Sunday, January 6, 2019

हिरण्यगर्भतुलाभारविधिपटलः,सुप्रभेदागमः

अथ हिरण्यगर्भतुलाभारविधिपटलः
अथातः संप्रवक्ष्यामि हैरण्यगर्भकन्तुलाम् ।  
दीक्षायुक्त नृपाणान्तु कर्तव्यौतौ प्रकीर्तितौ ॥   ८-१ ॥
ग्रहणे विषुवेकाले अयने तु प्रशस्यते ।  
पौ-ऋषे चा-ऋषे चैव दैविके तु पुराणके ॥   ८-२ ॥
पौ-ऋषैः स्थापितं लिङ्गं पौ-ऋषन्तु प्रकीर्तितम् ।  
ऋषिभिस्त्वा ऋषं प्रोक्तं देवैरेव तु दैविकम् ॥   ८-३ ॥
स्वयमुद्भूत लिङ्गन्तु पुराणमिति निश्चितम् ।  
पौ-ऋषादि पुराणान्तं फलवृद्ध्युत्तरोत्तरम् ॥   ८-४ ॥
तस्मत् पौराणिके स्थाने कारयेत् तत्र वित्तमः ।  
दैविके मध्यमं ज्ञेयमन्यत्रैवाधमं स्मृतम् ॥   ८-५ ॥
प्रासादस्यैशदिक्भागे पूर्वे वा दक्षिणेऽपि वा ।  
पश्चिमे चोत्तरेवापि अन्तराले मनोरमे ॥   ८-६ ॥
चतुरश्रमण्डपं कृत्वा चतुर्द्वारसमायुतम् ।  
दशद्वादशहस्तं वा षोडशस्तंभसंयुतम् ॥   ८-७ ॥
चतुस्तोरणसंयुक्तं सर्वालंकारसंयुतम् ।  
दर्भमालाभिरावेष्ट्य मुक्तास्रग्दामशोभितम् ॥   ८-८ ॥
तन्मध्ये वेदिकां कुर्यात् नवभागैक विस्तृतम् ।  
उत्सेधश्चरुमात्रेण दर्पणोदरवच्छुभम् ॥   ८-९ ॥
अदिक्षुचाग्नि कुण्डानि पूर्वोक्तविधिनासह ।  
अथवा चतुरश्राणि वृत्तानि विदिशासु वै ॥   ८-१० ॥
चक्रशंकरयोर्मध्ये वृत्तकुण्डं प्रकल्पयेत् ।  
अग्निं वै पूर्ववद्धुत्वा विद्याङ्गं हृदयेन तु ॥   ८-११ ॥
स्थण्डिलं वेदिकायान्तु शालिभिर्विमलैस्तथा ।  
तत्रैव संलिखेत् पद्ममष्टपत्रं सकर्णकम् ॥   ८-१२ ॥
गन्धपुष्पैस्समभ्यर्च्य धूपदीपैर्विशेषतः ।  
हिरण्यभाजनस्याधस्पटपत्रं (स्पृष्टपत्रं) सकणिकम् ॥   ८-१३ ॥
ऊर्ध्वभागन्ततः कृत्वा चतुर्द्वारसमन्वितम् ।  
तथोभागे न्यसेन्मंत्री बीजमुख्येन मन्त्रतः ॥   ८-१४ ॥
प्रक्षाल्य पञ्चगव्येन समभ्यर्च्य सदाबुधः ।  
जलस्नानं पुराकृत्वा दन्तधावन पूर्वकम् ॥   ८-१५ ॥
भस्मस्नानं ततः कृत्वा शुक्लचन्दनलेपितः ।  
शुक्लवस्त्रोपवीतश्च शुक्लमाल्येरलङ्कृतः ॥   ८-१६ ॥
सोष्णीषश्चोत्तरीयश्च सर्वाभरणभूषितः ।  
प्रविशेत् भाजनस्यान्तं पूर्वाभिमुखसंस्थितः ॥   ८-१७ ॥
