तुलामेषगते सूर्ये विषुवे तत्प्रकीर्तितौ ॥   २-४३ ॥
कुलीरेमकरे प्राप्ते दक्षिणञ्चोत्तरायणम् ।  
उत्तरायण संक्रान्तिः पूर्वाह्नमिति कीर्तितम् ॥   २-४४ ॥
चैत्रे विषु च मध्याह्ने अपराह्ने तु दक्षिणे ।  
अश्वयुक् विषुवं प्रोक्तं देवानामर्धरात्रिकम् ॥   २-४५ ॥
चतुस्सन्धिषु तस्माद्वे देवेशेषं प्रपूजयेत् ।  
नित्यसन्धिर्मनुष्याणां पितॄणामाससन्धिकम् ॥   २-४६ ॥
अब्दसन्धिषु देवाश्च पूजयेत् तु यथा विधि ।  
इत्थं भूतमहोरात्रं देवानां तु प्रकीर्तितम् ॥   २-४७ ॥
प्रोक्तमब्द क्रमं ह्येवं युगमानन्तु वक्ष्यते ।  
अण्डजाति युगाद्यैव केचित् शास्त्रे प्रकीर्तिताः ॥   २-४८ ॥
चतुर्युगन्तु शास्त्रे तु शिवेन परिभाषितम् ।  
तृतयुगन्तु त्रेता च द्वापरन्तु कलिस्तथा ॥   २-४९ ॥
कृतश्चतुस्सहस्राब्दं सन्धिरष्टशतं भवेत् ।  
सन्ध्याशतं तथा ज्ञेयस्त्रेतार्ध पादहीनका ॥   २-५० ॥ प्. ३०५)
चतु श्शतस्सहस्रो वा द्वापरश्चेति कीर्तिताः ।  
कलियुगञ्च ऊर्धस्थो वर्धते तु पुनः पुनः ॥   २-५१ ॥
एतैर्द्वादशसाहस्रैरब्दैरैव चतुर्युगाः ।  
सप्तत्येक समावर्त्यामन्वन्तरमिहोच्यते ॥   २-५२ ॥
अशीति सहस्रैर्वर्षैः पञ्चाशद्विसहस्रकैः ।  
दिव्यसंवत्सरेणैव ज्ञेयमन्वन्तरं तथा ॥   २-५३ ॥
स्वायंभुवमनुः पूर्वं स्वारोचिषमतः परम् ।  
उत्तमंरैव तञ्चैव तापसञ्चक्षुषं तथा ॥   २-५४ ॥
वैवस्वतञ्च सा वर्णमेरु सा वर्णमेव च ।  
दक्षसा वर्णमेवं हि ब्रह्मसा वर्णमेव च ॥   २-५५ ॥
रुद्रसा वर्णमित्युक्तं रौल्यंभौत्यञ्चतुर्दश ।  
इत्येवन्तवसं क्षेपात् मनवः परिकीर्तिताः ॥   २-५६ ॥
नाभिकल्पन्तु तत्कालं ब्रह्मणोयदि भावयेत् ।  
पञ्चैव कालमेवञ्च कल्पं ब्रह्मादि वा भवेत् ॥   २-५७ ॥
कल्पमेवं समाख्यातं महाकल्पं ततः श्रुणु ।  
त्रयस्त्रिंशच्च देवाद्यास्त्रिशतं त्रिसहस्रकम् ॥   २-५८ ॥
देवानां लयमित्युक्तं तद्रात्रौ तु प्रकल्पयेत् ।  
ब्रह्मणस्तदहोरात्रं तदा चेन्द्रालयं भवेत् ॥   २-५९ ॥
शतत्रयं षष्टिदिनं ब्रह्मवर्षमुदाहृतम् ।  
षष्टित्रिंशच्च चक्राणां लयं तत्र पुनः पुनः ॥   २-६० ॥
तेन वत्सरमानेन शताब्दं ब्रह्मणोलयम् ।  
यावत्ब्रह्मलयं तावद् विष्णोस्तु तदहर्न्निशि ॥   २-६१ ॥
ब्रह्मणात्रिशतं षष्टि लयंतत्र पुनः पुनः ।  
तेनमानेन बोद्धव्या शताब्दमीश्वरस्य तु ॥   २-६२ ॥
ईश्वरस्तु लयं यत्तु निमेषं हि सदाशिवे ।  
ततो वृद्ध्याशतं वर्षात् सदाशिवलयं स्मृतम् ॥   २-६३ ॥
बिन्दोर्नादस्य तद्वंशात् लयं तत्रैव चोच्यते ।  
नादमूर्तिलयं यावच्छक्ताच्छक्तेर्दिनं तथा ॥   २-६४ ॥ प्. ३०६)
दिनवृद्ध्याशतं कान्त तावच्छक्ति स्थितस्सदा ।  
यदा शक्तेर्लयं विद्धि यावत् परदिनं तु यत् ॥   २-६५ ॥
तत्सङ्ख्यानिशताब्दन्तु परस्यैवलयं भवेत् ।  
प्रथमं शक्तिकं शान्तं शिवः पर्यायवाचकः ॥   २-६६ ॥
परापरस्य तं ज्ञातं विनाशोत्पत्तिकारणम् ।  
देवानां कालमित्युक्तं तत्वानां कालमुच्यते ॥   २-६७ ॥
पृथिव्यादि शिवान्तञ्च सत्वकालं प्रकीर्तितम् ।  
ईश्वरस्य लयं यावदात्मनस्तुलयं भवेत् ॥   २-६८ ॥
सदाशिवलयं यावत् नादान्तं लयमेव च ।  
ततः शक्तेर्लयं यावल्लयङ्गच्छेच्छिवान्तकम् ॥   २-६९ ॥
तत्वानां लयमेवोक्तं सूक्ष्मकालं ततः श्रुणु ।  
श्वासैस्तु त्रुटिभिः प्राणो घटिका प्राणषट्कके ॥   २-७० ॥
अहोरात्रं ततः षष्टि घटिकादिर्विशेषतः ।  
पूर्ववद्दिनवृद्ध्या तु पक्षादीनि विवर्धयेत् ॥   २-७१ ॥
सूक्ष्मकालेन योगेन देव ब्रह्मादिकालयः ।  
ज्ञानिनां योगिनाञ्चैव सूक्ष्मकालं प्रकीर्तितम् ॥   २-७२ ॥
कालचक्रमिदं प्रोक्तमाधाराधेयकं श्रुणु ।  
इति कालचक्रविधिपटललो द्वितीयः

No comments:

Post a Comment