Sunday, January 6, 2019

परिवारविधिपटलः,सुप्रभेदागमः


अथ परिवारविधिपटलः
अथातः संप्रवक्ष्यामि परिवारविधिक्रमम् ।  
द्वारपालादि पीठान्तं परिवारमिति स्मृतम् ॥   ३९-१ ॥
द्वारस्थात् प्रथमंयिष्येत् द्वारपालां ततः परम् ।  
वृषभं वै तृतीयन्तु इन्द्रादींस्तु चतुर्थकम् ॥   ३९-२ ॥
पञ्चमं भद्रपीठन्तु तथैवबहिरावृतम् ।  
यत्र यत्र मुखद्वारे कवाटाभ्यान्तु देशिकाः ॥   ३९-३ ॥
तत्र तत्र विशेषेण नवधैवं विसर्जयेत् ।  
भुजंगञ्च पतंगञ्च ऊर्ध्वाधः संप्रकल्प्य वै ॥   ३९-४ ॥
उत्तरञ्च पताकाञ्च तिष्ठतस्सव्यवामयोः ।  
विमलञ्च सुबाहुञ्च विन्यसेद्वामदक्षयोः ॥   ३९-५ ॥
श्रियं सरस्वतीञ्चैव स्कन्दोर्ध्वाधः प्रकल्प्य वै ।  
तस्य मध्ये तु विघ्नेशं स्वनाम्नाबासने सदा ॥   ३९-६ ॥
स्वनामाद्यक्षरेणैव गन्धपुष्पादिभिर्यजेत् ।  
एवं कृत्वा यथा न्यायं द्वारेद्वारे विशेषतः ॥   ३९-७ ॥
सुदृढं वृक्षसारैस्तु कवाटौ तु सलक्षणौ ।  
शून्यमेक कपाटञ्चेत् द्विकपाटे तु शान्तिकम् ॥   ३९-८ ॥
दण्डानुपरिबध्वाथ अथस्थाद्दारुजानपि ।  
पुलकान्नर्धचंद्रादीञ्छिल्पशास्त्रोक्तमार्गतः ॥   ३९-९ ॥
उत्सेधस्याष्टभागैक ऊर्ध्वाधस्तु घनं क्रमात् ।  
विस्तारस्तु चतुर्भागं घनं वै दक्षिणोत्तरे ॥   ३९-१० ॥
कपाटलक्षणं ह्येवं तत्रस्थान् प्रथमं यजेत् ।  
द्वारे तु देवता प्रोक्ता द्वारपालां ततः श्रुणु ॥   ३९-११ ॥
अभ्यन्तरग्रहद्वारे शक्तिद्वारमिति स्मृतम् ।  
दक्षिणे ज्ञानदाशक्ति धर्मदा चैव चोत्तरे ॥   ३९-१२ ॥
एकवक्त्रो द्विहस्ते च मध्यक्षामेस्तनान्विते ।  
कुंकुमाभो महाकालः परशुच्छायुधस्तथा ॥   ३९-१३ ॥
अनन्तेशः पशुपतिर्दक्षिणे द्वारपालकौ ।  
अनन्तो रक्तवर्णस्तु वस्त्रायुधसमन्वितः ॥   ३९-१४ ॥ प्. १९८)
पशुपद्मोत्पलवर्ण श्शक्तिहस्तोग्रलोचनः ।  
पश्चिमद्वारपालौ च दण्डिमुण्डीशसंज्ञकौ ॥   ३९-१५ ॥
दण्डी सुरेन्द्र चापास्त्र खट्गहस्तोग्रदंष्ट्रकः ।  
मुण्डीकुंदेन्दु वर्णाभभिण्डिपालायुधस्तथा ॥   ३९-१६ ॥
विजयश्चैव भृंगीशश्चोत्तरद्वारपालकौ ।  
भ्रंशो भृंगश्चवर्णस्तु क्षुरिकायुधहस्तकः ॥   ३९-१७ ॥
विजयश्चेन्द्रकोलोहः शूलहस्तोभयंकरः ।  
सर्वेत्रिभंगियुक्तश्च सर्वेकुञ्चित पादकाः ॥   ३९-१८ ॥
उग्रदंष्ट्राः सुवृत्ताश्च सर्वां निर्देशहस्तकाः ।  
सर्वे चतुर्भुजोपेता द्विभुजा वा त्रिणेत्रकाः ॥   ३९-१९ ॥
द्विनेत्राश्चोग्रदंष्ट्राश्च हलपल्लवहस्तकाः ।  
द्वारोत्सेध समाभद्राः किरीटाद्यङ्गदोज्वलाः ॥   ३९-२० ॥
प्रासादे मण्डपेद्वारे द्वारेद्वारे च कीर्तिताः ।  
