अथ आचार्यलक्षण पटलः
अथातः संप्रवक्ष्यामि आचार्यस्य तु लक्षणम् ।
फलपाकविधिं श्रुत्वा शिवभक्तिर्भवेद्यथा ॥ २१-१ ॥
तदा प्रवर्तते पुंसो लिङ्गसंस्थापनेरतिः ।
आचार्यं पूर्वमन्वेष्य मूर्तिपांस्तदनन्तरम् ॥ २१-२ ॥
आदिशैव कुलोद्भूतः पञ्चगोचरसंस्थितः ।
सर्वशास्त्रार्थ तत्वज्ञः शिवज्ञानविशारदः ॥ २१-३ ॥
शिवसिद्धान्त तत्वज्ञः शिवाग्निगुरुपुजकः ।
सर्वावयवसंपूर्णस्सर्वलक्षणसंयुतः ॥ २१-४ ॥
वयः षोडशकादूर्ध्वं सप्ततेरध उच्यते ।
शिखी वा बद्धकेशश्च कृतज्ञः प्रियदर्शनः ॥ २१-५ ॥
गृहस्थश्चोत्तमो ज्ञेयो भौतिक ब्रह्मचार्यपि ।
क्रियादि ज्ञानपर्यन्त शास्त्रेषु कृतनिश्चयः ॥ २१-६ ॥
क्रियापादे तु निपुणश्चर्या पादानुवर्तकम् ।
योगपादे क्रियाभ्यासो ज्ञानपादानुरञ्जकः ॥ २१-७ ॥
हेयो पादेय तत्वज्ञस्तत्वार्थे संव्यवस्थितः ।
परं भाव विद श्रेष्ठं पञ्चधा वा परं विदुः ॥ २१-८ ॥ प्. ९५)
देहबन्धनिमित्तञ्च विधिवद्दीक्षितो बुधः ।
शिवज्ञानामृतानन्दस्तूहापोह विधानवित् ॥ २१-९ ॥
ईदृक् भूतस्तु यो विद्वान् स्थापनादीनि कारयेत् ।
स एव स्थापको वत्सनेतरस्सर्वदा विभोः ॥ २१-१० ॥
अनुशैवादिभिर्नैव स्थापनादीनि कारयेत् ।
कण्वादिरादि शैवैस्तु कर्तव्यं स्थापनान्तकम् ॥ २१-११ ॥
अन्यथा तु कृते राज्ञस्त्वाभिचारश्च देवताः ।
नतं गृह्णीत देवेशो न फलञ्जायते ततः ॥ २१-१२ ॥
यदि मोहेन कुर्वीत सान्निद्ध्यं न कदाचन ।
मूर्तिपांस्तु ततो वक्ष्ये आदिशैव कुलोद्भवान् ॥ २१-१३ ॥
आचार्यारम्भशास्त्रे तु तस्मिन्विगत संशयान् ।
तदभि प्रायतत्व ज्ञानाचार्यस्यानुकूलकान् ॥ २१-१४ ॥
मूर्तिञ्च मूर्तिधारांश्च ज्ञातान् सम्यक् समाहितान् ।
एभिर्गुणैस्समायुक्तान् गृह्णीयातान्विचक्षणः ॥ २१-१५ ॥
वामनांश्च ततोज्ञात्वा वर्जयेत् तान् प्रयत्नतः ।
स्वशास्त्रसमयद्वेक्षी त्वङ्गप्रत्यङ्गहीनकः ॥ २१-१६ ॥
नास्तिकोमत्सरोरोगी बधिरोवृद्धिजीवकः ।
भिषक् शास्त्रोपजीवी च तथा रंगोपजीवकः ॥ २१-१७ ॥
पिशुनः क्रूरकर्मस्थश्चपलः पारदारिकः ।
सभीपुरोधसोगर्वीनिस्सत्यश्च कृतघ्नकः ॥ २१-१८ ॥
सन्यासीतार्किको भ्रष्टः कृशाङ्ग श्शल्यजीवकः ।
परापवादशीलश्च नैष्ठिकश्च कपालिकः ॥ २१-१९ ॥
अति ह्रस्वस्त्वति स्थूलो अतिदीर्घोकुदर्शकः ।
विकटदन्तः कुनवीमधुवैखलतिस्तथा ॥ २१-२० ॥
शिपिविष्टोव्रणोपेतश्मश्रुभ्रू चक्षुपिङ्गलाः ।
गुल्मी चैव बृहद्बीजीत्वर्शसादीनि पिडितः ॥ २१-२१ ॥
प्रतिष्ठा तन्त्रकिञ्चित्ज्ञः पशुशास्त्रानुरञ्जितः ।
तन्वोपदेश हीनश्च विमनस्कामनस्ककः ॥ २१-२२ ॥ प्. ९६)
न्यूनाङ्गीचातिरिक्ताङ्गी शठः पण्योपजीवकः ।
षण्डश्च गुह्यकश्चैव नैर्गकः श्वापदन्तकः ॥ २१-२३ ॥
ईदृशान्वर्जयेद् विद्वान् सर्वकर्मबहिष्कृतान् ।
यदि मोहेन कुर्वीत सान्निध्यं न कदाचन ॥ २१-२४ ॥
आचार्यमूर्तिपांश्चैव पूर्वोक्तान् संप्रगृह्य च ।
ततश्चापेक्षयेद् वत्स शिल्पिनं सुकुलोद्भवम् ॥ २१-२५ ॥
स्थपतिं सूत्र गृहिणं वर्धकं तक्षकं तथा ।
स्थापकेनोदितं सर्वं शिल्पशास्त्रेण निर्दिशेत् ॥ २१-२६ ॥
प्रासादादि प्रकर्ताथ सोऽपि हस्तपतिः स्मृतः ।
सूत्रग्राही च मानज्ञो द्रुमाभिख्यो च वर्द्धकी ॥ २१-२७ ॥
तनूकरणयोग्यो यस्त्वसौ तक्षक उच्यते ।
च्छेद्यांश्च च्छेदयेत् सर्वान् भेद्ये तु द्रव्यभेदकः ॥ २१-२८ ॥
वेद्ये तु वेदयेद् द्रव्यां च्छिल्पिकर्मस्त्रिधा भवेत् ।
स्थपतिः सूत्रग्राही च प्रासादान् प्रतिमादिकान् ॥ २१-२९ ॥
कुर्यात् तदक्षिमोक्षादीन् तक्षकेन समाचरेत् ।
शेषे तु वर्जयेत् तत्र मन्त्रकर्मसु सर्वदा ॥ २१-३० ॥
तेषान्तु शिल्पिकार्येऽपि स्थपतेस्तु नियोगतः ।
स्थपतिः शिल्पकार्येषु स्थापकस्यानुसारतः ॥ २१-३१ ॥
स्थपतिः शास्त्रकर्मज्ञः कृतकर्माभिजात्यवान् ।
न हीनाङ्गोतिरिक्ताङ्गो धर्मिष्ठस्सत्यवाचकः ॥ २१-३२ ॥
शल्य ज्ञानान्वितः साधु दृढबन्धुरतन्द्रितः ।
ईदृशं शिल्पिनङ्ग्राह्य प्रारभेत् सर्वकर्मकम् ॥ २१-३३ ॥
आचार्यलक्षणं प्रोक्तं करणानां विधिं श्रुणु ।
इति आचार्यलक्षण पटल एकविंशतितमः ॥ २१ ॥
No comments:
Post a Comment