Sunday, January 6, 2019

मण्डलविधिपटस्तृतीयः,सुप्रभेदागमः

अथ मण्डलविधिपटलः
अथातः संप्रवक्ष्यामि मण्डलं सार्वकामिकम् ।  
मण्डलं सारमित्युक्तं सर्वदेवालयं कृतः ॥   ३-१ ॥ 7
मण्डलन्तेन विख्यातं शिवेन परमात्मना ।  
सर्वपापानिमुच्यन्ते ततो मण्डलदर्शनात् ॥   ३-२ ॥
दीक्षाकालस्य पूर्वे तु मण्डलं विधिनाबुहः ।  
यथा भूमिं परिक्ष्याथ तथा भूमिपरिग्रहम् ॥   ३-३ ॥ प्. २४२)
महेन्द्रेमलये विन्ध्य हिमवत् पारियात्रके ।  
गङ्गातीरे सरित्पुण्ये सामुद्रायाश्रितेऽपि वा ॥   ३-४ ॥
पुष्पोद्यानेथवा नित्यं क्षीरवृक्षसमीपके ।  
शुद्धदेशे मनोरम्ये ग्रहे देवालयेपि वा ॥   ३-५ ॥
प्रागुदक्प्लवणेदेशे मण्डलंत्वा लिखेत्बुधः ।  
सप्तम्याञ्च नवम्याञ्च एकादश्यामथापि वा ॥   ३-६ ॥
त्रयोदश्याममावास्यां दीक्षाकर्मप्रशस्यते ।  
नक्षत्राणि शुभान्याहुरादित्ये सोमवासरे ॥   ३-७ ॥
गुरुशुक्रेन्दु सूनौ च दीक्षाकर्मणिशोभनम् ।  
शिष्यान् संवत्परात् पूर्वे परीक्ष्यात्र गुणागुणान् ॥   ३-८ ॥
गुणयुक्तान्तु सङ्ग्राह्य गुणहीनांश्च वर्जयेत् ।  
अङ्कुरानर्पयित्वा तु पूर्वोक्तविधिनैव तु ॥   ३-९ ॥
प्रथमं मण्डलं विद्यात् दीक्षाकर्मद्वितीयकम् ।  
तृतीयमभिषेकन्तु क्रमेणैव विधीयते ॥   ३-१० ॥
अधुना मण्डलं यत्तत् समासात्च्छृणुसुव्रत ।  
हस्तमात्रं खनेत्भूमिं तन्मृदापूर्यचावटम् ॥   ३-११ ॥
तथाधिकापिसा श्रेष्ठा समासामध्यमा स्मृता ।  
न्यूनैव कन्यसाभूमिस्तद्वत् भूमेस्तु तत्फलम् ॥   ३-१२ ॥
उत्तमं सर्वसिद्ध्यर्थं मध्यमं स्वेष्टकामदम् ।  
वर्जितञ्चाधमं यत्र तन्मध्योत्तमके शुभे ॥   ३-१३ ॥
चतुरश्रं समंकृत्वा संप्रोक्ष्यपञ्चगव्यकैः ।  
मण्डपं वा प्रपां वापि सर्वालङ्कारसंयुतम् ॥   ३-१४ ॥
विंशत् षोडशहस्तैर्वा हस्तैर्द्वादशभिस्तु वा ।  
दिक्रन्ध्रवसुहस्तैर्वा मध्यस्तं भविहीनकम् ॥   ३-१५ ॥
चतुर्द्वारसमायुक्तञ्चतुस्तोरणभूषितम् ।  
तन्मध्ये वेदिकां कुर्यात् तन्मध्ये मण्डलं बुधः ॥   ३-१६ ॥
शिवभक्तान्भोजयेच्च प्रोक्षयेदस्त्रवारिणा ।  
वास्तुपूजाविधानेन वास्तुहोमन्तु कारयेत् ॥   ३-१७ ॥
स्थण्डिलन्तत्र कर्तव्यं शिवाख्यं कलशं न्यसेत् ।  
वर्द्धनीं वामपार्श्वे तु हेमरत्नांबुसंयुतम् ॥   ३-१८ ॥ प्. २४३)
