Sunday, January 6, 2019

शिवोत्सवविधि पटलः

अथ शिवोत्सवविधि पटलः
अथातः संप्रवक्ष्यामि शिवोत्सवविधिं श्रुणु ।  
नवाहमुत्तमं प्रोक्तं सप्ताहं मध्यमं स्मृतम् ॥   १४-१ ॥
पञ्चाहमधमं प्रोक्तमुत्सवं त्रिविधं स्मृतम् ।  
अलाभे तु प्रकर्तव्यौ त्रयहैकाहकौ तथा ॥   १४-२ ॥
आद्येषु च त्रितीयेषु ध्वजारोहणमारभेत् ।  
न ध्वजारोहणं प्रोक्तं द्वितये तु तथोत्सवे ॥   १४-३ ॥
तद्दिनं त्रिगुणि कृत्य तदादौध्वजमुद्धरेत् ।  
द्विगुणे तद्दिनादौ वा ध्वजमारोप्य बुद्धिमान् ॥   १४-४ ॥
ध्वजारोहणपूर्वं वा भेरीताडनपूर्वकम् ।  
त्रिगुणे द्विगुणे काले कारयेद् देशिकोत्तमः ॥   १४-५ ॥
अङ्कुरार्पण पूर्वे तु आदिरात्र्यङ्कुरार्पणम् ।  
कृत्वा भेरीन्तु सन्ताड्य ध्वजमारोपयेत् ततः ॥   १४-६ ॥
उत्सवे च प्रतिष्ठायं सायादिदिनमुत्तमम् ।  
प्रातः काले ह्यवभृथं सायङ्काले समारभेत् ॥   १४-७ ॥
रात्रिः सायाह्नि वा प्रातरितिशास्त्रस्य निश्चयः ।  
नवाहेऽष्टादशबलिं सप्ताहे तु चतुर्दश ॥   १४-८ ॥
पञ्चत्रयैक ऋक्षषु दशषट्द्वितयं बलिम् ।  
एवं कृते तु मतिमान् लोकशान्तिकरं भवेत् ॥   १४-९ ॥
कृत्तिकादिषु मासेषु कार्तिके कृत्तिकान्तकम् ।  
मार्गशीर्षकमासेषु आर्द्रान्तन्तु शिवोत्सवम् ॥   १४-१० ॥
पुष्यान्तं पौष्यमासे तु मघान्तं माघमासके ।  
फाल्गुने चोत्तरान्तं स्यात् चित्रान्तञ्चैत्रमासके ॥   १४-११ ॥
विशाखान्तं हि वैशाखे ज्येष्ठे मूलान्तकं भवेत् ।  
उत्तराषाढमाषाढे श्रावणे श्रवणान्तकम् ॥   १४-१२ ॥
पूर्वाभाद्रे तथा मासे पूर्वाभाद्रान्तमुच्यते ।  
आश्वन्तमश्वयुङ्मासे उत्सवं कारयेत् बुधः ॥   १४-१३ ॥
आर्द्रान्तं सर्वमासेषु कर्तव्यन्तु शिवोत्सवम् ।  
षष्ठ्यष्टमीह्यमावास्यान्ते वान्यत् पुण्य ऋक्षके ॥   १४-१४ ॥ प्. ६६)
राज्ञन्मन्य विलये युद्धारंभे समारभेत् ।  
विस्तारेणसमं पुच्छं त्रिपुच्छं वा द्विपूच्छकम् ॥   १४-१५ ॥
मध्ये वृषभमालिख्य स्थितं वा शयनन्तु वा ।  
दर्भमालासमायुक्तं किंकिणिवरकान्वितम् ॥   १४-१६ ॥
ग्रामप्रदक्षिणं कृत्वा चालयं वा प्रदक्षिणम् ।  
वेणुं वा क्रमुकं वापि चन्दनञ्जातिबिल्वकम् ॥   १४-१७ ॥
सालस्तं भञ्चखदिरञ्चंपंकं देवदारुकम् ।  
नालिकेरतरुं वापि निर्णितं सुदृढध्वजम् ॥   १४-१८ ॥
प्रासाद त्रिगुणं दैर्घ्यं द्विगुणं वा ततस्समम् ।  
शिखरग्रीवसीमान्तं वृषभस्थलसंमतम् ॥   १४-१९ ॥
तथा द्वित्रितलान्तं वा गोपुरान्तमथापि वा ।  
षट्त्रिंशदंगुलन्नाहं ध्वजदण्डं विधीयते ॥   १४-२० ॥
