Sunday, January 6, 2019

दहनविधिपटलः,सुप्रभेदागमः

अथ दहनविधिपटलः
अतः परं प्रवक्ष्यामि दहनस्यविधिक्रमम् ।  
यदा चैतन्यरहिते प्रारभेद्दहनक्रियाम् ॥   ९-१ ॥
दहनञ्च कृतिं भद्रञ्चावटाग्निकमेव च ।  
अवटादि क्रियास्सर्वाः संक्षेपाच्छृणु सुवृत ॥   ९-२ ॥
गर्भस्रावञ्च पतनमुढगर्भं तथा प्रजाः ।  
चौलकार्यादयोमर्त्या ये मृताश्चावटाभिकाः ॥   ९-३ ॥
दहनं हलिकर्मादि वर्ज्यन्तेषां प्रयत्नतः ।  
पवनोर्ध्व मृतिर्येषामब्दं प्रतिदिनेदिने ॥   ९-४ ॥
बलिदाहाद्यकर्माणि सममेतदुदाहृतम् ।  
दशवर्षादतिक्रान्ते दशाहं दापयेत् बलिम् ॥   ९-५ ॥
अवटाग्निककार्यं तु समासात् प्रोच्यतेऽधुना ।  
कृत्वा शरीरशुद्धिं तत् रजनीपुष्पशोभितम् ॥   ९-६ ॥ प्. २८०)
दर्भैरावेष्ट्य यत्नेन बन्धुभिः परिवारितः ।  
कार्पासवाससा वापि ग्राहयेत् तु विचक्षणः ॥   ९-७ ॥
शिवभक्तिः शुचिर्भूत्वा भस्मोद्धूलितविग्रहः ।  
अपसव्योपवीतस्तु कृतदर्भोत्तरीयकः ॥   ९-८ ॥
गत्वा श्मशान देशे तु शुद्धदेशेमनोहरे ।  
खात्वोर्वीं तत्प्रमाणेन विस्तारं तत्प्रमाणतः ॥   ९-९ ॥
बाहुमात्रभिदे निम्ने न्यस्त्वादर्भाक्षतादिभिः ।  
शिरस्तु दक्षिणे देशे शाययेन्मृतकं तथा ॥   ९-१० ॥
तूष्णीं गन्धादिनाभ्यर्च्य दर्भैराच्छाद्यतच्छवम् ।  
मृदं संपूर्य तत्रैव सुस्निग्धन्तु सुवर्णकैः ॥   ९-११ ॥
तदा स्नानञ्च कर्तव्यं तत्सपिण्डैस्सहैव तु ।  
दाहक्रियाविना यत्र बलिकर्म न कारयेत् ॥   ९-१२ ॥
अवटाग्निकमेवोक्तमाकृतिञ्च ततः श्रुणु ।  
वाचायुक्तस्यमरणं शस्त्रेणैव तु मुष्टिका ॥   ९-१३ ॥
वसूरिक्षयकुष्ठाद्यैरात्म घातकमारणम् ।  
जलेन श्रिंगिणावापि वह्निना वा विशेषतः ॥   ९-१४ ॥
एतैस्तु मरणं एषां तेषामाकृतिरुच्यते ।  
सर्पेण पशुनानागैर्देशाद् देशान्तरे गते ॥   ९-१५ ॥
द्वादशाब्दादति क्रान्ते चा कृतिर्दहनं स्मृतम् ।  
तस्य पत्न्यस्ति चेत्तत्र वैधव्यं कारयेत् क्रमात् ॥   ९-१६ ॥
बलिकर्माणि चान्यानि कृत्वा चैव समन्त्रकम् ।  
पश्चात् कृते गते वापि मङ्गल्याभरणं तथा ॥   ९-१७ ॥
मङ्गल्यमुत्तरीयेण पत्न्याकण्ठे तु रोपयेत् ।  
आचार्यं पूजयेद्धीमान्यावदा मरणान्तिकम् ॥   ९-१८ ॥
यत्र पूर्वक्रियासूत्या तत्र कर्म न कारयेत् ।  
शस्त्रादिमरणं यत्र कार्यं संवत्सरोपरि ॥   ९-१९ ॥
अमन्त्रेण दहेद् देहं खनित्वा चाथभूतले ।  
सुदर्भैराकृतिं कृत्वा सूत्रैरावेष्ट्य चा कृतिम् ॥   ९-२० ॥
पलाशपत्रैरावेष्ट्य सर्वाङ्गं परिकल्प्य वै ।  
मृतवत् सर्वकर्माणि कारयेत् तु विचक्षणः ॥   ९-२१ ॥ प्. २८१)
आकृतेर्दहनं प्रोक्ता दहनस्य विधिं श्रुणु ।  
शवशुद्धिं पुराकृत्वा भस्मस्नानमतः परम् ॥   ९-२२ ॥
सिकते स्थण्डिलङ्कृत्वा स्वप्रमाणेन देशिकः ।  
दर्भैरुपरिविन्यस्य प्रेतं तत्रोपविन्यसेत् ॥   ९-२३ ॥
बध्वापादौ च हस्तौ च रङ्गमाल्यैरलङ्कृतम् ।  
ध्यात्वा शिवतनुं पूर्वं ब्रह्माङ्गाकृति विग्रहः ॥   ९-२४ ॥