वस्त्रयुग्मसमायुक्तौ सकूर्चौ सापिधानकौ ।  
शिवाख्यं शिवमन्त्रेण उमाख्यं गौरिनामतः ॥   ३-१९ ॥
संपूज्यैवं विधानेन तत् कुंभाभ्याञ्जलैः शुभैः ।  
भूमिं द्रव्याणि शिष्यांस्तु संप्रोक्ष्यास्त्रोदकेन तु ॥   ३-२० ॥
ऋषियज्ञमिदं कृत्वा पूर्वरात्रौ तु देशिकः ।  
अधिवास्य ततः पश्चाच्छिवमन्त्रगणैस्सह ॥   ३-२१ ॥
शिवद्रव्येण संयुक्तं शिवयज्ञमथाखिलम् ।  
योगपीठं न्यसेन्मध्ये तत्वत्रयसमन्वितम् ॥   ३-२२ ॥
शिवं यष्ट्वा विधानेन कुण्डेवा स्थण्डिलेपि वा ।  
शिवाग्निं जनयित्वा तु पूर्ववद्विधिना यथा ॥   ३-२३ ॥
संपूज्य विधिनाचाग्निं शिष्याश्चैवाधिवासयेत् ।  
विप्रादीनांश्च वर्णानां स्त्रीपुमाश्च नपुंसकान् ॥   ३-२४ ॥
चोदितां छिवभक्तांस्तु दीक्षयेन्मन्त्रवित् सदा ।  
चरुन्दत्वा ततस्तेषां शिवमन्त्रैस्तु साधितम् ॥   ३-२५ ॥
आनयित्वा ततस्थालीं क्षालयित्वा शिवांभसा ।  
गन्धपुष्पार्चिताङ्कृत्वा तण्डुलैराढकैर्युतम् ॥   ३-२६ ॥
पुष्पैर्दर्भैस्तु परितः कवचेन तु बुद्धिमान् ।  
कपिलायास्तु पयसा घृतमिश्रेण पूरयेत् ॥   ३-२७ ॥
न्यस्त्वाग्नि मध्यमेस्थालीं शनैर्मृद्वग्निनापचेत् ।  
यदा पक्वञ्चरुन्तत्र तदा तमवतारयेत् ॥   ३-२८ ॥
गोघृतेन हृदामन्त्री चरुं तत्राभिघार्य च ।  
संपाद्य विधिनाहुत्वा मन्त्रैस्सर्वैस्सकृत् सकृत् ॥   ३-२९ ॥
सेत्यग्नौ तु हुतं हुत्वा आज्यशेषमथोदरे ।  
निवेदयित्वा देवस्य चर्तर्भागैकभागिकम् ॥   ३-३० ॥
उपोषितानां शिष्याणां त्रिभागञ्चैव दापयेत् ।  
दन्तैरस्पृश्य विधिवत् पञ्चब्रह्माप्यनुस्मरन् ॥   ३-३१ ॥
भक्षयित्वा विधानेन पिण्डं प्रत्याचरेत् बुधः ।  
दन्तकाष्ठं ततः कृत्वा पञ्चगव्यन्तु पाययेत् ॥   ३-३२ ॥ प्. २४४)
दशाक्षरञ्जपित्वा तु विद्यांगैर्ब्रह्मभिर्युतम् ।  
बीजमुख्यं ततो जप्त्वा क्षुरिकान्तु विशेषतः ॥   ३-३३ ॥
ततः प्रतिसरं बध्वा शिष्यानाचार्यकः पृथक् ।  
गन्धपुष्पादिनाभ्यर्च्य शिवपार्श्वे स्वपेन्निशि ॥   ३-३४ ॥
भस्मशय्या समारूढः शिवद्ध्यानपरायणः ।  
ॐ शंभवे त्रिणेत्राय पिङ्गलाय महात्मने ॥   ३-३५ ॥
वामाय विश्वरूपाय स्वप्नाधिपतये नमः ।  
इमं मत्रञ्जपित्वा तु शिष्यन्तु शयने तथा ॥   ३-३६ ॥
यागस्थाने वसेन्मंत्री शिष्यैः सार्धं शिवाग्रतः ।  