त्रिंशदंगुलके नाथ चतुर्विंशन्तु वाङ्गुलम् ।  
उत्तमादधमन्नाहं ग्राह्यमेवं सुदण्डके ॥   १४-२१ ॥
घटिकात्रयसंयुक्तं विस्तारेऽष्टाङ्गुलेन तु ।  
तत् घनञ्चतुरङ्गुल्यं त्रिभिरङ्गुलिभिस्तु वा ॥   १४-२२ ॥
दैर्घ्यन्तु द्वादशाङ्गुल्यं षोडशाङ्गुल्यकन्तु वा ।  
दण्डे तु सुषिरं कृत्वा सुस्निग्धन्तु यथा तथा ॥   १४-२३ ॥
घटिकात्रयकं न्यस्य तेष्वन्तस्थं सवैणवम् ।  
दण्डाग्रेण समं कुर्यादग्रं वेणवकस्य तु ॥   १४-२४ ॥
दण्डञ्चाप्यथवा कुर्यात् घट्यन्तस्थं सुनिश्चलम् ।  
वैणवस्य तु दैर्घ्यन्तु द्वादशन्तालमुच्यते ॥   १४-२५ ॥
अथवा षोडशन्तालं चतुर्दशन्तालमेव वा ।  
दशतालन्तु वा ग्राह्यं द्वादशाङ्गुल नाहकम् ॥   १४-२६ ॥
तस्यार्धार्धश्च मात्रे तु वलयन्त्वायसेन तु ।  
यन्त्रार्थं बन्धयेद्धीमानलाभे दारुणा भवेत् ॥   १४-२७ ॥
तदन्ते रज्जुसंवेश्य द्विगुणं मूलमाश्रितम् ।  
मध्यमाङ्गुलिनाहन्तु तन्तुना सुदृढं कृतम् ॥   १४-२८ ॥
पीठगोपुरयोर्मध्ये वृषभस्याग्रतोऽपि वा ।  
कलयेन्मध्यहारायां मध्यादेर्मध्यमेपि वा ॥   १४-२९ ॥ प्. ६७)
भूमिं खात्वोरुमात्रन्तु हैमन्तत्रैव निक्षिपेत् ।  
दण्डं संस्थाप्य पूर्वन्तु दर्भमालासमावृतम् ॥   १४-३० ॥
चतुस्तालन्तु विस्तारादुत्सेधं द्वितलान्तकम् ।  
दर्पणोदर संकाशं ध्वजपीठं विधीयते ॥   १४-३१ ॥
पञ्चतालन्तु विस्तारमुत्सेधन्तु त्रितालकम् ।  
उत्तमोत्तमपीठस्य मध्यमस्योर्ध्वमुलतः ॥   १४-३२ ॥
तयोर्मध्येऽष्टधाभज्यध्वजपीठानव स्मृताः ।  
ध्वजमारोपयेत् तत्र रज्जुयन्त्रेण बुद्धिमान् ॥   १४-३३ ॥
प्रासादाभिमुखं स्थित्वाप्यघोरास्त्रेणमन्त्रतः ।  
ध्वजदण्डेन संबध्वा रोपयेद्विधिपूर्वकम् ॥   १४-३४ ॥
प्रासादस्याग्रतः कुर्यात् मण्डपं चतुरश्रकम् ।  
स्थण्डिलन्तत्र कुर्वीत शालिभिर्विमलैस्तथा ॥   १४-३५ ॥
सर्वदेवमयं शूलं स्थण्डिलोपरिविन्यसेत् ।  
मध्यपत्रे भवेद् रुद्रो ब्रह्मादक्षिण पत्रके ॥   १४-३६ ॥
वामपत्रे ततो विष्णु स्त्रिपत्रस्याधिदैवतम् ।  
वामे ज्येष्ठान्तु रौद्रीन्तु शूलमूले प्रकल्पयेत् ॥   १४-३७ ॥
फलकास्कन्ददैवत्या कुंभन्तत्रैव वारुणम् ।  
स्थली चैवाग्निदैवत्यं दण्डस्य तु सरस्वती ॥   १४-३८ ॥
पीठस्य पार्वती प्रोक्ता भूमिभागे वसुन्धरा ।  
गन्धादिभिस्समभ्यर्च्य तदग्रे कलशान्न्यसेत् ॥   १४-३९ ॥
विद्येश्वरसमायुक्तां मध्ये वृषभदैवतम् ।  
सकूर्चान् सा पिधानांश्च सहास्त्रान् स हिरण्यकान् ॥   १४-४० ॥
गन्धादिनार्चयित्वा तु स्वैस्वैर्नामभिरेव तु ।  
