Sunday, January 6, 2019

अथ मुद्रालक्षण पटलः


अथ मुद्रालक्षण पटलः
अथातः संप्रवक्ष्यामि मुद्रायालक्षणं परम् ।  
अर्चनादिक्रियाकाले संयोज्या सा सलक्षणा ॥   ९-१ ॥
अस्त्रीवक्त्री महामुद्रा शोधनी च संहारिणी ।  
पञ्चमुखी च सुरभि द्रव्या च मुकुली तथा ॥   ९-२ ॥
पद्मा च शशकर्णी च शक्तिबीजा तथा भवेत् ।  
आवाहनी च शान्ता च मनोरमध्वजा तथा ॥   ९-३ ॥
ष्ठुरा लिङ्गमुद्रा च गायत्री कालकण्ठका ।  
शूलमुद्रा नमस्कारात्रयोविंशति कीर्तिताः ॥   ९-४ ॥
द्वौ मुष्टी संहति कृत्वा शीघ्रं हस्तौ प्रसारयेत् ।  
अस्त्रमुद्रेति विख्याता सर्वेषाञ्च भयंकरी ॥   ९-५ ॥
वामहस्तो परिस्थाप्य अङ्गुल्यो दक्षिणस्य तु ।  
आकुञ्चयेत् ततस्सर्वा नङ्गुष्ठेन तु बन्धयेत् ॥   ९-६ ॥
वामाङ्गुष्ठेषु संपीड्य अङ्गुल्योङ्गुष्ठकं दृढम् ।  
इयं वक्त्राख्यमुद्रा तु स्नानार्थं देशिकस्य तु ॥   ९-७ ॥
हस्ताभ्यां संस्पृशेत् पादौ द्वौहस्तौ मस्तके न्यसेत् ।  
एषामुद्रा महामुद्रा करसंस्कारपश्चिमे ॥   ९-८ ॥
पाणिमूले तु संलग्नौ हृद्देशे तु परस्परम् ।  
कृत्वैवं ताडयेत् पाणिमुद्रेयं शोधनी भवेत् ॥   ९-९ ॥
प्रसार्य दक्षिणाङ्गुल्यस्त्वङ्गुष्ठं मूर्ध्निसंस्थितम् ।  
मुष्टिवत् सततं कृत्वा ह्येषा संहारिणी स्मृताः ॥   ९-१० ॥
कृत्वान्योन्य गताङ्गुल्याः पृष्ठतो हस्तयोर्द्वयोः ।  
तिर्यक् त्वेकं न्यसेत् तत्र अङ्गुष्ठाभ्यां समाक्रमेत् ॥   ९-११ ॥
तर्जिन्या मध्यमादूर्ध्वे नामिके चोच्छ्रिते शुभे ।  
कृत्वा पञ्चमुखी ख्याता मुद्रेयं शङ्करस्य तु ॥   ९-१२ ॥
वेणी बन्धं करौ कृत्वा ह्यङ्गुष्ठौ युग्मसंस्थितौ ।  
तर्जनीमध्यमे लीनौ कनिष्ठानामिके युते ॥   ९-१३ ॥
एवञ्चत्वारि युग्मन्तु दिव्यामृतसुवर्षिणि ।  
इयं सुरभिमुद्रा च द्रव्यशुद्ध्यर्थमुच्यते ॥   ९-१४ ॥ प्. ४७)
कृत्वाञ्जलिं कराभ्यान्तु अङ्गुष्ठानामिकान्वितम् ।  
प्रसारयेत् ततः शेषां मुद्रेयं द्रव्यरूपिणी ॥   ९-१५ ॥
द्वौहस्तावेकतः कृत्वा मध्ये तु सुषिरन्तयोः ।  
सरोजमुकुलाकारां मुकुलिन्तु प्रदर्शयेत् ॥   ९-१६ ॥
पूर्वोक्तामुकुली या तु हृद्देशान्निः सृताङ्गुली ।  
व्याको च कमलाकारां पद्ममुद्रान्तु दर्शयेत् ॥   ९-१७ ॥
तर्जन्यौ कुञ्चिते चैव तयोरग्रे निधापयेत् ।  
द्वयोरंगुष्ठशिरसि तेषां मध्यघनस्समाः ॥   ९-१८ ॥