ततः प्रभाते यत् स्वप्नं रात्रौ दृष्टं गुरोस्तदा ॥   ३-३७ ॥
स्वप्नं संश्राव्ययत्तथ्यं शुभवाप्यशुभं तथा ।  
शुभेसुखमवाप्नोति शिष्याणान्त्वैहिकं फलम् ॥   ३-३८ ॥
अशुभञ्चेत्तदामोक्षमैहिकी सिद्धिवर्जितम् ।  
शिष्यद्रव्येण कर्तव्यं दीक्षायज्ञमथाखिलम् ॥   ३-३९ ॥
त्यक्त्वा प्रतिसरन्धिमान्तत स्नानं विधानतः ।  
रात्रावैवंकृतेपश्चात् प्रभाते मण्डलं लिखेत् ॥   ३-४० ॥
तद्दृष्ट्वामुच्यते देही त्वशेषपशुबन्धनात् ।  
एकहस्तं द्विहस्तं वा चतुर्हस्ताष्ट हस्तकम् ॥   ३-४१ ॥
द्वादशं षोडशं हस्तं मत ऊर्ध्वं न कारयेत् ।  
सूत्राणामन्तरं बध्वा द्वित्रिभागस्तु लक्षयेत् ॥   ३-४२ ॥
वामदेवेन मन्त्रेण सूत्रपातस्तु कारयेत् ।  
पूर्वपश्चिम दिक्भागे सूत्रं दत्वा समाहितः ॥   ३-४३ ॥
तत्वसूत्रं प्रसार्याथ दक्षिणोत्तरगं शुभम् ।  
तस्य सूत्रं ततो ग्राह्य आश्रमेन विनिर्मिते ॥   ३-४४ ॥
पूर्वादिचोत्तरान्तञ्च सूत्रन्तत्र प्रसारयेत् ।  
आग्नेय्यां प्रभवं सूत्रं वायव्यान्तु विसार्य च ॥   ३-४५ ॥
ऐशान्यां प्रभवं सूत्रं नै-ऋत्यान्तु विसारयेत् ।  
चतुरश्रं समंकृत्वा नवभागं विभज्यताम् ॥   ३-४६ ॥
मध्यभागेन पद्मस्य कर्णिकायां समालिखेत् ।  
चतुर्भागैस्तु तत्पद्ममष्टपत्रोपशोभितम् ॥   ३-४७ ॥ प्. २४५)
प्रथमं कर्णिकाभागं द्वितीयं केसराणि वै ।  
तृतीयं दलसन्धौ तु दलाग्राणि चतुर्थकम् ॥   ३-४८ ॥
प्रतिमावरणे रेखां पद्मबाह्ये तु बुद्धिमान् ।  
पद्मस्यैवं प्रमाणन्तदनन्तत्वाच्छिवस्य च ॥   ३-४९ ॥
स्वल्पे स्वल्पन्तु कर्तव्यं विस्तारे विस्तरं भवेत् ।  
वीधिः पद्मार्धमानेन पद्ममानेन वा पुनः ॥   ३-५० ॥
वीध्यासमोभवेत् पद्मं शोभापद्मं समाश्रिता ।  
तत्समानकपोले तु शोभान्तुल्यापशोभका ॥   ३-५१ ॥
पञ्चमन्तु समद्वारञ्चतुर्दिक्षु विशेषतः ।  
द्विहस्तमेकहस्तं वा अत ऊर्ध्वं विवर्जयेत् ॥   ३-५२ ॥
निस्थूलं न कृशं हीनं वक्रबिन्दुविवर्जितम् ।  
देवस्य भवनं कृत्वा प्रोक्तं तन्मोक्षसिद्धिदम् ॥   ३-५३ ॥
स्थूलं सर्वभयं प्रोक्तं वक्त्रे कलहमादिशेत् ।  
हीने तु सिद्धिहीनन्तु बिन्दौ शत्रुभयपदम् ॥   ३-५४ ॥
कृशे व्याधिसमुत्पन्नं दुर्भिक्षं वर्णमिश्रके ।  