तदग्रे स्थण्डिले स्थाप्य भेरीं वस्त्रेण वेष्टिताम् ॥   १४-४१ ॥
पटहं विष्णुदैवत्यं सुषिरं वायुदैवतम् ।  
शब्दन्तत् ब्रह्मरूपं स्याद् रूपाभावस्तथैश्वरम् ॥   १४-४२ ॥
वासुकी चर्मसूत्रन्तु वलयौरविचन्द्रकौ ।  
मातरस्सप्तकीलास्तु प्रहारास्कन्ददैवतम् ॥   १४-४३ ॥ प्. ६८)
अर्चयित्वा सुगन्धाद्यैर्हृदयेन विचक्षणम् ।  
आचार्यं पूजयेत् पूर्वं वादकं तदनन्तरम् ॥   १४-४४ ॥
आचार्यो वाममन्त्रेण सन्ताड्य स्त्रिप्रकारतः ।  
वादकस्ताडयेत् पश्चात् बलितालं विशेषतः ॥   १४-४५ ॥
गेयनृत्तादिसंयुक्तं दिशितालन्तु वादयेत् ।  
तीक्ष्ण श्रुङ्गायविद्महे वेदपादायधीमहि ॥   १४-४६ ॥
तन्नो वृषभः प्रचोदयात् * * * * * * * ।  
इमं मन्त्रमनुस्मृत्य रवन्दत्वा विशेषतः ॥   १४-४७ ॥
तन्मूलेकलशैः स्नाप्यमुद्गान्नन्तु निवेदयेत् ।  
पुण्याहन्तत्र कर्तव्यं भेर्यारवमथाचरेत् ॥   १४-४८ ॥
शङ्खदुन्दुभिनिर्घोषैर्गीतनृत्तसमाकुलम् ।  
सर्वालङ्कारसंयुक्तं त्रिशूलेनसमन्वितम् ॥   १४-४९ ॥
ग्रामप्रदक्षिणे काले सन्धिदेवान् समर्चयेत् ।  
आवाह्य लोकपालांश्च बलिन्दत्वा विशेषतः ॥   १४-५० ॥
श्रावयेत् तीर्थदिवसानाचर्य प्रीतमानसः ।  
त्रिशूलञ्च ध्वजन्नित्यं संपूज्य हविषान्वितम् ॥   १४-५१ ॥
उत्सवारंभ पूर्वे तु रथादीन् कारयेत् क्रमात् ।  
यन्त्र डोलांदृढाञ्चित्र यन्त्र रंगांस्तथैव च ॥   १४-५२ ॥
यन्त्र देवालयांश्चैव मन्त्रमण्डपिकां तथा ।  
भ्रमत् गजांश्चयन्त्रांश्च सिंहयन्त्रान्तथैव च ॥   १४-५३ ॥
वृषभं यंत्रिकांश्चैव कारयेत् सुविशेषतः ।  
नानापिच्छान्विताञ्छत्रां नानाव्यजनमेव च ॥   १४-५४ ॥
नानाच्छत्रध्वजांश्चैव चामराण्यपि कारयेत् ।  
देवालयमलङ्कृत्य बाह्यमभ्यन्तरं ततः ॥   १४-५५ ॥
द्वारतोरणविन्यासं कदली क्रमुकान्वितम् ।  
देवालयस्य पुरतः प्रपाङ्कृत्वाति सुन्दराम् ॥   १४-५६ ॥
वितानो परिसञ्छन्नां मुक्तादामैरलङ्कृताम् ।  
पुष्पमालासमायुक्तामलङ्कृत्य प्रपां क्रमात् ॥   १४-५७ ॥
स्तंभानावेष्ट्य वस्त्रैश्च फलपुष्प ध्वजान्वितान् ।  
यागशालां ततः कुर्यात् पूर्वोत्खातस्य पार्श्वयोः ॥   १४-५८ ॥ प्. ६९)
उत्तरे वाथ कर्तव्यमैशान्न्यां पावके तथा ।  
मण्डपे वा दृढं कार्यं षोडशस्तंभसंयुतम् ॥   १४-५९ ॥
नवभागैकभागे तु मध्ये वेदीं प्रकल्पयेत् ।  
हस्तमात्रसमुत्सेधां दर्पणोदरसन्निभाम् ॥   १४-६० ॥
कुण्डानिपरितः कुर्यादेककुण्डमथापि वा ।  
गोमयेनोपलिप्यात्र नानापुष्पैः प्रकीर्य च ॥   १४-६१ ॥