शिवमन्त्रं जपित्वा तु शिवध्यानपरायणः ।  
ऊर्ध्वभागेन सञ्च्छाद्य हृदयेन विचक्षणः ॥   ८-१८ ॥
सूत्रैरावेष्ट्य यत्नेन पुष्पमाल्यैरलंकृतः ।  
शिवोहमिति संभाव्य यावत् स्वस्वाहितावतः ॥   ८-१९ ॥
तस्मान्निर्गम्य नृपतिर्नमस्कृत्वा सदाशिवम् ।  
हिरण्यगर्भवेशात् तु पुनर्जन्म न तु वृजेत् ॥   ८-२० ॥
भूत्वा हिरण्यगर्भेण विधाता सर्वजन्तुषु ।  
प्रणिपत्य गुरुं तत्र संपूज्य च विशेषतः ॥   ८-२१ ॥
होत्रान् संपूज्यविधिवद्वस्त्रहेमाङ्गुलीयकैः ।  
सर्वयज्ञफलं प्राप्य सर्वदानफलं लभेत् ॥   ८-२२ ॥
दिक्षितानां नृपाणान्तु कर्तव्यं तत्प्रयत्नतः ।  
शैवमार्ग स्थितानां तु ग्रहिणां लिंगिनामपि ॥   ८-२३ ॥
भक्तानां दापयेत् तत्र नृपसौवर्णभाजनम् ।  
प्रोक्तं हिरण्यगर्भन्तु तुलाभारं ततः श्रुणु ॥   ८-२४ ॥
पूर्वोक्त स्थानकालेषु कर्तव्यं तन्नृपेण तु ।  
खदिरश्चन्दनञ्चैवस्तालं चंपकविल्वकैः ॥   ८-२५ ॥
अन्यैस्तु सारवृक्षैर्वा कृत्वास्तंभद्वयं ततः ।  
तदूर्ध्वे चोत्तरन्यस्त्वा दण्डमध्ये तु योजयेत् ॥   ८-२६ ॥
सप्तषट्पञ्चहस्तं वा नाहं द्वात्रिंशदंगुलम् ।  
अग्रयोः सुषिरं कृत्वा बध्वाशृंखलया दृढम् ॥   ८-२७ ॥
समवृतं त्रिहस्तन्तु ताम्रपात्रद्वयन्तथा ।  
किञ्चिन् निम्नन्तु सुषिरन्तयोर्बध्वा तु रज्जुभिः ॥   ८-२८ ॥
आयसेन तु मध्ये तु सुस्निग्धं कारयेत् बुधः ।  
दर्भमालाभिरावेष्ट्य पुष्पमालोपशोभितम् ॥   ८-२९ ॥ प्. २७९)
स्तंभं वस्त्रैस्तु संवेष्ट्यस्सर्वालंकारसंयुतम् ।  
तुलामारोप्य नृपतिस्सर्वाभरणभूषितः ॥   ८-३० ॥
तुलामनुसमायुक्तं हृदयेन विचक्षणः ।  
शेषपात्रे तु संयोज्य हेमतत्तुल्यगर्तकः ॥   ८-३१ ॥
शिवमन्त्रञ्जपित्वा तु शिवध्यानपरायणः ।  
अवतीर्यतुलायास्तु तत्सुवर्णन्तु पूर्ववत् ॥   ८-३२ ॥
दैवानाञ्चैव शैवानां ब्राह्मणानाङ्गुरोस्तथा ।  
आदिशैवानुशैवानां दापयेत् तु यथार्हकम् ॥   ८-३३ ॥
वाजपेय सहस्रैस्तु राजसूयशतैरपि ।  
अश्वमेध सहस्रैस्तु तैस्तुल्यं फलमाप्नुयात् ॥   ८-३४ ॥
तुलाहैरण्यगर्भन्तु प्रोक्तं वै दहनं श्रुणु ।  
इति हिरण्यगर्भतुलाभारविधिपटलोष्टमः

No comments:

Post a Comment