Sunday, January 6, 2019

चण्डेशस्थापनविधिपटलः,सुप्रभेदागमः


चण्डेशस्थापनविधिपटलः
अथातः संप्रवक्ष्यामि चण्डेशस्थापनं परम् ।  
उद्भवं प्रथमन्तस्य द्वितीयं स्थापनं क्रमात् ॥   ४७-१ ॥
रुद्रस्यैव तु रुद्रांशं तत्सर्वं चण्डनामतः ।  
गणेशावरणे स्थित्वा दशांशेना युतेन तु ॥   ४७-२ ॥
प्रचण्डादिविनिष्क्रान्ता पञ्चमूर्तिर्विधानतः ।  
प्रचण्डचण्डः प्रथमं ततो विक्रान्त चण्डगः ॥   ४७-३ ॥
तृतीयो भुविचण्डस्तु वीरचण्डश्चतुर्थकः ।  
एवं वै पञ्चचण्डेशा पञ्चब्रह्मसमुद्भवा ॥   ४७-४ ॥
कृतयुगाधिपत्यं तु प्रचण्डमिदमुच्यते ।  
विक्रान्तचण्डनामा तु त्रेतायामधिप स्मृतः ॥   ४७-५ ॥
द्वापरे चाधिपत्यं हि विभुश्चण्डेश उच्यते ।  
कलौ तु वीरचण्डेश स्वाधिपत्यं प्रकीर्तितम् ॥   ४७-६ ॥
एवं वै पञ्चभेदेन चण्डनामविधीयते ।  
आलयस्यैश दिक्भागे विमानं पूर्ववत् क्रमात् ॥   ४७-७ ॥
त्रिणेत्रं चतुर्भुजं वापि द्विनेत्रं द्विभुजं तु वा ।  
भमंजटासमायुक्तं सर्वाभरणभूषितम् ॥   ४७-८ ॥
अभयं शान्तदेहञ्च पाशं वै परशुं तथा ।  
द्विभुजं यदिकर्तुञ्चेच्छान्तटंकायुतं तथा ॥   ४७-९ ॥
शुक्लयज्ञोपवीतञ्च शुक्लांबरधरं तथा ।  
स्नानकञ्चासनं प्रोक्तं पूर्वोक्तविधिना ततः ॥   ४७-१० ॥ प्. २१३)
चलस्थापनवत् सर्वं यथा युक्त्याथकारयेत् ।  
स्वनामाद्यक्षरं यत्तु तस्यतन्मूलमन्त्रकम् ॥   ४७-११ ॥
तस्य ह्रस्वांश्च दीर्घांश्च ब्रह्मांगस्तु विनिर्दिशेत् ।  
शिवार्चने तु तस्यैव दशार्णं मूलबीजतः ॥   ४७-१२ ॥
चण्डेश स्थापनं प्रोक्तं इद्रादि स्थापनं श्रुणु ।  
इति चण्डेशस्थापनविधिपटलस्सप्तचत्वारिंशत्तमः ॥   ४७ ॥

No comments:

Post a Comment