सूक्ष्मैस्तण्डुल चूर्णैस्तु नानावर्णसुचूर्णकैः ।  
वज्राङ्कुशं त्रिशूलञ्च चक्रं तत्र तथैव च ॥   १४-६२ ॥
पद्मञ्चैवोत्पलाङ्कञ्च नन्द्यावर्तकमेव च ।  
कुम्भाभं मध्यचन्द्राभं वृक्षाकारांश्च लाञ्छयेत् ॥   १४-६३ ॥
वामां वा नगरादीं वा ह्यलङ्कृत्य विशेषतः ।  
वीधयश्चोपवीध्यश्च निम्नोन्नतविवर्जिताः ॥   १४-६४ ॥
शोधयित्वा समांभूमिञ्जलसेकोपलेपनैः ।  
पताकाभिर्ध्वजैश्चापि तथा काशद्ध्वजैरपि ॥   १४-६५ ॥
कदलीभिर्धूपदीपैर्द्वारकुंभैरथान्यकैः ।  
साङ्कुरैच्छिद्र कुम्भैश्च पालिकाभिस्समन्ततः ॥   १४-६६ ॥
वस्त्रैश्च गन्धमाल्यैश्च भवनं प्रतिभूषयेत् ।  
ततोङ्कुरार्पणङ्कुर्यादुत्सवस्य दिनादितः ॥   १४-६७ ॥
यथाङ्कुरार्पणे प्रोक्ता तथा कुर्याद् विशेषतः ।  
वेदिमध्ये ततः कृत्वा स्थण्डिलं शालिकामयम् ॥   १४-६८ ॥
षट्द्रोणैः पञ्चद्रोणैर्वा चतुद्रोणैस्तु वा पुनः ।  
तण्डुलैस्समलंकृत्य तिलैर्दर्भैस्ततोपरि ॥   १४-६९ ॥
ससूत्रं कुर्चवस्त्राढ्यं पञ्चरत्नसमन्वितम् ।  
शिवकुम्भं न्यसेन्मध्ये वर्धनं तस्य वामतः ॥   १४-७० ॥
वस्त्रकूर्च्च समायुक्तं हेमयुक्तं प्रकल्पयेत् ।  
ध्यात्वा सदाशिवं देवं शिवकुम्भे निवेशयेत् ॥   १४-७१ ॥
मनोन्मनींस्तु सञ्चिन्त्य वर्धन्यां विन्यसेत् सुधीः ।  
परितोऽष्टौ घटां न्यस्य विद्येश्वरसमन्वितान् ॥   १४-७२ ॥ प्. ७०)
सकूर्चान्वस्त्रसंयुक्तान् सहेमान्वारिपूरितान् ।  
कलशाधिपतींस्तत्र स्वैस्वैर्मन्त्रैः सुपूजयेत् ॥   १४-७३ ॥
लोहादिदारुवर्णहनि आयुधानिदशक्रमात् ।  
वक्ष्यमाणोक्तविधिना कारयेत् प्रतिमाकृति ॥   १४-७४ ॥
वेदिकायास्तु परितस्त्वायुधानि प्रपूजयेत् ।  
वज्रादीन् स्थापयेद् विद्वान् पूर्वादिषु प्रदक्षिणम् ॥   १४-७५ ॥
वामे संस्थाप्य चक्रन्तु दक्षिणे पद्ममेव च ।  
अष्टमङ्गलरूपाणि वेदिबाह्ये प्रपूजयेत् ॥   १४-७६ ॥
शूलास्त्रं विन्यसेत् तत्र उत्सवे योगधामनि ।  
अग्निकार्यन्ततः कृत्वा नवपञ्चैक वा पुनः ॥   १४-७७ ॥
एकाग्नेर्वेदिका पूर्वे ह्युत्तरे पश्चिमेऽथवा ।  
वृत्तं वा चतुरश्रं वा सर्वकुण्डानि कारयेत् ॥   १४-७८ ॥
पर्यग्निकरणं कृत्वा यागशालां विशेषतः ।  
यवं हृदयमन्त्रेण सिद्धार्थं सद्यमन्त्रतः ॥   १४-७९ ॥
तिलमीशानमन्त्रेण हुत्वामुद्गन्तु नेत्रतः ।  
द्रव्यान्ते व्याहृतिं हुत्वा पूर्णाहुतिं तु मूलतः ॥   १४-८० ॥
पूजावसाने विद्वान्वै वह्निकार्योक्तमाचरेत् ।  
अर्चनं विधिनावत्स सायं प्रातर्दिने दिने ॥   १४-८१ ॥
