Sunday, January 6, 2019

आषाढपूरकर्मविधि पटलः

अथ आषाढपूरकर्मविधि पटलः
आषाढपूर्वनक्षत्रे पूर्वेद्युरधिवास्य च ।  
रात्रौ होमं प्रकर्तव्यं बलिं प्रक्षिप्ययत्नतः ॥   १९-१ ॥
रात्रौ प्रतिसरं बध्वा आचार्यं पूजयेत् ततः ।  
प्रभाते देवदेवेशं विशेषात् पूजनं तथा ॥   १९-२ ॥
बलिन्तत्रैव निक्षिप्य कृत्वा ग्रामप्रदक्षिणम् ।  
लाजचूर्णादि सङ्ग्राह्य स्नानार्थन्तु शिवस्य तु ॥   १९-३ ॥
जलतिरे प्रपाङ्कृत्वा सर्वालङ्कारसंयुताम् ।  
तन्मध्ये तु स्थितं देवमभ्यर्च्य हृदयेन तु ॥   १९-४ ॥
लाजचूर्णसमायुक्तं गुलञ्चाम्रफलैर्युतम् ।  
कदलीपनसोपेतमपूपञ्च विशेषतः ॥   १९-५ ॥
सङ्ग्राह्यमृद्घटे शुद्धे प्रत्येकं भक्तिपूर्वकम् ।  
भक्त्यानि वेदयित्वा तु हृन्मन्त्रेण विचक्षणः ॥   १९-६ ॥
लाजचूर्णं विसृज्याथ हृदयेन शिवाग्रतः ।  
नवोदकेन तन्मध्ये शूलं संस्नाप्यदेशिकः ॥   १९-७ ॥
आलयन्तु पुनर्गत्वा ततः स्नपनमाचरेत् ।  
प्रभूतहविषं दत्वा हृदयेन शिवाग्रतः ॥   १९-८ ॥
प्रभूतहविषं दत्वा शिवस्य च विशेषतः ।  
अन्येषां प्रतिमाणाञ्च हविषन्तु निवेदयेत् ॥   १९-९ ॥
एवं समासतः प्रोक्तं फलपाकविधिं श्रुणु ।  

इति आषाढपूरकर्मविधि पटल एकोनविंशतिः ॥   १९ ॥

No comments:

Post a Comment