कर्णमन्त्रञ्जपं कृत्वा बीजमुख्यन्तु मन्त्रतः ।  
स्नात्वाचम्यविधानेन वामे तदुपवीतकम् ॥   ९-२५ ॥
सपिण्डैर्बान्धवैर्वापि संस्नाय्येवं शिवाग्निकम् ।  
चतुरश्रमलङ्कृत्वा खनित्वा कीलकत्रयम् ॥   ९-२६ ॥
तेषामूर्ध्वे तथा पात्रं न्यस्त्वाधसुषकं बुधः ।  
तस्याधश्चाग्निमुद्दीप्य तु षकाग्नौ यथा विधि ॥   ९-२७ ॥
शिवाग्निं ध्याययेत् तत्र गन्धाद्यैश्चाग्निपूजनम् ।  
निधाय शुद्धदेशे तु कृत्वाश्वास परीक्षणम् ॥   ९-२८ ॥
हृन्नासिकर्ण देशेषु स्पर्शयित्वा क्रमात् बुधः ।  
हृदयेन तु मन्त्रेण श्वासंसंशोध्यमन्त्रवित् ॥   ९-२९ ॥
अघोरेण तदुथाप्य शशाने चोपरोप्यते ।  
यावत् प्रेतस्य चायामं तावत् भूमिन्तु खातयेत् ॥   ९-३० ॥
अरतिमात्रमर्धं वा तिलाक्षत कुशोदकैः ।  
वामदेवेन संप्रोक्ष्य स्नात्वाकोणेषु कीलकान् ॥   ९-३१ ॥
सूत्रैरावेष्ट्य परितः काष्ठन्तत्रैव निक्षिपेत् ।  
प्रेतस्य दक्षिणे भागे शिवाग्निं पूर्ववत् बुधः ॥   ९-३२ ॥
हृदयेन शतं हुत्वा तन्नाम्ना तु शताहुतिः ।  
होमशेषं घृते नैव चरुक्षीराक्षतादिभिः ॥   ९-३३ ॥
नाभि हृद्वक्त्रदेशेषु हृदयेन विनिक्षिपेत् ।  
इन्धनोपरि विन्यस्य दक्षिणे तु शिरस्ततः ॥   ९-३४ ॥
दत्वाहिरण्यशकलं नवद्वारेषु बुद्धिमान् ।  
तदास्य चक्षुषी कर्णौ नासिद्वारौ गुहसथा ॥   ९-३५ ॥
लिङ्गञ्चेति नवद्वारं हृदयेन निधापयेत् ।  
क्षीरतण्डुलसम्मिश्रं दत्वा वामेन चास्यके ॥   ९-३६ ॥ प्. २८२)
छेदयित्वा ततः पाशमघोरास्त्रेण मन्त्रवित् ।  
स्रग्वासञ्च ततः कुर्यात् सपिण्डैर्भ्रातृभिस्तथा ॥   ९-३७ ॥
प्रदक्षिणत्रयं कृत्वा वेलाग्रेणैव बुद्धिमान् ।  
जलधारा समायुक्तं वह्निस्थ नवमृत्घटम् ॥   ९-३८ ॥
प्रदक्षिणवशाद्वारमस्त्रमन्त्रेण देशिकः ।  
प्रदक्षिणत्रयङ्कृत्वा वामपार्श्वे निधाय वै ॥   ९-३९ ॥
ततः कपालतोयैश्च प्राणस्थानेषु योजयेत् ।  
मूर्धादिपादपर्यन्त माज्यालेपं सुशोभितम् ॥   ९-४० ॥
पादद्वयञ्च संस्पृश्य स्मृत्वागौ तु हविष्यवत् ।  
अघोरेणाग्नि निक्षिप्य शिरस्थाने शिवं स्मरेत् ॥   ९-४१ ॥
नद्यां वापि तटाके वा सुस्नात्वा भारकैस्सह ।  
पञ्चगव्यं घृतं पीत्वा मूलमन्त्रं शतञ्जपेत् ॥   ९-४२ ॥
यथा शक्त्याधनं दत्वा ब्राह्मणानां दरिद्रिणाम् ।  
तीर्त्थं गत्वा यथा न्यायं स्नापयित्वा सपिण्डकैः ॥   ९-४३ ॥
तिलोदकन्तु तातव्यं तस्य तन्नामपूर्वकम् ।  
दहनस्य विधिः प्रोक्ता ब्रह्मचर्यादिषु क्रमात् ॥   ९-४४ ॥
दहनन्तु न कुर्वीत यतीनाञ्चावटाग्निकम् ।  
संवाह्य शिबिकाद्येषु तूर्यशब्दैर्महारवैः ॥   ९-४५ ॥
सर्वमङ्गलकर्माणि कारयेत् तु विचक्षणः ।  
खात्वादण्डप्रमाणेन प्राङ्मुखं तत्र पूर्ववत् ॥   ९-४६ ॥
स्नानं तत्र न कुर्वीत नास्त्ये वा शौचं मंत्रिणः ।  
बलिकर्मणि कर्तव्यमेकोद्दिष्टाधिकं विना ॥   ९-४७ ॥
समासाद्दहनं प्रोक्तं पितृयज्ञविधिं श्रुणु ।  
इति दहनविधिपटलोनवमः

No comments:

Post a Comment