Sunday, January 6, 2019

आदित्यस्थापनविधिपटलः,सुप्रभेदागमः

अथ आदित्यस्थापनविधिपटलः
अथातः संप्रवक्ष्यामि आदित्यस्थापनं परम् ।  
अदितेः पुत्रभावत्वादादित्यस्यति चोच्यते ॥   ४९-१ ॥
ईश्वरस्यार्धभागे तु जगश्चक्षुरिति स्मृतः ।  
द्विभुजं सौम्यमित्युक्वा तस्मात् सौम्यन्तु पूजयेत् ॥   ४९-२ ॥
सर्वसिद्धिं समन्विच्छेत् ग्राममध्ये विशेषतः ।  
आलये वामपार्श्वे तु विभवार्थाय देशिकः ॥   ४९-३ ॥
प्रासादं विधिना कृत्वा चाश्वाकर्णसमायुतान् ।  
मूर्तयस्तु चतुर्दिक्षु सूर्याक्षविभवानुगाः ॥   ४९-४ ॥
रक्तं श्वेतञ्च पीतञ्च श्यामं सूर्यादिवर्णकम् ।  
शिल्पालङ्कारसंयुक्तं प्रासादलक्षणान्वितम् ॥   ४९-५ ॥
ग्रामस्याभिमुखद्वारमालये पश्चिमे मुखम् ।  
काष्ठलोहशिलाकृत्भिः कृत्वा तु प्रतिमां ततः ॥   ४९-६ ॥ प्. २१६)
द्विभुजं पद्महस्तन्तु रक्तवर्णं स्वरूपकम् ।  
करण्डमकुटोपेतं सर्वाभरणभूषितम् ॥   ४९-७ ॥
मकुटद्विगुणन्तारं प्रभामण्डलमध्यमम् ।  
उषाश्च प्रत्युषादेवी सव्यासव्ये तु संस्थितः ॥   ४९-८ ॥
अरुणञ्चाग्रतः कृत्वा पङ्कजं तत्स्वरूपकम् ।  
सप्ताश्वरथमध्यस्थं भास्करं पापनाशनम् ॥   ४९-९ ॥
रक्तपद्मासनस्थं हि आसनं तत्र कल्पयेत् ।  
पूर्वोक्तविधिना सर्वमादित्यं परिकल्पयेत् ॥   ४९-१० ॥
मृण्मयं यदिकुर्वीत दैविके प्रतिमं तथा ।  
शूलरज्जुमृदाद्यैस्तु वर्णभेदं सुशिल्पिकम् ॥   ४९-११ ॥
कर्माच्च मध्यमे स्थाप्य शैलजं वाथलोहकम् ।  
रत्नादि स्थापनान्तञ्च संक्षेपाच्छृणु सांप्रतम् ॥   ४९-१२ ॥
आलयस्याग्रतः कृत्वा मण्डपंविधिनान्वितम् ।  
तन्मध्ये वेदिकां कुर्यात् तत्त्रिभागेति विस्तरात् ॥   ४९-१३ ॥
हस्तमात्रप्रमाणञ्च दर्पणोदरसन्निभम् ।  
कुण्डानिपरितः कृत्वा मृदा वा वादॄकैश्च वा ॥   ४९-१४ ॥
शालिभिस्थण्डिलङ्कृत्वा रत्नन्यासायदेशिकः ।  
रत्नानामप्यलभे तु मौक्तिकं तु निधापयेत् ॥   ४९-१५ ॥
उत्तराच्छादनं कृत्वा दर्भैर्वस्त्रैः समन्ततः ।  
वस्त्रेण वेष्टयित्वा तु जले चैवाधिवासनम् ॥   ४९-१६ ॥
नीत्वा जलोषितं बिंबं संस्नाप्य पञ्चगव्यकैः ।  
हेमसूच्याथमधुना नेत्रं नेत्रेणमोचयेत् ॥   ४९-१७ ॥
बध्वा प्रतिसरं मंत्रीशयने चाधिवासयेत् ।  
उत्तराच्छादनं कृत्वा दर्भैर्वस्त्रैस्समन्ततः ॥   ४९-१८ ॥
शयनस्य च दिक्भागे कुंभंवस्त्रेण वेष्टयेत् ।  
सकूर्चान् सापिधान् कुंभान् गन्धाद्यैर्विधिना यजेत् ॥   ४९-१९ ॥
ध्यात्वा तत्तत् स्वरूपाञ्च * * * * * * * * ।  
आवृतान् कलशानष्टौ लोकपालाधिकान् क्रमात् ॥   ४९-२० ॥
प्. २१७)
वस्त्रकूर्चा पिधानाद्यैस्थापयित्वा पृथक् पृथक् ।  
पच्छाद्धोमन्तु कर्तव्यं नवपञ्चत्रयन्तु वा ॥   ४९-२१ ॥
शिवाग्निं पूर्ववद् ध्यात्वा न्यस्त्वा चाद्यन्तु मध्यमे ।  
समिदाज्यचरूं लाजान् सक्तुसर्षपमेव च ॥   ४९-२२ ॥
सूर्यगायत्रि मन्त्रेण सर्वद्रव्याणि होमयेत् ।  
स्पर्शाहुतिं ततः कृत्वा तन्मूलेन तु देशिकः ॥   ४९-२३ ॥
प्रभाते सुमुहूर्ते तु पूर्णां दत्वा स्वमन्त्रतः ।  
आचार्यं पूजयेत् तत्र वस्त्रहेमाङ्गुलीयकैः ॥   ४९-२४ ॥
शयनात् बिंबमुत्थाप्य स्नानवेद्यामथानयेत् ।  
घृतः शिरोर्पणं कृत्वा नीत्वाकुंभन्तु सन्निधौ ॥   ४९-२५ ॥
कुंभस्थन्तु यथा देवं प्रतिमाया हृदिन्यसेत् ।  
संस्थाप्य कलशैरेव गन्धपुष्पादिनार्चयेत् ॥   ४९-२६ ॥
प्रभूतं हविषं दत्वा मूलमन्त्रेण देशिकः ।  
प्रारभेदुत्सवं तत्र कर्तावित्तानुसारतः ॥   ४९-२७ ॥
तदुत्सवविधौ सर्वमाहशास्त्रे तु चोदितम् ।  
आदित्य स्थापनं प्रोक्तं क्षेत्रपालविधिं श्रुणु ॥   ४९-२८ ॥
इति आदित्यस्थापनविधिपटल एकोनपञ्चाशत्तमः ॥   ४९ ॥

No comments:

Post a Comment