Sunday, January 6, 2019

आद्येष्टकाविधि पटलः

अथ आद्येष्टकाविधि पटलः
अथातः संप्रवक्ष्यामि श्रुणुत्वं प्रथमेऽष्टकाम् ।  
खननं पूरणङ्कृत्वा वास्तु देवान् प्रपूजयेत् ॥   २८-१ ॥
तस्योत्तरे प्रपाङ्कृत्वा पूर्वे वाथ विशेषतः ।  
स्थण्डिलन्तस्य मध्ये तु शालिभिश्चतुरङ्गुलम् ॥   २८-२ ॥
अधिवास्यार्ध रात्रौ तु चतस्रः प्रथमेऽष्टकाः ।  
शिलामयविमानञ्चेच्छिलाखण्डाधिवासयेत् ॥   २८-३ ॥
इष्टकामय धाम्नि तु इष्टाकास्थापयेत् सुधीः ।  
तालत्रयसमुत्सेधं द्विगुणेन सुविस्तृतम् ॥   २८-४ ॥
विस्तार द्विगुणायामं कारयेन्मध्यमोत्तमे ।  
अध्यर्धतालमतालं मध्यमान्मध्यभावयेत् ॥   २८-५ ॥ प्. १३३)
तालमात्रसमुत्सेधं मध्यमादधमं भवेत् ।  
मध्यमत्रयमित्युक्तं मथमत्रयमुच्यते ॥   २८-६ ॥
एकादशाङ्गुलोन्नत्या ह्यधमोत्तममाचरेत् ।  
नवाङ्गुलेन तन्मध्यं सप्ताङ्गुल्याधमाधमम् ॥   २८-७ ॥
उन्नतिस्त्वेवमाख्यातं द्विगुणैर्विस्तृतिर्भवेत् ।  
तासां द्विगुणकैर्दैर्घ्यं मानैस्सर्वाणिकारयेत् ॥   २८-८ ॥
शिलायाः कथितं मानमिष्टकायाः श्रुणु क्रमात् ।  
षडङ्गुलं तदुत्सेधं द्वादशाङ्गुलविस्तृतम् ॥   २८-९ ॥
विस्तारद्विगुणं दैर्घ्यमुत्तमोत्तममेव हि ।  
त्रियङ्गुलप्रमाणेन कनीयससमुन्नती ॥   २८-१० ॥
उत्तमाधमयोर्मध्य सप्तधासुविभाजिते ।  
नवधा भेदमाख्यातं यथारुचि समाचरेत् ॥   २८-११ ॥
उन्नते द्विगुणन्तारं तस्मात् द्विगुणमायतम् ।  
एवं सुपक्वकैकार्यं सुदृढैस्तु मनोहरैः ॥   २८-१२ ॥
मूलं स्थूलं भवेन्नारी ह्यग्रं स्थूलं नपुंसकम् ।  
मूलमग्रं समञ्चेत्तु पुल्लिङ्गमिति निश्चितम् ॥   २८-१३ ॥
पुल्लिङ्गैश्चैव पुसां स्यात् स्त्रीणां स्त्रीलिङ्गकैस्तथा ।  
पाटलिपुष्पसंकाशामिष्टकांशं ग्रहेत् ततः ॥   २८-१४ ॥
सूत्रैर्दर्भैरथावृत्य वस्त्रैरावेष्ट्य यत्नतः ।  
गन्धपुष्पैरलङ्कृत्य स्थण्डिलोपरिविन्यसेत् ॥   २८-१५ ॥
तस्य पूर्वे तु कलशान् स वस्त्रान् सूत्रवेष्टितान् ।  
विद्येश्वरसमायुक्तान् स्थण्डिलोपरिविन्यसेत् ॥   २८-१६ ॥
मध्यमे शिवकुम्भन्तु तस्य वामे तु वर्धनीम् ।  
पूजयेद्धृदये नैव गन्धपुष्पादिभिः क्रमात् ॥   २८-१७ ॥
तस्यैवोत्तरदिग्भागे होमं कुर्याद्विचक्षणः ।  
समिदाज्यान्नकैश्चैव यथा विधिविशेषतः ॥   २८-१८ ॥
तिलतण्डुलसंमिश्रैर्विशेषेण घृत प्लुतैः ।  
ईशानेन तु मन्त्रेण जुहुया तु शताहुतिः ॥   २८-१९ ॥ प्. १३४)
शिवाङ्गैश्चैव विद्याङ्गैर्द्रव्यान्ते जुहुयात् ततः ।  
प्रभातेसु मुहूर्ते तु इष्टकास्थापनं भवेत् ॥   २८-२० ॥
स्थापकं पूजयेत् पूर्वं स्थपतिं तदनन्तरम् ।  
मन्त्रोक्त सर्वकर्माणि स्थापकेन समाचरेत् ॥   २८-२१ ॥
मन्त्रहीनञ्च यत् कर्म सर्वं स्थपतिना कुरु ।  
कृतञ्चेत् मन्त्रयुक्कर्मत्वभिचाराय तत् भवेत् ॥   २८-२२ ॥
तस्मात् सर्वप्रयत्नेन मन्त्रोक्तान् स्थापकेन तु ।  
सुमुहूर्ते न्यसेद्विद्वांश्चतस्रश्चेष्टकाः क्रमात् ॥   २८-२३ ॥
द्वारस्य दक्षिणे भागे कर्तव्या प्रथमेऽष्टकाः ।  
पूर्वादिषु चतुर्दिक्षु चतुर्भिर्ब्रह्मभिर्न्यसेत् ॥   २८-२४ ॥
अग्रमग्रन्तथैशान्ये मूलग्रमञ्च नै-ऋते ।  
मूलाग्रञ्चाग्नि वायव्यां स्थापयेत् तु विचक्षणः ॥   २८-२५ ॥
सद्यादि ब्रह्ममन्त्रेण पूर्वादिपुरुषादिके ।  
तेषां मध्ये तदा गर्ते पूरयेदुदकैः शुभैः ॥   २८-२६ ॥
कलशान्तस्थ तोयैश्च शिवमन्त्रेण पूरयेत् ।  
शुभं स्याद्दक्षिणावर्तं वामावर्तमशोभनम् ॥   २८-२७ ॥
तद्दोषशमनार्थन्तु ईशानेन शताहुतिः ।  
तत्रैव नवरत्नानि विन्यसेदनुपूर्वशः ॥   २८-२८ ॥
वज्रमौक्तिक वैडूर्य शङ्खस्फटिक पुष्यकान् ।  
चन्द्रकान्तं महानीलं माणिक्कञ्चक्रमां न्यसेत् ॥   २८-२९ ॥
तेषामभावे सौवर्णं विन्यसेत् तु विचक्षणः ।  
गजदन्ते तथा क्षेत्रे वल्मीके कर्कटालये ॥   २८-३० ॥
वृष श्रुङ्गे हृदे नद्याञ्तीर्थे वै पर्वते तथा ।  
समुद्रे च मृदं ग्राह्य पूरयेदवटं तथा ॥   २८-३१ ॥
मृदलाभे तु मतिमां नदीतीरे मृदंग्रहेत् ।  
अत ऊर्ध्वं प्रकर्तव्यं प्रासादं लक्षणेन तु ॥   २८-३२ ॥
आद्येऽष्टका विधिः प्रोक्ता गर्भन्यासविधिं श्रुणु ।  

इति आद्येऽष्टकाविधि पटल अष्टविंशतितमः ॥   २८ ॥

No comments:

Post a Comment