Sunday, January 6, 2019

नवनैवेद्य विधि पटलः

अथ नवनैवेद्य विधि पटलः
अथातः संप्रवक्ष्यामि नवनैवेद्यलक्षणम् ।  
अग्रयानां हि नाम्ना तत् कृते तस्माज्जयं भवेत् ॥   १७-१ ॥
सुमुहूर्त्ते सुलग्ने च नक्षत्र करणान्विते ।  
वाद्यध्वनिसमायुक्तं त्रिशूलेनसमन्वितम् ॥   १७-२ ॥
सर्वालङ्कारसंयुक्तं ततो भक्तजनैर्युतम् ।  
स्वक्षेत्रं संप्रविश्याथ ऐशान्यां दिक्समाश्रिताः ॥   १७-३ ॥
तत् क्षेत्र रक्षकानां तु दध्योदन बलिंक्षिपेत् ।  
शूकंदात्रेन निक्षिप्य हृदयेन तु बुद्धिमान् ॥   १७-४ ॥
विशुद्ध तण्डुलोपेतं शूकं सर्वोपदंशकैः ।  
ग्रामं वा नगरं वापि प्रदक्षिणमथाचरेत् ॥   १७-५ ॥
सर्वालंकारसंयुक्तं सर्वातोद्यसमन्वितम् ।  
तद्भागाश्च गजाश्चैव तया चैवाग्रतो नयेत् ॥   १७-६ ॥ प्. ८८)
शूकभारान्ततो नीत्वा व्रीहिभाराननन्तरे ।  
उपदंशान्ततो नीत्वा तत स्तण्डुलभारकान् ॥   १७-७ ॥
वादका गणिकाश्चैव व्रजेयुस्सर्वभूषिताः ।  
सर्वेषां पृष्ठतोभागे संव्रजेत् प्रतिमां शनैः ॥   १७-८ ॥
ततो भक्तजनास्सर्वे व्रजेयुः क्रमशः पुनः ।  
प्रविश्य भवनं मंत्री शूकभारां निवेश्य वै ॥   १७-९ ॥
आदित्य करसन्तप्तान् व्रीहीन् संक्षिप्यलूखले ।  
तुर्यग्रमण्डलं कृत्वा पिष्टचूर्णैर्विचित्रितैः ॥   १७-१० ॥
शालिभिस्थण्डिलङ्कृत्वा लूखलं तत्र विन्यसेत् ।  
वस्त्रेण लूखलं बध्वा मूसलञ्च ततोर्चयेत् ॥   १७-११ ॥
संक्षुभ्यबीजमुख्येन तण्डुलङ्ग्राह्ययत्नतः ।  
नालिकेरगुलोपेतं मरीची जीरकान्वितम् ॥   १७-१२ ॥
हृदयेन तु मन्त्रेण दद्याद् देवस्य भक्तितः ।  
अन्येषां प्रतिमानान्तु दापयित्वा हृदापुनः ॥   १७-१३ ॥
परिवारबलिन्दत्वा चण्डेशायनिवेदयेत् ।  
ताम्बूलन्तु विशेषेण दत्वा तत्र हृदाणुना ॥   १७-१४ ॥
प्रभूतहविषं दत्वा पूर्वोक्तविधिनान्वितः ।  
ततो भक्तजनान्सर्वां नवान्नेन तु भोजयेत् ॥   १७-१५ ॥
प्रोक्तन्तु नवनैवेद्यं कृत्तिकादीपकं श्रुणु ।  

इति नवनैवेद्यविधि पटलस्सप्तदशः ॥   १७ ॥

No comments:

Post a Comment