महामर्यादिभित्तिस्था द्वारगोपुर पार्श्वयोः ॥   ३९-२१ ॥
चतुर्दिक्षु विशेषेण महाकाराणि कारयेत् ।  
संवर्तकं श्रियावर्तं कुण्डोदर बृहोदरौ ॥   ३९-२२ ॥
सिंहमुखोहय मुखस्त्वेक पादस्त्वधोमुखः ।  
श्वेतवर्णस्तथा न्यस्त्वास्त्वपरां श्यामसन्निभः ॥   ३९-२३ ॥
द्विनेत्रा द्विभूजास्सर्वे शूलखट्गायुधास्तथा ।  
भूतौ द्वौ द्वौ प्रकर्तव्यौ वासवादिप्रदक्षिणम् ॥   ३९-२४ ॥
अथाहपरिवाराणां पिठञ्चेदन्तरावृते ।  
तेषां विमानमन्विच्छेत् द्वितीयेपि च हारके ॥   ३९-२५ ॥
******* आग्नेयां पावकंतथा ।
मातृंस्तु दक्षिणे भागे वीरविघ्नसमन्वितम् ॥   ३९-२६ ॥
विष्णुं वा तत्र संस्थाप्य आसीनमथवा स्थितम् ।  
विघ्नेशन्नै-ऋते भागे सुब्रह्मण्यन्तु पश्चिमे ॥   ३९-२७ ॥
ज्येष्ठायां वायुदिक्भागे श्रियं वै स्थापयेत् गुरुः ।  
दुर्गां वै चोत्तरे कुर्यात् ब्रह्माणमथवापि वा ॥   ३९-२८ ॥
चण्डेशमैशदिग्भागे भास्करं पूर्वतोदिशि ।  
कूपस्थानं तथैशान्यामाग्नेय्यां पचनालयम् ॥   ३९-२९ ॥ प्. १९९)
अन्तरालेष्वनुक्तेषु यथा रुचिविशेषतः ।  
शयनस्थानमाख्यातं पार्वती सहितं तथा ॥   ३९-३० ॥
परिवारालयं सर्वं बाह्येवाभ्यन्तरेपि वा ।  
द्वितीयावरणं प्रोक्तं तृतीयावरणं श्रुणु ॥   ३९-३१ ॥
इन्द्रादिलोकपालांश्च स्वेस्वेस्थानेऽष्टदिक्षु वै ।  
शक्रशांकरयोर्मध्ये पित्रस्थानं विधीयते ॥   ३९-३२ ॥
नि-ऋतिर्वरुणयोर्मध्ये चाप्सरोगण एव च ।  
वरुणवायुदिशोर्मध्ये आदित्या द्वदशोच्यते ॥   ३९-३३ ॥
भास्करक्षेत्रपालौ च शंकरे वा विशेषतः ।  
चक्रपावकयोर्मध्ये अश्विन्यौ द्वौ तु विन्यसेत् ॥   ३९-३४ ॥
आग्नेयधर्मयोर्मध्ये संस्थाप्यसप्तरोहिणीः ।  
याम्यनै-ऋतयोर्मध्ये पितृस्थानं विधीयते ॥   ३९-३५ ॥
नि-ऋतिर्वरुणयोर्मध्ये पित्रस्थानं विधीयते ।  
नि-ऋतिर्वरुणयोर्मध्ये चाप्सरोगण एव च ॥   ३९-३६ ॥
वरुणवायव्ययोर्मध्ये मुनीनां स्थानमुत्तमम् ।  
वायव्यसोमयोर्मध्ये चान्ते तु वसवस्तथा ॥   ३९-३७ ॥
उत्तरेशानयोर्मध्ये रुद्रैकादश एव हि ।  
बलिपीठं ततः कृत्वा चतुर्दिक्षु विचक्षणः ॥   ३९-३८ ॥
बाह्याभ्यन्तरयोः पीठौ पूर्वद्वारे प्रकल्पयेत् ।  
अन्तरे सर्वभूतांस्तु पिशाचान् बाह्यपीठके ॥   ३९-३९ ॥
यक्षाणां दक्षिणेपीठे राक्षसानां तु पश्चिमे ।  
अधमं हि तदग्रे तु अथवाभ्यन्तरे बुधः ॥   ३९-४० ॥
गर्भगेहस्य पञ्चांशे चतुष्कञ्चोत्तमोन्नतम् ।  
त्रिभागं मध्यमप्रोक्तं द्विभागमधमं स्मृतम् ॥   ३९-४१ ॥
द्वारोत्सेध समञ्ज्येष्ठं तत्त्रिभागन्तुमध्यमम् ।  
द्वाराणामधमं विद्धि उत्सेधसमविस्तृतम् ॥   ३९-४२ ॥
उत्सेधसंविभज्याथ भागमेकोनविंशतिः ।  