कृत्वा तु मणिबन्धे तु वामे सव्यन्तथा न्यसेत् ।  
मुद्रेयं शशकर्णी तु विज्ञेया योगकर्मणि ॥   ९-१९ ॥
तर्जनीं कुञ्चयेदेकामङ्गुष्ठे तु तथा पुनः ।  
शक्तिमुद्रेति विख्याता शक्तीनाञ्च प्रकल्पयेत् ॥   ९-२० ॥
उत्तानौ तु करौ कृत्वा वेणीबन्धन्तु कारयेत् ।  
अङ्गुष्ठौ प्रक्षिपेन्मध्ये हस्तसंपुट गोपितौ ॥   ९-२१ ॥
कनिष्ठकौ तथा चैव मुहुः कृत्वा प्रसारितौ ।  
अग्रे गुरुसमायुक्तां बीजमुद्रां प्रदर्शयेत् ॥   ९-२२ ॥
तर्जन्यङ्गुष्ठलग्नाग्रा शान्तेयं संप्रकीर्तिता ।  
हस्ता वुत्तान्नकौ कृत्वा कन्न्यसौङ्गुष्ठकौ न्यसेत् ॥९-२३ ॥  
मूलपर्वे समौ कृत्वा मुद्रेषावारिधि स्मृता ।  
बलितं हस्तयोः कार्यमुत्ताने तु कनिष्ठकौ ॥   ९-२४ ॥
तयोर्वामावलि ज्ञेया वलीते मध्यमेऽपि च ।  
कुञ्चिते नामिका या च स्वपाणितल योजिते ॥   ९-२५ ॥
देशिन्यौ प्रसृतौ कृत्वा तयोरग्रे नियोजयेत् ।  
अङ्गुष्ठौ मूलपर्वस्थौ तयोरेव हि कुञ्चितौ ॥   ९-२६ ॥
मनोरमेति विख्याता शिव सायुज्यदायिका ।  
वामे प्रदेशिन्यग्रन्तु वेष्टयेत् सव्यपाणिना ॥   ९-२७ ॥
कृत्वोर्ध्वे तु ततोऽङ्गुष्ठं हृदये सन्नियोजयेत् ।  
वामाङ्गुष्ठञ्च वामाभिस्ति सृभिर्वेष्टयेत् क्रमात् ॥ ९-२८ ॥  
ध्वजमुद्रासमाख्याता संयोज्या योगकर्मणि ।  
अङ्गुष्ठौ मध्यतः कृत्वामुष्टिभ्यां पीडयेदुभौ ॥   ९-२९ ॥ प्. ४८)
हस्तौ वाप्युभयौ कृत्वा निष्ठुरां सन्नियोजयेत् ।  
कृत्वामुष्टि भवेद्धस्तौ व्युद्धमङ्गुष्ठसंस्थितौ ॥   ९-३० ॥
मुद्रैषा लिङ्गसंज्ञा तु कृत्वा देशिकदर्शने ।  
अन्योन्यान्तरगास्सर्वाः करपृष्ठाग्रयोजिताः ॥   ९-३१ ॥
अङ्गुष्ठाङ्गुलयः कुर्यादक्षरञ्च नरान्तने ।  
पूजाकर्मणि गायत्रीं गायत्र्यान्तु प्रयोजयेत् ॥   ९-३२ ॥
कृत्वामुष्टिं ततो स्थाने तदानङ्गुलियोजिते ।  
अङ्गुष्ठाग्रौ च संलग्नौ कालकण्ठीन्तु दर्शयेत् ॥   ९-३३ ॥
अन्योन्यान्तरितं कृत्वा पाणि पृष्ठेन योजयेत् ।  
मध्यमे चोच्छ्रिते कृत्वा शूलमुद्रे कीर्तिताः ॥   ९-३४ ॥
सतताङ्गुलि संलग्नौ हस्तौ हृद्देशमाश्रितौ ।  
सर्वेषां बन्धनं कार्यं वामाङ्गुष्ठनिपीडनम् ॥   ९-३५ ॥
नमस्कारेति विज्ञेया सर्वकर्मणिकारयेत् ।  
विधिप्रपूरणार्थन्तु कृत्वा मुद्रान्तु देशिकाः ॥   ९-३६ ॥
मुद्रायालक्षणं प्रोक्तं हविष्यलक्षणं श्रुणु ।  

इति मुद्रालक्षण पटलो नवमः ॥   ९ ॥

No comments:

Post a Comment