होमान्ते तु बलिं दद्यात् बल्यन्ते चोत्सवं बुधः ।  
प्रथमं विश्वरात्रन्तु द्वितीयं भूतरात्रकम् ॥   १४-८२ ॥
तृतीयमृषिरात्रं स्याच्चतुर्थञ्चेन्द्ररात्रकम् ।  
पञ्चमं ब्रह्मरात्रन्तु षष्ठं वै विष्णुरात्रकम् ॥   १४-८३ ॥
सप्तमं रुद्ररात्रं स्यादष्टमञ्चैश्वरस्य तु ।  
सदाशिवस्य नवमन्नवाहेष्वधि देवताः ॥   १४-८४ ॥
ऋषिरात्रं समारभ्य सदाशिवदिनान्तकम् ।  
सप्ताहेतु प्रयोक्तव्यं ब्राह्म्यात् सदाशिवान्तकम् ॥   १४-८५ ॥
पञ्चाहेतु प्रयोक्तव्यं रुद्रात्सदाशिवान्तकम् ।  
त्रयहेत्विति चैका हे सदाशिव पदान्तिकम् ॥   १४-८६ ॥ प्. ७१)
त्रयहेत्वितिचैकाहे सदाशिवदिनं भवेत् ।  
हविर्भिर्दीपकैश्चैव दिनेष्वेतेषु नित्यशः ॥   १४-८७ ॥
विशेषात् पूजनं कुर्यात् विभवस्यानुरूपतः ।  
ग्रामाधिदैवतांश्चैव पूजयेत् तु विशेषतः ॥   १४-८८ ॥
शुद्धान्नन्दधिसंमिश्रं लड्डुकापूपसंयुतम् ।  
फलञ्च गुलसम्मिश्रं गणेशस्य प्रियन्त्विदम् ॥   १४-८९ ॥
बलयोरजनी पूर्णं घृतान्नन्दधिसक्तुकम् ।  
भूत क्रूरबलिः प्रोक्तस्तेन भूतबलिं हरेत् ॥   १४-९० ॥
पञ्चमूलङ्कुशाग्रञ्च शाल्यनञ्चाज्यमिश्रकम् ।  
कदलीफलसंयुक्त मृषीणां बलिरुच्यते ॥   १४-९१ ॥
इन्द्रवल्ली हरिद्रा च प्रियङ्गु घृतसंयुतम् ।  
चतुर्थेZ हनिदातव्यमिन्द्रस्य बलिरुत्तमम् ॥   १४-९२ ॥
पद्मपुष्पं स रजनी पायसंलाजसंयुतम् ।  
पञ्चमेZ हनिदातव्यं ब्रह्मणोबलिरुच्यते ॥   १४-९३ ॥
गुलोदनं घृतोपेतं बृहतीफलसंयुतम् ।  
षष्ठे हनि च दातव्यं विष्णु प्रीतिकरं परम् ॥   १४-९४ ॥
साज्यन्तु कृसरान्नं वै नालीकेरफलैर्युतम् ।  
सप्तमेZ हनिदातव्यं रुद्रप्रीतिकरं भवेत् ॥   १४-९५ ॥
वेणुकन्दधिसंयुक्तं कदलीफलसंयुतम् ।  
अष्टमेZ हनिदातव्यमीश्वरस्य बलिस्तथा ॥   १४-९६ ॥
शुद्धान्नं दधिसंयुक्तं लाजापूपसमायुतम् ।  
कदलीपनसोपेतं गुलखण्डसमिश्रितम् ॥   १४-९७ ॥
नवमेZ हनिदातव्यं सादाख्यस्य शिवस्य तु ।  
सर्वेषामपि शुद्धान्नमाज्ययुक्तं दधिप्लुतम् ॥   १४-९८ ॥
दापयेद् वा विशेषेण तत्तन्मन्त्रेण देशिकः ।  
द्रोणं वापि तदर्धं वा तदर्धं वापि पाचयेत् ॥   १४-९९ ॥
कपित्थफलमात्रेण बलिं दत्वा पृथक् पृथक् ।  
उत्सवस्य पुरस्तात्तु दद्यात् ग्रामबलिं तथा ॥   १४-१०० ॥ प्. ७२)
वाद्यध्वनिसमायुक्तं धूपदीपसमायुतम् ।  
ध्वजैः पिञ्छैस्समायुक्तं स्तोत्रमङ्गलवाचकैः ॥   १४-१०१ ॥
यज्ञपिठोपरिस्थाप्य त्रिशूलञ्चान्नलिङ्गकम् ।  
दशायुधानि परितः स्थापयेद् देशिकोत्तमः ॥   १४-१०२ ॥
यज्ञाभावे तु तत् सर्वं व्रजेयुः शिरसाधृताः ।  
