Sunday, January 6, 2019

अङ्कुरार्पणविधि पटलः

अथ अङ्कुरार्पणविधि पटलः
अथातः संप्रवक्ष्यामि अङ्गुरस्यविधिक्रमम् ।  
सर्वमङ्गलकार्यादौ कर्तव्यं मङ्गलांकुरम् ॥   ३५-१ ॥
स्थापने प्रोक्षणे चैव स्नपने चोत्सवे तथा ।  
नवरात्रे सप्तरात्रे पञ्चरात्रेऽथवा पुनः ॥   ३५-२ ॥
सायादिदिनमारभ्य साये चैवाङ्कुरार्पणम् ।  
बीजानमधिपः सोमस्तस्माद्रात्रौ तु वापयेत् ॥   ३५-३ ॥
कृत्वा प्रदक्षिणं ग्रामं शङ्खभेर्यादिनीस्वनैः ।  
च्छत्रद्ध्वजवितानैश्च गजाश्वरथरोपणैः ॥   ३५-४ ॥
पिञ्चचामरसंघैश्च त्रिशूलेन समायुतम् ।  
माहेश्वरैर्वहित्वा तु पालिकादीन् शिरोपरि ॥   ३५-५ ॥
पालिकाघटिका चैव शरावं त्रिविधं भवेत् ।  
सौवर्णं रजतं वापि ताम्रजं मृन्मयन्तु वा ॥   ३५-६ ॥
पालिकामुखविस्तारं कन्यसं द्वादशाङ्गुलम् ।  
विस्तारं षोडशाङ्गुल्यं मध्यमं समुदाहृतम् ॥   ३५-७ ॥ प्. १७३)
विंशत्यङ्गुलकं ज्येष्ठं विस्तारोत्सेधतस्समम् ।  
तदर्धं पादविस्तारं सवृत्तं सुदृढं समम् ॥   ३५-८ ॥
विस्तारस्य तु षट्भागमोष्ठं हि परितः त्विह ।  
विस्तारस्य त्रिभागैकं सुवृत्तं बिलमुच्यते ॥   ३५-९ ॥
एवं मुखं बिलञ्चैव शेषं दण्डं प्रकल्प्य वै ।  
विस्तारस्य त्रिभागैकं दण्डविस्तारमुच्यते ॥   ३५-१० ॥
घटिकाकलशाकारा दण्डं पादन्तु पूर्ववत् ।  
चतुर्दिक्षु चतुर्द्वारं त्रिकोणञ्च त्रियङ्गुलम् ॥   ३५-११ ॥
पालिकार्धं शरावन्तु प्रमाणञ्च तथा भवेत् ।  
नदीतटाकतीरे वा केदारे पर्वते वने ॥   ३५-१२ ॥
स्थानं प्राप्य विशुद्धञ्च समृन्मृज्याथ भूतलम् ।  
हृन्मन्त्रेण समभ्युक्ष्य तेन गन्धादिनार्चयेत् ॥   ३५-१३ ॥
कुन्दाल्या खानयेन्मन्त्री शिवं स्मृत्वा हृदा ततः ।  
मृदं संग्राह्य वामेन प्रविशेदालयं प्रति ॥   ३५-१४ ॥
आलयस्याग्रतः कृत्वा मण्डपं चतुरश्रकम् ।  
पुण्याहं वाचयित्वा तु भूमिं संप्रोक्ष्य बुद्धिमान् ॥   ३५-१५ ॥
स्थण्डिलन्तत्र कर्तव्यं पालिकादीनिविन्यसेत् ।  
प्रत्येकं षोडशं वापि अष्टौ वा चतुरोपि वा ॥   ३५-१६ ॥
एकाशीति पदं कृत्वा चतुर्विंशपदं विना ।  
मध्येनवपदं पद्मं कोणेषु द्वादश स्मृताः ॥   ३५-१७ ॥
पञ्चविंशत् पदं कृत्वा मध्ये पद्मं सलक्षणम् ।  
अथवा षोडशं कृत्वा तन्मध्ये बञ्चतुष्पदम् ॥   ३५-१८ ॥
कुम्भं पद्मे तु संस्थाप्य सोमराजाधिदैवतम् ।  
सा पिधानं सकूर्चञ्च सहिरण्यं स वस्त्रकम् ॥   ३५-१९ ॥
गन्धाद्यैरर्चयेत् सोमममृतेन तु बीजतः ।  
कुरीयमनिलाख्यस्य प्रथमस्वरसंयुतम् ॥   ३५-२० ॥
सानुस्वारं सदानञ्च योजयेदत्रदाक्षरम् ।  
दीपमादौ समुच्चार्य तदन्ते बीजमुच्चरेत् ॥   ३५-२१ ॥
सोमं शब्दञ्चतुर्थ्यन्तं नृत्यन्तं प्रोच्चरेत् गुरुः ।  
पायसं सोमराजायसोपदं शन्निवेदयेत् ॥   ३५-२२ ॥ प्. १७४)
पालिकाकोणभागेषु घटिकाश्च शरावकान् ।  
पूर्वादिषु चतुर्दिक्षु विन्यसेत् क्रमयोगतः ॥   ३५-२३ ॥
एवं संस्थापनं प्रोक्तमुत्तमं चाधमाधमौ ।  
दिशश्च विदिशश्चैव पालिका स्थापनं भवेत् ॥   ३५-२४ ॥
घटाश्चाभ्यन्तरे स्थाप्य शरावा मध्यमे स्मृतः ।  
पालिका ब्रह्मदैवत्यं घटिकाविष्णुरुच्यते ॥   ३५-२५ ॥
ईश्वरस्तु शरावाणां पात्राणामधिदेवताः ।  
तेषां मृद्भिः करीषैश्च वादॄकैश्च सुपूरयेत् ॥   ३५-२६ ॥
तिलसर्षपमुद्गानिमाषानिष्पावकौ तथा ।  
शालिप्रियमपामार्ग यवशामानि वै दश ॥   ३५-२७ ॥
प्रक्षाल्यपयसाविद्वन् दशबीजेन वापयेत् ।  
कुम्भस्थेन जले नैव नित्यं संप्रोक्षयेत् सुधीः ॥   ३५-२८ ॥
नित्यं संपूरयेत् गन्धतोयेनैव घटं पुनः ।  
विधाय च विधानेन स्वनुगुप्तं निधापयेत् ॥   ३५-२९ ॥
सितानि कोमलानीह कीर्तितानिशुभानि वै ।  
असितानि चतुब्जानि तथा तिर्यग्गतानि च ॥   ३५-३० ॥
तद्दोषशमनार्थन्तु शतं हुत्वाशिवं स्मृतः ।  
अङ्गुराणां विधिः प्रोक्तं लिङ्गसंस्थापनं श्रुणु ॥   ३५-३१ ॥

इति अङ्कुरार्पणविधिपटलः पञ्चत्रिंशत्तमः ॥   ३५ ॥

No comments:

Post a Comment