Sunday, January 6, 2019

दुर्गास्थापनविधिपटलः,सुप्रभेदागमः

अथातः संप्रवक्ष्यामि दुर्गायाः स्थापनं परम् ।  
आदिशक्तेस्समुत्भूता विष्णुप्राणानुजा शुभा ॥   ४६-१ ॥
शंखचक्रधरा देवी धनुः सायकधारिणी ।  
खट्गखेटकसंयुक्ता शूलपाशसमायुता ॥   ४६-२ ॥
चतुर्भुजं वा कुर्वीत सर्वाभरणभूषितम् ।  
श्यामवर्णांसुवदनां महिषस्यशिरस्थिताम् ॥   ४६-३ ॥
सिंहारूढाञ्च वा कुर्यात् पद्मासनसमागताम् ।  
आलयस्य पुरोभागे प्रपां कृत्वा सलक्षणाम् ॥   ४६-४ ॥
रत्नन्यासन्तु तत्रैव जले चैवाधीवासयेत् ।  
मन्त्रपक्ष्माक्षिमोक्षन्तु कृत्वा प्रतिसरंबुधः ॥   ४६-५ ॥
संकल्पशयनादीनां शाययेत् प्रतिमन्त्रतः ।  
कुंभमन्त्रैश्च विन्यस्य ध्यात्वा तद्रूपमात्मनि ॥   ४६-६ ॥
वृतान् कलशान् स्थाप्य लोकपालांश्च विन्यसेत् ।  
होमं पञ्चत्रयैकं वा प्रागुक्तद्रव्यसंयुतम् ॥   ४६-७ ॥
वह्निमध्ये तु देवेशिमाहूयाज्यादिभिर्बुधः ।  
आज्यञ्चरुं तथा लाजानौदुंबरसमित्तथा ॥   ४६-८ ॥
दुर्गायामूलमन्त्रेण होमयेद्देशिकोत्तमः ।  
देविमुत्थाप्य शयनात् स्नानवेद्युपरिन्यसेत् ॥   ४६-९ ॥ प्. २१२)
कुम्भन्दत्वा तथा बीजं मूलमन्त्रेण योजयेत् ।  
संस्नाप्य कलशैः पश्चात् प्रभूतहविषं तथा ॥   ४६-१० ॥
दुर्गास्थापनमेवोक्तं चण्डेशस्थापनं श्रुणु ।  
इति दुर्गास्थापनविधिपटलः षट्चत्वारिंशत्तमः

No comments:

Post a Comment