आचार्यः शिष्य संयुक्तस्सर्वाभरणभूषितः ॥   १४-१०३ ॥
सर्वालङ्कारसंयुक्तः सोष्णीषः सोत्तरीयकः ।  
आदिशैवः प्रसन्नात्मा श्रद्धाभक्तिसमन्वितः ॥   १४-१०४ ॥
ब्रह्मादीशानपर्यन्तमिंद्रादीशान्तमेव वा ।  
बलिं दत्वा तु तत् ग्रामे देवैश्चैवं विशेषतः ॥   १४-१०५ ॥
सायं प्रातर्बलिं दद्यात् होमान्ते तु विशेषतः ।  
उत्सवं प्रारभेदन्ते सर्वालङ्कारसंयुतम् ॥   १४-१०६ ॥
नानाप्रहरणोपेतास्सगजाश्चाग्रतस्ततः ।  
तदन्ते तुरगारूढास्तदन्ते गजवाहनाः ॥   १४-१०७ ॥
यन्त्ररङ्गास्तदन्ते तु दिव्यस्त्री परिभूषिताः ।  
तदन्ते शाश्चयन्त्राश्च डोलायन्त्राश्च मण्डपाः ॥   १४-१०८ ॥
यन्त्र देवालयं पश्चान्नृत्तगेयसमन्विताः ।  
आद्यं सुखासनं प्रोक्तं द्वितीयमुमयासह ॥   १४-१०९ ॥
वृषारूढं त्रितीयन्तु त्रिपुरघ्नञ्चतुर्थकम् ।  
नृत्ताख्यं पञ्चमं प्रोक्तं षष्ठ वै चन्द्रशेखरम् ॥   १४-११० ॥
सप्तमं त्वर्धनारीशं हरिरर्धन्तु चाष्टमम् ।  
भिक्षाटनं च नवमं दशमङ्कालनाशनम् ॥   १४-१११ ॥
दशैकं कामदहनं ततो लिङ्गं पुराणकम् ।  
द्वादश प्रतिमास्त्वेते सर्वालङ्कारसंयुताः ॥   १४-११२ ॥
रङ्गे वा शिबिकायां वा रथेवारोप्य भक्तितः ।  
आदिशैवानुशैवाश्च देवानामनुगा स्मृताः ॥   १४-११३ ॥
पशुपतास्तदन्ते तु महावृतधरास्त्वनु ।  
कालामुखास्तदन्ते तु तदन्ते ब्राह्मणाः क्रमात् ॥   १४-११४ ॥
तदग्रे रुद्र गणिकास्सर्वालङ्कारसंयुताः ।  
तदन्ते गायकाः प्रोक्तास्तदन्ते नर्तका व्रजेत् ॥   १४-११५ ॥ प्. ७३)
ईश्वर श्शक्तिसहितस्ततो गच्छेश्चनैः क्रमात् ।  
योषिद्भिस्सत्रिशूलादि यन्त्रदीपैर्विशेषतः ॥   १४-११६ ॥
अस्त्रदीपैर्यष्टिदीपैस्सर्वत्र परिशोभितः ।  
वितानैच्छिद्र दीपैश्च पताकाभिश्च शोभितः ॥   १४-११७ ॥
सर्वेषां पृष्ठतो गच्छेच्चण्डेशस्समलङ्कृतः ।  
तदग्रे घोषयेत् सम्यक् सर्वातोद्यान् क्रमेण तु ॥   १४-११८ ॥
पटहैर्मद्दलैस्तालैर्भेरीपणवडुण्डुभैः ।  
जर्झरी झल्लरी मोन्तैर्वीणावेणुरवैस्तथा ॥   १४-११९ ॥
अग्रतः पृष्ठतश्चैव घोषयेत् सविशेषतः ।  
तदन्ते वैश्य शूद्राद्यागच्छेयुर्भक्तिसंयुताः ॥   १४-१२० ॥
सर्वे वर्णास्तदन्ते तु व्रजेयुः क्रमशस्ततः ।  
ये देवमनुगच्छन्ति तत्गतेनान्तरात्मना ॥   १४-१२१ ॥
पदे पदेश्वमेथस्य प्राप्नुवन्ति फलं नराः ।  
वृद्धबालयुवानश्च स्त्रियश्च पुरुषास्तथा ॥   १४-१२२ ॥
सर्वपापाद्विमुच्यन्ते सर्वत्रैव समन्विताः ।  
एवं प्रदक्षिणं कुर्यात् ग्रामं वा नगरन्तु वा ॥   १४-१२३ ॥