सान्निध्यं न भवेच्छोभा राजतः सूत्रलघने ॥   ३-५५ ॥
तस्मात् सर्वप्रयत्नेन कर्तव्यं लक्षणान्वितम् ।  
शुक्लं रक्तासितासूत्रं रजतस्त्रिविधं स्मृतम् ॥   ३-५६ ॥
वामे ज्येष्ठा च रौद्री च वर्णानामधितेदवता ।  
मुहूर्तस्य प्रकाशार्थं शुक्लवर्णस्य पातनम् ॥   ३-५७ ॥
तद्राग जननार्थाय रक्तवर्णस्य पातनम् ।  
तामसस्तु निव्रत्यैव कृष्णवर्णं प्रपातयेत् ॥   ३-५८ ॥
तेषां यागफलप्राप्त्यै पीतवर्णं प्रपातयेत् ।  
आलिख्य शुक्लवर्णाद्यैः कनिष्ठाङ्गुलिनाहतः ॥   ३-५९ ॥
सूत्रान्तरं यवं प्रोक्तं हृस्वाद्धृस्वन्तरं स्मृतम् ।  
असव्येन तु मुक्त्यर्त्थी भुक्त्यर्त्थी सव्यकेन तु ॥   ३-६० ॥
सर्वसिद्धिकराग्रेण श्रीकामिमुष्टिना लिखेत् ।  
मुक्ताचूर्णैस्तु सम्मिश्रं शुक्लवर्णं विशेषतः ॥   ३-६१ ॥ प्. २४६)
पद्मरागस्य चूर्णैस्तु रक्तवर्णं प्रशस्यते ।  
इन्द्रनीलस्य चूर्णैस्तु कृष्णवर्णं प्रकीर्तितम् ॥   ३-६२ ॥
चामीकरस्य चूर्णैस्तु उमावर्णमुदाहृतम् ।  
अलाभे संखचूर्णैश्च जातिलिङ्गस्य चूर्णकैः ॥   ३-६३ ॥
कृष्णाञ्जनस्य चूर्णैस्तु मनःशिलायाश्च चूर्णकैः ।  
तेषामलाभे चूर्णानां शालितण्डुलचूर्णकैः ॥   ३-६४ ॥
पक्वेष्टकायाश्चूर्णैश्च दग्धतण्डुलचूर्णकैः ।  
ततो हरिद्राचूर्णैस्तु कारयेदब्जमत्र वै ॥   ३-६५ ॥
कर्णिकापीतवर्णेन पुष्करा हेमसन्निभैः ।  
यवमात्रोन्नतास्तस्यां पञ्चविंशति पुष्करम् ॥   ३-६६ ॥
केसरागुणसङ्काशास्त्वधोर्ध्वे शुक्लवर्णकाः ।  
पद्मस्याष्टदलं श्वेतं कृष्णं रेखान्तरेषु वै ॥   ३-६७ ॥
रेखापार्श्वे तु रक्तान्तौ तथैव प्रतिवारणम् ।  
रक्तवर्णेन वीधीस्यात् पद्मस्य परितस्तदा ॥   ३-६८ ॥
द्वाराणि पीतवर्णानि कर्तव्यौ द्वारपार्श्वयोः ।  
शोभाश्चाप्युपशोभाश्च सर्ववर्णैस्तु कारयेत् ॥   ३-६९ ॥
एवं समाप्तेनलिने शिवमावाहयेत् बुधः ।  
मद्ध्ये सदाशिवं यष्ट्वा गन्धपुष्पादिभिर्युतम् ॥   ३-७० ॥
गर्भावरणसंपूज्य विद्येशावरणं ततः ।  
गणेशावरणं पश्चाल्लोकेशावरणं ततः ॥   ३-७१ ॥
अस्त्रावरणमेवन्तु पूजयेत् तु यथा विधि ।  
ईश्वरं दक्षिणे यष्ट्वा गौरीं तस्यैव वामके ॥   ३-७२ ॥
मण्डलस्य विधिः प्रोक्तं दीक्षाविधिमतः श्रुणु ।  
इति मण्डलविधिपटस्तृतीयः

No comments:

Post a Comment