भागेनोपानमेकेन चतुर्भुजगतिस्तथा ॥   ३९-४३ ॥
कुम्भं कृत्वा त्रिभिर्भागैस्तदूर्ध्वे केन पट्टकम् ।  
कण्ठं कुर्यात् त्रिभिर्भागैरेके चैवोर्ध्वपट्टिका ॥   ३९-४४ ॥ प्. २००)
महापट्टिका द्विंशेन दलोत्सेधं गलोष्टकम् ।  
कर्णिकाचैकभागेन प्रोक्तमुत्सेधमुत्तमम् ॥   ३९-४५ ॥
प्रवेशनिर्गमं वक्ष्ये विस्तारं षोडशांशकम् ।  
समस्तांशमुपानं तु मन्वन्तं जगतीं तथा ॥   ३९-४६ ॥
भान्वंशं कुमुदं विद्यात् दिगंशं पट्टिकास्तथा ।  
अष्टांशं कण्ठविस्तारं दशांशञ्चोर्ध्वपट्टिका ॥   ३९-४७ ॥
द्वादशांशं महापट्टं वेदिकायां दशांशकम् ।  
अष्टांशं दलविस्तारं त्रियंशेन तु कर्णिका ॥   ३९-४८ ॥
चतुरश्रं यथा पीठं कुर्यात् पददलं विना ।  
स्थापनान्ते त्वथैतानि पूजयेत् तु विशेषतः ॥   ३९-४९ ॥
प्रतिष्ठाविधि मार्गेण कारयेद् देशिकोत्तमः ।  
एवं तथोत्तमं विद्धि सर्वसिद्धिप्रदायकम् ॥   ३९-५० ॥
द्वारकान् भूतपीठान्तं कल्पयेच्चक्रमाद्गुरुः ।  
सूर्यार्कवारुणेयात् तु नांशेहर्म्याणु कल्पयेत् ॥   ३९-५१ ॥
आग्नेय्यान्तु प्रकर्तव्यं च्छात्रादीनान्तु मण्डपम् ।  
नै-ऋत्यां दिशिकर्तव्यं धर्मश्रवणमण्डपम् ॥   ३९-५२ ॥
गीताभ्यां सर्वविख्यातं वायव्यान्तु विशेषतः ।  
यागानामुत्सवादीनां ऐशाने मण्डपं स्मृतम् ॥   ३९-५३ ॥
विख्यातं मध्यहारायां मर्यादिभित्तिके श्रुणु ।  
गोपुरेशानयोर्मध्ये धान्यस्थानमुदाहृतम् ॥   ३९-५४ ॥
कुर्याज्जननशालान्तु याम्यपावकमध्यगः ।  
याम्यनै-ऋतयोर्मध्ये कुर्यादायुधमण्डपम् ॥   ३९-५५ ॥
वरुणनै-ऋतयोर्मध्ये कुर्यादास्थानमण्डपम् ।  
पाशभ्रद्वायुमध्ये तु नृत्तांव्यासस्यमण्डपम् ॥   ३९-५६ ॥
कुबेरानिलयोर्मध्ये धनसञ्चितमण्डपम् ।  
ईशानसोमयोर्मध्ये कर्तव्यं पुष्पमण्डपम् ॥   ३९-५७ ॥
मर्यादिभित्तिके ख्यातं महामर्यादिके श्रुणु ।  
चतुर्दिक्षु महाद्वारे गोपुराणिप्रकल्पयेत् ॥   ३९-५८ ॥
अन्तरालेषु सर्वेषु क्रमेणैवप्रदक्षिणम् ।  
ऋग्यजुः सामधर्वाणाञ्छन्दो ज्योतिषयोस्तथा ॥   ३९-५९ ॥ प्. २०१)
शीक्षाकल्पनिरुक्तानां ततो व्याकरणस्य च ।  
शैवसिद्धान्त शास्त्रस्य तथा पाशुपतस्य च ॥   ३९-६० ॥
सोमसिद्धान्त तन्त्रस्य बौद्ध अर्हतयोस्तथा ।  
पांचरात्राख्य तन्त्रस्य व्याख्यानाभ्यासनानि वै ॥   ३९-६१ ॥
विप्राणां भोजनार्थाय लिङ्गानां भोजनाय वै ।  
आदिशैवानुशैवानां स्थापनापरिकल्पयेत् ॥   ३९-६२ ॥
परिवारसमायुक्तं प्राकाराणां प्रकीर्तितम् ।  
अतः परं विशेषेण वृषभस्थापनं श्रुणु ॥   ३९-६३ ॥
इति परिवारविधिपटल एकोनचत्वारिंशत्तमः ॥   ३९ ॥

No comments:

Post a Comment