Sunday, January 6, 2019

पशुसृष्टिविधिपटलोद्वितीयः,सुप्रभेदागमः

अथ पशुसृष्टिविधिपटलः
अथातः संप्रवक्ष्यामि पशुसृष्टिविधिक्रमम् ।  
अनादित्वं पशुत्वञ्च प्रोच्यते शिवशासने ॥   २-१ ॥
शिवात्तु विद्यते चात्मा जगत् सृष्ट्यर्थमेव तु ।  
विद्या तत्वादियोगेन आत्मतत्वमुदीरितम् ॥   २-२ ॥
अथात्मा विमलः शुद्धो माययाबद्धते सदा ।  
सहजं मलसंबन्धात् पशुरित्युच्यते बुधैः ॥   २-३ ॥
अमूर्तिस्तु पशुर्नित्यो निर्गुणोनिष्क्रियो प्रभुः ।  
मायोदरगते व्यापि भोगोपायेषु वर्तितः ॥   २-४ ॥
सकेवलस्त्विति प्रोक्ता स्वाणवं मलबन्धनात् ।  
आणवं सहजं प्रोक्तं तु षकंबुकवत् क्रमात् ॥   २-५ ॥ प्. ३२१)
मोहोमदश्चरागश्च विषादश्चैव शोषितम् ।  
हर्षको हि च वै चित्र्यं सप्तैते सहजामलाः ॥   २-६ ॥
सहजं मलसंबन्धे केवलं तदुदाहृतम् ।  
सहजं मलमित्युक्तमागन्तु कमलं श्रुणु ॥   २-७ ॥
मायेयं कर्मजञ्चैव द्विविधं शिवसाधने ।  
शक्त्याकाचित् बन्धनादि कलाद्यवनिलक्षितम् ॥   २-८ ॥
मायायत्तं विजानीयात् पुण्यपापैश्च कर्मजम् ।  
आणवञ्चैव मायेयं कामजञ्च त्रिधा भवेत् ॥   २-९ ॥
मलोज्ञानन्तमश्चैव तिरस्कारकरस्तथा ।  
प्रतिपत्तिरविद्येति ममपर्याय वाचकाः ॥   २-१० ॥
त्रिमलैर्बद्ध्यते चात्मा सकलः परिवादितः ।  
सकलश्चेति बद्धात्मा संसारी विषयि तथा ॥   २-११ ॥
क्षेत्री क्षेत्रज्ञ भोक्ता च पशुज्ञानी तथैव च ।  
भोगी चैव शरीरी च आत्मपर्याय वाचकः ॥   २-१२ ॥
अशीतिश्च चतुश्चैव शतःसाहस्र भेदकैः ।  
संप्राप्तो योनिभेदस्तु जीवनाम्ना तु तत्र वै ॥   २-१३ ॥
प्रोक्ता तु सकलावस्था शुद्धावस्था ततः श्रुणु ।  
मलानां नाशनार्थय अन्यच्छक्ति निपाततः ॥   २-१४ ॥
यावच्छक्ति निपातान्तं तावदज्ञानवेदनम् ।  
पूर्वकर्माणि सर्वाणि समके शक्तिपातने ॥   २-१५ ॥
सदाशिवत्वमापेक्ष्य शिवे भक्तिर्भवेद्यथा ।  
तदादीक्षां प्रविश्याथ पूजाश्चैव तु भक्तितः ॥   २-१६ ॥
योगाभ्यासं ततः कृत्वा ज्ञान तंत्रं तदाभ्यसेत् ।  
तदा ज्ञानान्धकारञ्च ज्ञानदीपेन नाशयेत् ॥   २-१७ ॥
स्वभावशुद्धं तत्ज्ञानं स्वभावन्तु तथामलम् ।  
श्यामनीलादि संबन्धे स्फटिकं तद्वदेव हि ॥   २-१८ ॥ प्. ३२२)
तत्वेनातिप्रयत्नेन शुद्धस्फटिकवत् भवेत् ।  
घटगुप्तो यथा दीपो घटनाशे तु दीप्यते ॥   २-१९ ॥
घटाभूक्तो यथा भानुर्मुक्तौ वापि तथा भवेत् ।  
तद्वत् बन्धत्वमुक्तत्वादात्मनः परिकीर्तितौ ॥   २-२० ॥
मलैरावृतमात्मानं पशुरित्युच्यते बुधैः ।  
मलमुक्तमथात्मानं शुद्ध इत्युच्यते बुधैः ॥   २-२१ ॥
ईश्वर स्मृतिना काले लब्धत्वं सतिनिर्मलम् ।  
अथोहमीश्वरं स्मृत्वा पश्चात् तन्मयतांगतः ॥   २-२२ ॥
सर्पबुद्ध्या भ्रमन् रज्जुं रात्रौ तिष्ठति यः पुमान् ।  
भ्रमेनष्टे यथा काले तदा सर्पं न दृश्यते ॥   २-२३ ॥
अथात्मबन्धमुक्तत्वं शुद्धत्वात् तत्स्वभावतः ।  
स्वभावं ज्ञानतोमुक्तिस्सजीवन्मुक्त एव हि ॥   २-२४ ॥
देहनाशे परावाप्तिर्घटनाशे तु व्योमवत् ।  
सोहं ज्ञाने तु पश्चाद्वै पूजाध्वाने तु वर्जयेत् ॥   २-२५ ॥
सर्वतत्वानि भूतानि दृश्यते चात्म एव हि ।  
समत्व सुखदुःखाभ्यां तत्प्रियाप्रिययोः समम् ॥   २-२६ ॥
शरीरारब्धकर्माणि भुज्यते स्वयमेव तु ।  
हिंगुत्यक्ते तु तत्पात्रे गन्धं तत्र न नश्यति ॥   २-२७ ॥
कुलालचक्रं कर्मान्ते यथा भ्रमति वै तथा ।  
तत्वज्ञ सर्वकर्माणि शरीरन्तेषु नाशनम् ॥   २-२८ ॥
अग्निदग्धानि बीजानि न प्ररोहन्ति भूतले ।  
त्रिवर्ण स्थानियो ज्ञात्वा पुनर्जन्म न विद्यते ॥   २-२९ ॥
शुद्धावस्था इयं प्रोक्ता सर्वतत्वादिभिर्गुणैः ।  
त्र्यवस्थं पुरुषः प्रोक्तः ह्यध्वानञ्च ततः श्रुणु ॥   २-३० ॥
इति पशुसृष्टिविधिपटलोद्वितीयः ॥   २ ॥

No comments:

Post a Comment