शनैर्देवालयङ्गच्छेत् बलिपीठे बलिं क्षिपेत् ।  
पादप्रक्षालनङ्कृत्वा प्रविशेदालयं प्रति ॥   १४-१२४ ॥
प्रपाङ्कृत्वा स्थितं देवं सर्वदेवगणैस्सह ।  
मृदङ्गादिमहाशब्दं शिवस्य पुरतस्थितम् ॥   १४-१२५ ॥
नमकश्चमकश्चैव दक्षिणे तु व्यवस्थितौ ।  
गान्धर्वकोवंशकश्च उत्तरे तु व्यवस्थितौ ॥   १४-१२६ ॥
आचार्यो दक्षिणेभागे नृपस्तस्यैव चोत्तरे ।  
उभयोरपि पार्श्वाभ्यां देवस्य गणिका स्मृताः ॥   १४-१२७ ॥
देवस्याग्रे विशेषेण नृत्तं कुर्यात्सगेयकम् ।  
नीराञ्जनं कर्तव्यं देवदेवस्य चोत्सवे ॥   १४-१२८ ॥
भस्मपुष्पञ्च दीपञ्च पात्रेषु च विनिक्षिपेत् ।  
पुरादत्वा त्वाचमनं पुष्पं शिरसि विन्यसेत् ॥   १४-१२९ ॥
अच्युतं मूर्ध्नि विन्न्यस्य गन्धं दद्याद् विशेषतः ।  
पुनराचमनं दद्याद् धूपदीपं प्रदापयेत् ॥   १४-१३० ॥ प्. ७४)
पिष्टे विन्यस्त दीपेन भ्रामयेच्छिवमूर्धनि ।  
तदन्ते दापयेत् भस्मदर्पणं दर्शयेत् पुनः ॥   १४-१३१ ॥
गणिकाभिर्वहित्वा तु वाद्यध्वनि समायुतम् ।  
पीठाग्रे वा विनिक्षिप्य प्राकाराणां बहिः क्षिपेत् ॥   १४-१३२ ॥
कारयेत् साधकेन्द्रेण एतत् साये तु रक्षयेत् ।  
वस्त्रादिनि प्रदातव्यं भक्तानाञ्च विशेषतः ॥   १४-१३३ ॥
परिवेष क्रमं ह्येवं दर्शनादघनाशनम् ।  
यावद् देवोत्सवं कुर्यात् तावदेवदिने दिने ॥   १४-१३४ ॥
अनाद्यं सर्ववर्णानां दद्याद् देवस्य तुष्टये ।  
तत स्त्रीर्थदिनात् पूर्वे मृगयात्रां समारभेत् ॥   १४-१३५ ॥
युद्धारंभ प्रभावेन ग्रामङ्गत्वा प्रदक्षिणम् ।  
कौतुकं बन्धयेद् धीमान् तस्मिन्रात्रौ विशेषतः ॥   १४-१३६ ॥
सौवर्णं रजतं सूत्रं अथ कार्पासमेव वा ।  
स्थण्डिलोपरिसंस्थाप्य त्रिशूलं स्थण्डिलोपरि ॥   १४-१३७ ॥
याग मण्डपमध्ये तु शूले कौतुकबन्धनम् ।  
हृदये नैव कृत्वा तु पुण्याहन्तत्र कारयेत् ॥   १४-१३८ ॥
उत्सवप्रतिमां बध्वा कौतुकं हृदयेन तु ।  
स्थण्डिलोपरिसंस्थाप्य कलशान्नवसङ्ख्यया ॥   १४-१३९ ॥
पिधानकूर्चवस्त्राढ्याञ्छिव विद्येश्वरान्वितान् ।  
गन्धादिभिस्समभ्यर्च्य शूलन्तैः स्नानमाचरेत् ॥   १४-१४० ॥
नद्यां वाप्यां तटाके वा हृदे स्नानं समाचरेत् ।  
अथ नद्यादिषु स्नानं विना वा शेषमाचरेत् ॥   १४-१४१ ॥
होमबल्युत्सवान् प्रातः कृत्वा चूर्णोत्सवन्ततः ।  
प्रासादस्याग्रतो वापि याम्ये वा पावकेऽथवा ॥   १४-१४२ ॥
गोमयालेपनं कृत्वा धूपदीपैस्समन्वितम् ।  
पालिकाद्यैरलङ्कृत्य स्थण्डिलन्तत्र कारयेत् ॥   १४-१४३ ॥
शूलं पश्चिमतः स्थाप्यो लूखलं मुसलं ततः ।  
वस्त्रेणो लूखले वेष्ट्यदर्भैरावेष्टयेत् पुनः ॥   १४-१४४ ॥ प्. ७५)
गन्धाद्यैरर्चयित्वा तु त्रिशूलं लूखलं ततः ।  
घृतं शिरोर्पणङ्कृत्वा हेमदूर्वाङ्कुराक्षतैः ॥   १४-१४५ ॥
सुशुष्कां रजनीं पूर्वं चूर्णे चूर्णे तु लूखले ।  
हृदा प्रक्षिप्य चास्त्रेण कुट्टयेद् देशिक स्त्रिभिः ॥   १४-१४६ ॥
ततो भक्तजनैः सार्धं चूर्णयेद् देशिकोत्तमः ।  
संस्नाप्य लिङ्गं चूर्णेन पञ्चब्रह्मसमुच्चरन् ॥   १४-१४७ ॥
स्नापयेत् कौतुकं शूलं हृन्मन्त्रेण सतैलकम् ।  
आचार्यं पूजयेत् तत्र वस्त्र हेमाङ्गुलीयकैः ॥   १४-१४८ ॥
ग्रामं वा नगरं वापि शीघ्रङ्गच्छेत् प्रदक्षिणम् ।  
नदीतटाकतीरे वा स्थण्डिले द्वितये कृते ॥   १४-१४९ ॥
शूलन्तत्रैव संस्थाप्य तत्पूर्वेकलशां न्यसेत् ।  
अर्चयेत् स्वस्वमन्त्रेण शूलं वै कलशांस्तथा ॥   १४-१५० ॥
गङ्गा च यमुना चैव नर्ददा च सरस्वती ।  
सिन्धुर्गोदावरी चैव कावेरी चैव सप्तकान् ॥   १४-१५१ ॥
आवाह्य मध्यकलशे गन्धतोय सुपूरिते ।  
अनन्तादि शिखण्ड्यन्तान् कलशेष्वभितो न्यसेत् ॥   १४-१५२ ॥
पुण्याहं वाच्यशूलास्त्र देवानभ्यर्च्य पूजयेत् ।  
स्नापयेत् कलशैः पश्चात् स्नानं तीर्थे समाचरेत् ॥   १४-१५३ ॥
त्रिशूलेन सहैवात्रये तीर्थं कुर्वते नराः ।  
मुच्यते सर्वपापेभ्यो निर्मोकादिव पन्नगाः ॥   १४-१५४ ॥
याग गेहे शिवाग्नौ तु दद्यात् पूर्णाहुतिं पुनः ।  
होमोपरिष्टात् तत्रस्थं शास्त्रोक्तं सुसमाचरेत् ॥   १४-१५५ ॥
यागेशं पूजयेत् पश्चात् गन्धपुष्पादिभिः शुभैः ।  
साधितैः कलशैस्तत्र स्नपनं कारयेच्छिवम् ॥   १४-१५६ ॥
भक्तानां परिचाराणां वस्त्रादिभिः प्रदापयेत् ।  
ध्वजावरोहणं कुर्यात् तत्रादौ तु विशेषतः ॥   १४-१५७ ॥
त्रयाहे वापि पञ्चाहे सप्ताहे वा वरोहयेत् ।  
स्नपनन्तु ततः कृत्वा मूललिङ्गे विशेषतः ॥   १४-१५८ ॥ प्. ७६)
उत्सव प्रतिमाश्चापि त्रिशूलञ्च ध्वजस्तथा ।  
स्नपनङ्कारयेत् तत्र स्तोत्रमङ्गलवाचकैः ॥   १४-१५९ ॥
हरिद्रानथ शुद्धान्नं सो पदंशं बलिं क्षिपेत् ।  
ध्वजावरोहणङ्कृत्वा पूजान्ते तु विचक्षणः ॥   १४-१६० ॥
प्रदक्षिणं ततः कृत्वा सन्धिदेवां विसर्जयेत् ।  
यागोपयुक्त द्रव्याणि देशिकाय प्रदापयेत् ॥   १४-१६१ ॥
एवं यः कुरुते मर्त्त्य उत्सवं च शिवस्य तु ।  
कुलैकविंशदुत्तार्य शिवलोकमवास्यति ॥   १४-१६२ ॥
शिवोत्सवमिदं प्रोक्तं स्नपनञ्च ततः श्रुणु ।  

इति शिवोत्सवविधि पटलश्चतुदर्शः ॥   १४ ॥

No comments:

Post a Comment